Mahabharata
Дамаянти-вана-вилапа-парва: Дамаянти ищет Налу в лесу · Verse 3.61.57-95
3033 / 3756
Mahabharata · 3.61.57-95
Devanāgarī

सा गत्वा त्रीन् अहोरात्रान् ददर्श परमाङ्गना ॥
तापसारण्यम् अतुलं दिव्यकाननदर्शनम् ॥
वसिष्ठभृग्वत्रिसमैस् तापसैर् उपशोभितम् ॥
नियतैः संयताहारैर् दमशौचसमन्वितैः ॥
अब्भक्षैर् वायुभक्षैश् च पत्राहारैस् तथैव च ॥
जितेन्द्रियैर् महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥
वल्कलाजिनसंवीतैर् मुनिभिः संयतेन्द्रियैः ॥
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥
सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् ॥
शाखामृगगणैश् चैव तापसैश् च समन्वितम् ॥
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ॥
वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ॥
सा विवेशाश्रमपदं वीरसेनसुतप्रिया ॥
योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ॥
साभिवाद्य तपोवृद्धान् विनयावनता स्थिता ॥
स्वागतं त इति प्रोक्ता तैः सर्वैस् तापसैश् च सा ॥
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः ॥
आस्यताम् इत्य् अथोचुस् ते ब्रूहि किं करवामहे ॥
तान् उवाच वरारोहा कच्चिद् भगवताम् इह ॥
तपस्य् अग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥
कुशलं वो महाभागाः स्वधर्मचरणेषु च ॥
तैर् उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ॥
ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ॥
दृष्ट्वैव ते परं रूपं द्युतिं च परमाम् इह ॥
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ॥
अस्यारण्यस्य महती देवता वा महीभृतः ॥
अस्या नु नद्याः कल्याणि वद सत्यम् अनिन्दिते ॥
साब्रवीत् तान् ऋषीन् नाहम् अरण्यस्यास्य देवता ॥
न चाप्य् अस्य गिरेर् विप्रा न नद्या देवताप्य् अहम् ॥
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः ॥
विस्तरेणाभिधास्यामि तन् मे शृणुत सर्वशः ॥
विदर्भेषु महीपालो भीमो नाम महाद्युतिः ॥
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥
निषधाधिपतिर् धीमान् नलो नाम महायशाः ॥
वीरः संग्रामजिद् विद्वान् मम भर्ता विशां पतिः ॥
देवताभ्यर्चनपरो द्विजातिजनवत्सलः ॥
गोप्ता निषधवंशस्य महाभागो महाद्युतिः ॥
सत्यवाग् धर्मवित् प्राज्ञः सत्यसंधो ऽरिमर्दनः ॥
ब्रह्मण्यो दैवतपरः श्रीमान् परपुरंजयः ॥
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः ॥
मम भर्ता विशालाक्षः पूर्णेन्दुवदनो ऽरिहा ॥
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः ॥
सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥
स कैश् चिन् निकृतिप्रज्ञैर् अकल्याणैर् नराधमैः ॥
आहूय पृथिवीपालः सत्यधर्मपरायणः ॥
देवने कुशलैर् जिह्मैर् जितो राज्यं वसूनि च ॥
तस्य माम् अवगच्छध्वं भार्यां राजर्षभस्य वै ॥
दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ॥
सा वनानि गिरींश् चैव सरांसि सरितस् तथा ॥
पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥
अन्वेषमाणा भर्तारं नलं रणविशारदम् ॥
महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥
कच्चिद् भगवतां पुण्यं तपोवनम् इदं नृपः ॥
भवेत् प्राप्तो नलो नाम निषधानां जनाधिपः ॥
यत्कृते ऽहम् इदं विप्राः प्रपन्ना भृशदारुणम् ॥
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥
यदि कैश् चिद् अहोरात्रैर् न द्रक्ष्यामि नलं नृपम् ॥
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥
को नु मे जीवितेनार्थस् तम् ऋते पुरुषर्षभम् ॥
कथं भविष्याम्य् अद्याहं भर्तृशोकाभिपीडिता ॥
एवं विलपतीम् एकाम् अरण्ये भीमनन्दिनीम् ॥
दमयन्तीम् अथोचुस् ते तापसाः सत्यवादिनः ॥
उदर्कस् तव कल्याणि कल्याणो भविता शुभे ॥
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥
निषधानाम् अधिपतिं नलं रिपुनिघातिनम् ॥
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ॥
तद् एव नगरश्रेष्ठं प्रशासन्तम् अरिंदमम् ॥
द्विषतां भयकर्तारं सुहृदां शोकनाशनम् ॥
पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥
एवम् उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ॥
अन्तर्हितास् तापसास् ते साग्निहोत्राश्रमास् तदा ॥
सा दृष्ट्वा महद् आश्चर्यं विस्मिता अभवत् तदा ॥
दमयन्त्य् अनवद्याङ्गी वीरसेननृपस्नुषा ॥
किं नु स्वप्नो मया दृष्टः को ऽयं विधिर् इहाभवत् ॥
क्व नु ते तापसाः सर्वे क्व तद् आश्रममण्डलम् ॥
क्व सा पुण्यजला रम्या नानाद्विजनिषेविता ॥
नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ॥
ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ॥
भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥

Transliteration (IAST)

sā gatvā trīn ahorātrān dadarśa paramāṅganā ||
tāpasāraṇyam atulaṃ divyakānanadarśanam ||
vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam ||
niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ ||
abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca ||
jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ ||
valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ ||
tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam ||
sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam ||
śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam ||
subhrūḥ sukeśī suśroṇī sukucā sudvijānanā ||
varcasvinī supratiṣṭhā svañcitodyatagāminī ||
sā viveśāśramapadaṃ vīrasenasutapriyā ||
yoṣidratnaṃ mahābhāgā damayantī manasvinī ||
sābhivādya tapovṛddhān vinayāvanatā sthitā ||
svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā ||
pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ ||
āsyatām ity athocus te brūhi kiṃ karavāmahe ||
tān uvāca varārohā kaccid bhagavatām iha ||
tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ ||
kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca ||
tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī ||
brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi ||
dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha ||
vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ ||
asyāraṇyasya mahatī devatā vā mahībhṛtaḥ ||
asyā nu nadyāḥ kalyāṇi vada satyam anindite ||
sābravīt tān ṛṣīn nāham araṇyasyāsya devatā ||
na cāpy asya girer viprā na nadyā devatāpy aham ||
mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ ||
vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ ||
vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ ||
tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ ||
niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ ||
vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ ||
devatābhyarcanaparo dvijātijanavatsalaḥ ||
goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ ||
satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ ||
brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ ||
nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ ||
mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā ||
āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ ||
sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ ||
sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ ||
āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ ||
devane kuśalair jihmair jito rājyaṃ vasūni ca ||
tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai ||
damayantīti vikhyātāṃ bhartṛdarśanalālasām ||
sā vanāni girīṃś caiva sarāṃsi saritas tathā ||
palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ ||
anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam ||
mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā ||
kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ ||
bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ ||
yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam ||
vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam ||
yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam ||
ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt ||
ko nu me jīvitenārthas tam ṛte puruṣarṣabham ||
kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā ||
evaṃ vilapatīm ekām araṇye bhīmanandinīm ||
damayantīm athocus te tāpasāḥ satyavādinaḥ ||
udarkas tava kalyāṇi kalyāṇo bhavitā śubhe ||
vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham ||
niṣadhānām adhipatiṃ nalaṃ ripunighātinam ||
bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram ||
vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam ||
tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam ||
dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam ||
patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam ||
evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām ||
antarhitās tāpasās te sāgnihotrāśramās tadā ||
sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā ||
damayanty anavadyāṅgī vīrasenanṛpasnuṣā ||
kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat ||
kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam ||
kva sā puṇyajalā ramyā nānādvijaniṣevitā ||
nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ ||
dhyātvā ciraṃ bhīmasutā damayantī śucismitā ||
bhartṛśokaparā dīnā vivarṇavadanābhavat ||

Word-by-word
SanskritIASTMeaning
सा गत्वा त्रीन् अहोरात्रान् ददर्श परमाङ्गना ॥ तापसारण्यम् अतुलं दिव्यकाननदर्शनम् ॥ वसिष्ठभृग्वत्रिसमैस् तापसैर् उपशोभितम् ॥ नियतैः संयताहारैर् दमशौचसमन्वितैः ॥ अब्भक्षैर् वायुभक्षैश् च पत्राहारैस् तथैव च ॥ जितेन्द्रियैर् महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥ वल्कलाजिनसंवीतैर् मुनिभिः संयतेन्द्रियैः ॥ तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥ सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् ॥ शाखामृगगणैश् चैव तापसैश् च समन्वितम् ॥ सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना ॥ वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ॥ सा विवेशाश्रमपदं वीरसेनसुतप्रिया ॥ योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ॥ साभिवाद्य तपोवृद्धान् विनयावनता स्थिता ॥ स्वागतं त इति प्रोक्ता तैः सर्वैस् तापसैश् च सा ॥ पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः ॥ आस्यताम् इत्य् अथोचुस् ते ब्रूहि किं करवामहे ॥ तान् उवाच वरारोहा कच्चिद् भगवताम् इह ॥ तपस्य् अग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥ कुशलं वो महाभागाः स्वधर्मचरणेषु च ॥ तैर् उक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ॥ ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ॥ दृष्ट्वैव ते परं रूपं द्युतिं च परमाम् इह ॥ विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ॥ अस्यारण्यस्य महती देवता वा महीभृतः ॥ अस्या नु नद्याः कल्याणि वद सत्यम् अनिन्दिते ॥ साब्रवीत् तान् ऋषीन् नाहम् अरण्यस्यास्य देवता ॥ न चाप्य् अस्य गिरेर् विप्रा न नद्या देवताप्य् अहम् ॥ मानुषीं मां विजानीत यूयं सर्वे तपोधनाः ॥ विस्तरेणाभिधास्यामि तन् मे शृणुत सर्वशः ॥ विदर्भेषु महीपालो भीमो नाम महाद्युतिः ॥ तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥ निषधाधिपतिर् धीमान् नलो नाम महायशाः ॥ वीरः संग्रामजिद् विद्वान् मम भर्ता विशां पतिः ॥ देवताभ्यर्चनपरो द्विजातिजनवत्सलः ॥ गोप्ता निषधवंशस्य महाभागो महाद्युतिः ॥ सत्यवाग् धर्मवित् प्राज्ञः सत्यसंधो ऽरिमर्दनः ॥ ब्रह्मण्यो दैवतपरः श्रीमान् परपुरंजयः ॥ नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः ॥ मम भर्ता विशालाक्षः पूर्णेन्दुवदनो ऽरिहा ॥ आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः ॥ सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥ स कैश् चिन् निकृतिप्रज्ञैर् अकल्याणैर् नराधमैः ॥ आहूय पृथिवीपालः सत्यधर्मपरायणः ॥ देवने कुशलैर् जिह्मैर् जितो राज्यं वसूनि च ॥ तस्य माम् अवगच्छध्वं भार्यां राजर्षभस्य वै ॥ दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ॥ सा वनानि गिरींश् चैव सरांसि सरितस् तथा ॥ पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥ अन्वेषमाणा भर्तारं नलं रणविशारदम् ॥ महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥ कच्चिद् भगवतां पुण्यं तपोवनम् इदं नृपः ॥ भवेत् प्राप्तो नलो नाम निषधानां जनाधिपः ॥ यत्कृते ऽहम् इदं विप्राः प्रपन्ना भृशदारुणम् ॥ वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥ यदि कैश् चिद् अहोरात्रैर् न द्रक्ष्यामि नलं नृपम् ॥ आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥ को नु मे जीवितेनार्थस् तम् ऋते पुरुषर्षभम् ॥ कथं भविष्याम्य् अद्याहं भर्तृशोकाभिपीडिता ॥ एवं विलपतीम् एकाम् अरण्ये भीमनन्दिनीम् ॥ दमयन्तीम् अथोचुस् ते तापसाः सत्यवादिनः ॥ उदर्कस् तव कल्याणि कल्याणो भविता शुभे ॥ वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥ निषधानाम् अधिपतिं नलं रिपुनिघातिनम् ॥ भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥ विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् ॥ तद् एव नगरश्रेष्ठं प्रशासन्तम् अरिंदमम् ॥ द्विषतां भयकर्तारं सुहृदां शोकनाशनम् ॥ पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥ एवम् उक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ॥ अन्तर्हितास् तापसास् ते साग्निहोत्राश्रमास् तदा ॥ सा दृष्ट्वा महद् आश्चर्यं विस्मिता अभवत् तदा ॥ दमयन्त्य् अनवद्याङ्गी वीरसेननृपस्नुषा ॥ किं नु स्वप्नो मया दृष्टः को ऽयं विधिर् इहाभवत् ॥ क्व नु ते तापसाः सर्वे क्व तद् आश्रममण्डलम् ॥ क्व सा पुण्यजला रम्या नानाद्विजनिषेविता ॥ नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ॥ ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ॥ भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥sā gatvā trīn ahorātrān dadarśa paramāṅganā || tāpasāraṇyam atulaṃ divyakānanadarśanam || vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam || niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ || abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca || jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ || valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ || tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam || sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam || śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam || subhrūḥ sukeśī suśroṇī sukucā sudvijānanā || varcasvinī supratiṣṭhā svañcitodyatagāminī || sā viveśāśramapadaṃ vīrasenasutapriyā || yoṣidratnaṃ mahābhāgā damayantī manasvinī || sābhivādya tapovṛddhān vinayāvanatā sthitā || svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā || pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ || āsyatām ity athocus te brūhi kiṃ karavāmahe || tān uvāca varārohā kaccid bhagavatām iha || tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ || kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca || tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī || brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi || dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha || vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ || asyāraṇyasya mahatī devatā vā mahībhṛtaḥ || asyā nu nadyāḥ kalyāṇi vada satyam anindite || sābravīt tān ṛṣīn nāham araṇyasyāsya devatā || na cāpy asya girer viprā na nadyā devatāpy aham || mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ || vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ || vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ || tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ || niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ || vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ || devatābhyarcanaparo dvijātijanavatsalaḥ || goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ || satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ || brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ || nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ || mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā || āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ || sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ || sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ || āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ || devane kuśalair jihmair jito rājyaṃ vasūni ca || tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai || damayantīti vikhyātāṃ bhartṛdarśanalālasām || sā vanāni girīṃś caiva sarāṃsi saritas tathā || palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ || anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam || mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā || kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ || bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ || yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam || vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam || yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam || ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt || ko nu me jīvitenārthas tam ṛte puruṣarṣabham || kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā || evaṃ vilapatīm ekām araṇye bhīmanandinīm || damayantīm athocus te tāpasāḥ satyavādinaḥ || udarkas tava kalyāṇi kalyāṇo bhavitā śubhe || vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham || niṣadhānām adhipatiṃ nalaṃ ripunighātinam || bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram || vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam || tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam || dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam || patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam || evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām || antarhitās tāpasās te sāgnihotrāśramās tadā || sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā || damayanty anavadyāṅgī vīrasenanṛpasnuṣā || kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat || kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam || kva sā puṇyajalā ramyā nānādvijaniṣevitā || nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ || dhyātvā ciraṃ bhīmasutā damayantī śucismitā || bhartṛśokaparā dīnā vivarṇavadanābhavat ||Через три дня Дамаянти приходит в дивный ашрам аскетов, почитает их и рассказывает, что она человеческая женщина, дочь Бхимы и жена Налы, ищущая мужа; аскеты пророчат ей скорую встречу с очищенным Налой, после чего ашрам чудесно исчезает.
Translation

Пройдя три дня и ночи, Дамаянти увидела несравненный лес аскетов, похожий на божественную рощу. Там жили подвижники, подобные Васиштхе, Бхригу и Атри, сдержанные, чистые, питающиеся водой, воздухом или листьями, в коре и шкурах, желающие пути к небу. Дамаянти вошла в ашрам, поклонилась старшим в аскезе и услышала приветствие. Они почтительно приняли её и спросили, что могут сделать. Она спросила, благополучны ли их аскеза, огни, дхарма, звери, птицы и исполнение своих обязанностей. Аскеты ответили, что всё благополучно, и, поражённые её красотой, спросили, кто она — богиня леса, горы или реки. Дамаянти сказала: «Я не богиня, а человеческая женщина. Я дочь царя Видарбхи Бхимы и жена Налы, царя Нишадхов, великого героя, знатока дхармы, почитателя богов и брахманов. Он был вызван обманщиками и проиграл царство и богатства. Я, известная как Дамаянти, ищу его по лесам, горам, озёрам и рекам. Если через несколько дней не увижу Налу, расстанусь с телом: зачем мне жизнь без этого лучшего человека?» Тогда правдивые аскеты сказали ей: «Твой конец будет благим, прекрасная. Силой аскезы мы видим: скоро ты увидишь Налу, царя Нишадхов, свободного от жара, очищенного от всего зла, с сокровищами, снова правящего своим городом, устрашающего врагов и уничтожающего печаль друзей». Сказав это любимой жене Налы, аскеты вместе с огнями и ашрамами исчезли. Дамаянти изумилась: «Был ли это сон? Что это за судьба? Где аскеты, где ашрам, где святая река и деревья?» Долго размышляя, она снова стала бледной от скорби о муже».

Commentary

Ашрам появляется как милость среди хаоса. Пророчество не отменяет дороги Дамаянти, но даёт ей опору: за видимым распадом судьба Налы движется к очищению.

Version

ae8c8cfafa49 · published Jun 18, 2026, 4:37:26 AM UTC

Page between verses with