Mahābhārata
Ārṣṭiṣeṇa-āśrama-gandhamādana-praveśa-parva (The Journey to Ārṣṭiṣeṇa)3.155.39-68
3315 / 15823
Mahābhārata · 3.155.39-68
Devanāgarī

सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ॥
पश्यन्तः पादपांश् चापि फलभारावनामितान् ॥
आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् ॥
अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान् ॥
पनसांल् लिकुचान् मोचान् खर्जूरान् आम्रवेतसान् ॥
पारावतांस् तथा क्षौद्रान् नीपांश् चापि मनोरमान् ॥
बिल्वान् कपित्थाञ् जम्बूंश् च काश्मरीर् बदरीस् तथा ॥
प्लक्षान् उदुम्बरवटान् अश्वत्थान् क्षीरिणस् तथा ॥
भल्लातकान् आमलकान् हरीतकबिभीतकान् ॥
इङ्गुदान् करवीरांश् च तिन्दुकांश् च महाफलान् ॥
एतान् अन्यांश् च विविधान् गन्धमादनसानुषु ॥
फलैर् अमृतकल्पैस् तान् आचितान् स्वादुभिस् तरून् ॥
तथैव चम्पकाशोकान् केतकान् बकुलांस् तथा ॥
पुंनागान् सप्तपर्णांश् च कर्णिकारान् सकेतकान् ॥
पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस् तथा ॥
पारिजातान् कोविदारान् देवदारुतरूंस् तथा ॥
शालांस् तालांस् तमालांश् च प्रियालान् बकुलांस् तथा ॥
शाल्मलीः किंशुकाशोकाञ् शिंशपांस् तरलांस् तथा ॥
चकोरैः शतपत्रैश् च भृङ्गराजैस् तथा शुकैः ॥
कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥
प्रियव्रतैश् चातकैश् च तथान्यैर् विविधैः खगैः ॥
श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितान् ॥
सरांसि च विचित्राणि प्रसन्नसलिलानि च ॥
कुमुदैः पुण्डरीकैश् च तथा कोकनदोत्पलैः ॥
कह्लारैः कमलैश् चैव आचितानि समन्ततः ॥
कदम्बैश् चक्रवाकैश् च कुररैर् जलकुक्कुटैः ॥
कारण्डवैः प्लवैर् हंसैर् बकैर् मद्गुभिर् एव च ॥
एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः ॥
हृष्टैस् तथा तामरसरसासवमदालसैः ॥
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥
मधुरस्वरैर् मधुकरैर् विरुतान् कमलाकरान् ॥
पश्यन्तस् ते मनोरम्यान् गन्धमादनसानुषु ॥
तथैव पद्मषण्डैश् च मण्डितेषु समन्ततः ॥
शिखण्डिनीभिः सहितांल् लतामण्डपकेषु च ॥
मेघतूर्यरवोद्दाममदनाकुलितान् भृशम् ॥
कृत्वैव केकामधुरं संगीतमधुरस्वरम् ॥
चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान् ॥
मयूरान् ददृशुश् चित्रान् नृत्यतो वनलासकान् ॥
कान्ताभिः सहितान् अन्यान् अपश्यन् रमतः सुखम् ॥
वल्लीलतासंकटेषु कटकेषु स्थितांस् तथा ॥
कांश् चिच् छकुनजातांश् च विटपेषूत्कटान् अपि ॥
कलापरचिताटोपान् विचित्रमुकुटान् इव ॥
विवरेषु तरूणां च मुदितान् ददृशुश् च ते ॥
सिन्धुवारान् अथोद्दामान् मन्मथस्येव तोमरान् ॥
सुवर्णकुसुमाकीर्णान् गिरीणां शिखरेषु च ॥
कर्णिकारान् विरचितान् कर्णपूरान् इवोत्तमान् ॥
अथापश्यन् कुरबकान् वनराजिषु पुष्पितान् ॥
कामवश्योत्सुककरान् कामस्येव शरोत्करान् ॥
तथैव वनराजीनाम् उदारान् रचितान् इव ॥
विराजमानांस् ते ऽपश्यंस् तिलकांस् तिलकान् इव ॥
तथानङ्गशराकारान् सहकारान् मनोरमान् ॥
अपश्यन् भ्रमरारावान् मञ्जरीभिर् विराजितान् ॥
हिरण्यसदृशैः पुष्पैर् दावाग्निसदृशैर् अपि ॥
लोहितैर् अञ्जनाभैश् च वैडूर्यसदृशैर् अपि ॥
तथा शालांस् तमालांश् च पाटल्यो बकुलानि च ॥
माला इव समासक्ताः शैलानां शिखरेषु च ॥
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ॥
गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् ॥
शरभोन्नादसंघुष्टं नानारावनिनादितम् ॥
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥
पीता भास्वरवर्णाभा बभूवुर् वनराजयः ॥
नात्र कण्टकिनः के चिन् नात्र के चिद् अपुष्पिताः ॥
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥
विमलस्फटिकाभानि पाण्डुरच्छदनैर् द्विजैः ॥
राजहंसैर् उपेतानि सारसाभिरुतानि च ॥
सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च ॥
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥
एते चान्ये च बहवस् तत्र काननजा द्रुमाः ॥
लताश् च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥

Transliteración (IAST)

sarvartuphalabhārāḍhyān sarvartukusumojjvalān ||
paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān ||
āmrān āmrātakān phullān nārikelān satindukān ||
ajātakāṃs tathā jīrān dāḍimān bījapūrakān ||
panasāṃl likucān mocān kharjūrān āmravetasān ||
pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān ||
bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā ||
plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā ||
bhallātakān āmalakān harītakabibhītakān ||
iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān ||
etān anyāṃś ca vividhān gandhamādanasānuṣu ||
phalair amṛtakalpais tān ācitān svādubhis tarūn ||
tathaiva campakāśokān ketakān bakulāṃs tathā ||
puṃnāgān saptaparṇāṃś ca karṇikārān saketakān ||
pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā ||
pārijātān kovidārān devadārutarūṃs tathā ||
śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā ||
śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā ||
cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ ||
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ ||
priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ ||
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān ||
sarāṃsi ca vicitrāṇi prasannasalilāni ca ||
kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ ||
kahlāraiḥ kamalaiś caiva ācitāni samantataḥ ||
kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ ||
kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca ||
etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ ||
hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ ||
padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ ||
madhurasvarair madhukarair virutān kamalākarān ||
paśyantas te manoramyān gandhamādanasānuṣu ||
tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ ||
śikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca ||
meghatūryaravoddāmamadanākulitān bhṛśam ||
kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram ||
citrān kalāpān vistīrya savilāsān madālasān ||
mayūrān dadṛśuś citrān nṛtyato vanalāsakān ||
kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham ||
vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā ||
kāṃś cic chakunajātāṃś ca viṭapeṣūtkaṭān api ||
kalāparacitāṭopān vicitramukuṭān iva ||
vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te ||
sindhuvārān athoddāmān manmathasyeva tomarān ||
suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca ||
karṇikārān viracitān karṇapūrān ivottamān ||
athāpaśyan kurabakān vanarājiṣu puṣpitān ||
kāmavaśyotsukakarān kāmasyeva śarotkarān ||
tathaiva vanarājīnām udārān racitān iva ||
virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva ||
tathānaṅgaśarākārān sahakārān manoramān ||
apaśyan bhramarārāvān mañjarībhir virājitān ||
hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api ||
lohitair añjanābhaiś ca vaiḍūryasadṛśair api ||
tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca ||
mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca ||
evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ ||
gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam ||
śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam ||
sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu ||
pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ ||
nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ ||
snigdhapatraphalā vṛkṣā gandhamādanasānuṣu ||
vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ ||
rājahaṃsair upetāni sārasābhirutāni ca ||
sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu ||
padmotpalavicitrāṇi sukhasparśajalāni ca ||
gandhavanti ca mālyāni rasavanti phalāni ca ||
atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu ||
ete cānye ca bahavas tatra kānanajā drumāḥ ||
latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ ||

Palabra por palabra
SánscritoIASTSignificado
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ॥ पश्यन्तः पादपांश् चापि फलभारावनामितान् ॥ आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् ॥ अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान् ॥ पनसांल् लिकुचान् मोचान् खर्जूरान् आम्रवेतसान् ॥ पारावतांस् तथा क्षौद्रान् नीपांश् चापि मनोरमान् ॥ बिल्वान् कपित्थाञ् जम्बूंश् च काश्मरीर् बदरीस् तथा ॥ प्लक्षान् उदुम्बरवटान् अश्वत्थान् क्षीरिणस् तथा ॥ भल्लातकान् आमलकान् हरीतकबिभीतकान् ॥ इङ्गुदान् करवीरांश् च तिन्दुकांश् च महाफलान् ॥ एतान् अन्यांश् च विविधान् गन्धमादनसानुषु ॥ फलैर् अमृतकल्पैस् तान् आचितान् स्वादुभिस् तरून् ॥ तथैव चम्पकाशोकान् केतकान् बकुलांस् तथा ॥ पुंनागान् सप्तपर्णांश् च कर्णिकारान् सकेतकान् ॥ पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस् तथा ॥ पारिजातान् कोविदारान् देवदारुतरूंस् तथा ॥ शालांस् तालांस् तमालांश् च प्रियालान् बकुलांस् तथा ॥ शाल्मलीः किंशुकाशोकाञ् शिंशपांस् तरलांस् तथा ॥ चकोरैः शतपत्रैश् च भृङ्गराजैस् तथा शुकैः ॥ कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥ प्रियव्रतैश् चातकैश् च तथान्यैर् विविधैः खगैः ॥ श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितान् ॥ सरांसि च विचित्राणि प्रसन्नसलिलानि च ॥ कुमुदैः पुण्डरीकैश् च तथा कोकनदोत्पलैः ॥ कह्लारैः कमलैश् चैव आचितानि समन्ततः ॥ कदम्बैश् चक्रवाकैश् च कुररैर् जलकुक्कुटैः ॥ कारण्डवैः प्लवैर् हंसैर् बकैर् मद्गुभिर् एव च ॥ एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः ॥ हृष्टैस् तथा तामरसरसासवमदालसैः ॥ पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥ मधुरस्वरैर् मधुकरैर् विरुतान् कमलाकरान् ॥ पश्यन्तस् ते मनोरम्यान् गन्धमादनसानुषु ॥ तथैव पद्मषण्डैश् च मण्डितेषु समन्ततः ॥ शिखण्डिनीभिः सहितांल् लतामण्डपकेषु च ॥ मेघतूर्यरवोद्दाममदनाकुलितान् भृशम् ॥ कृत्वैव केकामधुरं संगीतमधुरस्वरम् ॥ चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान् ॥ मयूरान् ददृशुश् चित्रान् नृत्यतो वनलासकान् ॥ कान्ताभिः सहितान् अन्यान् अपश्यन् रमतः सुखम् ॥ वल्लीलतासंकटेषु कटकेषु स्थितांस् तथा ॥ कांश् चिच् छकुनजातांश् च विटपेषूत्कटान् अपि ॥ कलापरचिताटोपान् विचित्रमुकुटान् इव ॥ विवरेषु तरूणां च मुदितान् ददृशुश् च ते ॥ सिन्धुवारान् अथोद्दामान् मन्मथस्येव तोमरान् ॥ सुवर्णकुसुमाकीर्णान् गिरीणां शिखरेषु च ॥ कर्णिकारान् विरचितान् कर्णपूरान् इवोत्तमान् ॥ अथापश्यन् कुरबकान् वनराजिषु पुष्पितान् ॥ कामवश्योत्सुककरान् कामस्येव शरोत्करान् ॥ तथैव वनराजीनाम् उदारान् रचितान् इव ॥ विराजमानांस् ते ऽपश्यंस् तिलकांस् तिलकान् इव ॥ तथानङ्गशराकारान् सहकारान् मनोरमान् ॥ अपश्यन् भ्रमरारावान् मञ्जरीभिर् विराजितान् ॥ हिरण्यसदृशैः पुष्पैर् दावाग्निसदृशैर् अपि ॥ लोहितैर् अञ्जनाभैश् च वैडूर्यसदृशैर् अपि ॥ तथा शालांस् तमालांश् च पाटल्यो बकुलानि च ॥ माला इव समासक्ताः शैलानां शिखरेषु च ॥ एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ॥ गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् ॥ शरभोन्नादसंघुष्टं नानारावनिनादितम् ॥ सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥ पीता भास्वरवर्णाभा बभूवुर् वनराजयः ॥ नात्र कण्टकिनः के चिन् नात्र के चिद् अपुष्पिताः ॥ स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ विमलस्फटिकाभानि पाण्डुरच्छदनैर् द्विजैः ॥ राजहंसैर् उपेतानि सारसाभिरुतानि च ॥ सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥ पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च ॥ गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ एते चान्ये च बहवस् तत्र काननजा द्रुमाः ॥ लताश् च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥sarvartuphalabhārāḍhyān sarvartukusumojjvalān || paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān || āmrān āmrātakān phullān nārikelān satindukān || ajātakāṃs tathā jīrān dāḍimān bījapūrakān || panasāṃl likucān mocān kharjūrān āmravetasān || pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān || bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā || plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā || bhallātakān āmalakān harītakabibhītakān || iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān || etān anyāṃś ca vividhān gandhamādanasānuṣu || phalair amṛtakalpais tān ācitān svādubhis tarūn || tathaiva campakāśokān ketakān bakulāṃs tathā || puṃnāgān saptaparṇāṃś ca karṇikārān saketakān || pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā || pārijātān kovidārān devadārutarūṃs tathā || śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā || śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā || cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ || kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ || priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ || śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān || sarāṃsi ca vicitrāṇi prasannasalilāni ca || kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ || kahlāraiḥ kamalaiś caiva ācitāni samantataḥ || kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ || kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca || etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ || hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ || padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ || madhurasvarair madhukarair virutān kamalākarān || paśyantas te manoramyān gandhamādanasānuṣu || tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ || śikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca || meghatūryaravoddāmamadanākulitān bhṛśam || kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram || citrān kalāpān vistīrya savilāsān madālasān || mayūrān dadṛśuś citrān nṛtyato vanalāsakān || kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham || vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā || kāṃś cic chakunajātāṃś ca viṭapeṣūtkaṭān api || kalāparacitāṭopān vicitramukuṭān iva || vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te || sindhuvārān athoddāmān manmathasyeva tomarān || suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca || karṇikārān viracitān karṇapūrān ivottamān || athāpaśyan kurabakān vanarājiṣu puṣpitān || kāmavaśyotsukakarān kāmasyeva śarotkarān || tathaiva vanarājīnām udārān racitān iva || virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva || tathānaṅgaśarākārān sahakārān manoramān || apaśyan bhramarārāvān mañjarībhir virājitān || hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api || lohitair añjanābhaiś ca vaiḍūryasadṛśair api || tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca || mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca || evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ || gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam || śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam || sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu || pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ || nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ || snigdhapatraphalā vṛkṣā gandhamādanasānuṣu || vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ || rājahaṃsair upetāni sārasābhirutāni ca || sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu || padmotpalavicitrāṇi sukhasparśajalāni ca || gandhavanti ca mālyāni rasavanti phalāni ca || atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu || ete cānye ca bahavas tatra kānanajā drumāḥ || latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ ||On the mountain there were manifold trees, vines, flowers, fruits, birds, bees, deer, elephants, tigers, lions, boars, and other animals; the cries of peacocks, the singing of birds, and the roar of waters resounded; the forest was rich in roots, fruits, and honey; the slopes gleamed with minerals, the caves and peaks delighted the eye, and the whole place seemed a heavenly garden.
Traducción

'There grew trees of many kinds, entwined with vines, bearing flowers and fruit; bees swarmed, birds sang, peacocks cried out. Over the slopes wandered deer, elephants, tigers, lions, boars, and other beasts. Rivers and waterfalls filled the mountain with sound, the forest yielded roots, fruits, and honey, and the slopes gleamed with minerals. Caves, groves, and peaks delighted the eye; the whole of Gandhamadana seemed a heavenly garden, open to those who had come bound by a vow.'

Versión

f03a29b5be5a · publicado 16 jul 2026, 17:09:16 UTC

Disponible enRUEN

Pasa de verso en verso con