Mahabharata
Арштишена-ашрама-Гандхамадана-правеша-парва: путь к Арштишене · Verse 3.155.39-68
3315 / 5288
Mahabharata · 3.155.39-68
Devanāgarī

सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ॥
पश्यन्तः पादपांश् चापि फलभारावनामितान् ॥
आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् ॥
अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान् ॥
पनसांल् लिकुचान् मोचान् खर्जूरान् आम्रवेतसान् ॥
पारावतांस् तथा क्षौद्रान् नीपांश् चापि मनोरमान् ॥
बिल्वान् कपित्थाञ् जम्बूंश् च काश्मरीर् बदरीस् तथा ॥
प्लक्षान् उदुम्बरवटान् अश्वत्थान् क्षीरिणस् तथा ॥
भल्लातकान् आमलकान् हरीतकबिभीतकान् ॥
इङ्गुदान् करवीरांश् च तिन्दुकांश् च महाफलान् ॥
एतान् अन्यांश् च विविधान् गन्धमादनसानुषु ॥
फलैर् अमृतकल्पैस् तान् आचितान् स्वादुभिस् तरून् ॥
तथैव चम्पकाशोकान् केतकान् बकुलांस् तथा ॥
पुंनागान् सप्तपर्णांश् च कर्णिकारान् सकेतकान् ॥
पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस् तथा ॥
पारिजातान् कोविदारान् देवदारुतरूंस् तथा ॥
शालांस् तालांस् तमालांश् च प्रियालान् बकुलांस् तथा ॥
शाल्मलीः किंशुकाशोकाञ् शिंशपांस् तरलांस् तथा ॥
चकोरैः शतपत्रैश् च भृङ्गराजैस् तथा शुकैः ॥
कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥
प्रियव्रतैश् चातकैश् च तथान्यैर् विविधैः खगैः ॥
श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितान् ॥
सरांसि च विचित्राणि प्रसन्नसलिलानि च ॥
कुमुदैः पुण्डरीकैश् च तथा कोकनदोत्पलैः ॥
कह्लारैः कमलैश् चैव आचितानि समन्ततः ॥
कदम्बैश् चक्रवाकैश् च कुररैर् जलकुक्कुटैः ॥
कारण्डवैः प्लवैर् हंसैर् बकैर् मद्गुभिर् एव च ॥
एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः ॥
हृष्टैस् तथा तामरसरसासवमदालसैः ॥
पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥
मधुरस्वरैर् मधुकरैर् विरुतान् कमलाकरान् ॥
पश्यन्तस् ते मनोरम्यान् गन्धमादनसानुषु ॥
तथैव पद्मषण्डैश् च मण्डितेषु समन्ततः ॥
शिखण्डिनीभिः सहितांल् लतामण्डपकेषु च ॥
मेघतूर्यरवोद्दाममदनाकुलितान् भृशम् ॥
कृत्वैव केकामधुरं संगीतमधुरस्वरम् ॥
चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान् ॥
मयूरान् ददृशुश् चित्रान् नृत्यतो वनलासकान् ॥
कान्ताभिः सहितान् अन्यान् अपश्यन् रमतः सुखम् ॥
वल्लीलतासंकटेषु कटकेषु स्थितांस् तथा ॥
कांश् चिच् छकुनजातांश् च विटपेषूत्कटान् अपि ॥
कलापरचिताटोपान् विचित्रमुकुटान् इव ॥
विवरेषु तरूणां च मुदितान् ददृशुश् च ते ॥
सिन्धुवारान् अथोद्दामान् मन्मथस्येव तोमरान् ॥
सुवर्णकुसुमाकीर्णान् गिरीणां शिखरेषु च ॥
कर्णिकारान् विरचितान् कर्णपूरान् इवोत्तमान् ॥
अथापश्यन् कुरबकान् वनराजिषु पुष्पितान् ॥
कामवश्योत्सुककरान् कामस्येव शरोत्करान् ॥
तथैव वनराजीनाम् उदारान् रचितान् इव ॥
विराजमानांस् ते ऽपश्यंस् तिलकांस् तिलकान् इव ॥
तथानङ्गशराकारान् सहकारान् मनोरमान् ॥
अपश्यन् भ्रमरारावान् मञ्जरीभिर् विराजितान् ॥
हिरण्यसदृशैः पुष्पैर् दावाग्निसदृशैर् अपि ॥
लोहितैर् अञ्जनाभैश् च वैडूर्यसदृशैर् अपि ॥
तथा शालांस् तमालांश् च पाटल्यो बकुलानि च ॥
माला इव समासक्ताः शैलानां शिखरेषु च ॥
एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ॥
गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् ॥
शरभोन्नादसंघुष्टं नानारावनिनादितम् ॥
सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥
पीता भास्वरवर्णाभा बभूवुर् वनराजयः ॥
नात्र कण्टकिनः के चिन् नात्र के चिद् अपुष्पिताः ॥
स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥
विमलस्फटिकाभानि पाण्डुरच्छदनैर् द्विजैः ॥
राजहंसैर् उपेतानि सारसाभिरुतानि च ॥
सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥
पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च ॥
गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥
अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥
एते चान्ये च बहवस् तत्र काननजा द्रुमाः ॥
लताश् च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥

Transliteration (IAST)

sarvartuphalabhārāḍhyān sarvartukusumojjvalān ||
paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān ||
āmrān āmrātakān phullān nārikelān satindukān ||
ajātakāṃs tathā jīrān dāḍimān bījapūrakān ||
panasāṃl likucān mocān kharjūrān āmravetasān ||
pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān ||
bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā ||
plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā ||
bhallātakān āmalakān harītakabibhītakān ||
iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān ||
etān anyāṃś ca vividhān gandhamādanasānuṣu ||
phalair amṛtakalpais tān ācitān svādubhis tarūn ||
tathaiva campakāśokān ketakān bakulāṃs tathā ||
puṃnāgān saptaparṇāṃś ca karṇikārān saketakān ||
pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā ||
pārijātān kovidārān devadārutarūṃs tathā ||
śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā ||
śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā ||
cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ ||
kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ ||
priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ ||
śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān ||
sarāṃsi ca vicitrāṇi prasannasalilāni ca ||
kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ ||
kahlāraiḥ kamalaiś caiva ācitāni samantataḥ ||
kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ ||
kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca ||
etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ ||
hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ ||
padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ ||
madhurasvarair madhukarair virutān kamalākarān ||
paśyantas te manoramyān gandhamādanasānuṣu ||
tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ ||
śikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca ||
meghatūryaravoddāmamadanākulitān bhṛśam ||
kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram ||
citrān kalāpān vistīrya savilāsān madālasān ||
mayūrān dadṛśuś citrān nṛtyato vanalāsakān ||
kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham ||
vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā ||
kāṃś cic chakunajātāṃś ca viṭapeṣūtkaṭān api ||
kalāparacitāṭopān vicitramukuṭān iva ||
vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te ||
sindhuvārān athoddāmān manmathasyeva tomarān ||
suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca ||
karṇikārān viracitān karṇapūrān ivottamān ||
athāpaśyan kurabakān vanarājiṣu puṣpitān ||
kāmavaśyotsukakarān kāmasyeva śarotkarān ||
tathaiva vanarājīnām udārān racitān iva ||
virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva ||
tathānaṅgaśarākārān sahakārān manoramān ||
apaśyan bhramarārāvān mañjarībhir virājitān ||
hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api ||
lohitair añjanābhaiś ca vaiḍūryasadṛśair api ||
tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca ||
mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca ||
evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ ||
gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam ||
śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam ||
sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu ||
pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ ||
nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ ||
snigdhapatraphalā vṛkṣā gandhamādanasānuṣu ||
vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ ||
rājahaṃsair upetāni sārasābhirutāni ca ||
sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu ||
padmotpalavicitrāṇi sukhasparśajalāni ca ||
gandhavanti ca mālyāni rasavanti phalāni ca ||
atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu ||
ete cānye ca bahavas tatra kānanajā drumāḥ ||
latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ ||

Word-by-word
SanskritIASTMeaning
सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् ॥ पश्यन्तः पादपांश् चापि फलभारावनामितान् ॥ आम्रान् आम्रातकान् फुल्लान् नारिकेलान् सतिन्दुकान् ॥ अजातकांस् तथा जीरान् दाडिमान् बीजपूरकान् ॥ पनसांल् लिकुचान् मोचान् खर्जूरान् आम्रवेतसान् ॥ पारावतांस् तथा क्षौद्रान् नीपांश् चापि मनोरमान् ॥ बिल्वान् कपित्थाञ् जम्बूंश् च काश्मरीर् बदरीस् तथा ॥ प्लक्षान् उदुम्बरवटान् अश्वत्थान् क्षीरिणस् तथा ॥ भल्लातकान् आमलकान् हरीतकबिभीतकान् ॥ इङ्गुदान् करवीरांश् च तिन्दुकांश् च महाफलान् ॥ एतान् अन्यांश् च विविधान् गन्धमादनसानुषु ॥ फलैर् अमृतकल्पैस् तान् आचितान् स्वादुभिस् तरून् ॥ तथैव चम्पकाशोकान् केतकान् बकुलांस् तथा ॥ पुंनागान् सप्तपर्णांश् च कर्णिकारान् सकेतकान् ॥ पाटलान् कुटजान् रम्यान् मन्दारेन्दीवरांस् तथा ॥ पारिजातान् कोविदारान् देवदारुतरूंस् तथा ॥ शालांस् तालांस् तमालांश् च प्रियालान् बकुलांस् तथा ॥ शाल्मलीः किंशुकाशोकाञ् शिंशपांस् तरलांस् तथा ॥ चकोरैः शतपत्रैश् च भृङ्गराजैस् तथा शुकैः ॥ कोकिलैः कलविङ्कैश् च हारीतैर् जीवजीवकैः ॥ प्रियव्रतैश् चातकैश् च तथान्यैर् विविधैः खगैः ॥ श्रोत्ररम्यं सुमधुरं कूजद्भिश् चाप्य् अधिष्ठितान् ॥ सरांसि च विचित्राणि प्रसन्नसलिलानि च ॥ कुमुदैः पुण्डरीकैश् च तथा कोकनदोत्पलैः ॥ कह्लारैः कमलैश् चैव आचितानि समन्ततः ॥ कदम्बैश् चक्रवाकैश् च कुररैर् जलकुक्कुटैः ॥ कारण्डवैः प्लवैर् हंसैर् बकैर् मद्गुभिर् एव च ॥ एतैश् चान्यैश् च कीर्णानि समन्ताज् जलचारिभिः ॥ हृष्टैस् तथा तामरसरसासवमदालसैः ॥ पद्मोदरच्युतरजःकिञ्जल्कारुणरञ्जितैः ॥ मधुरस्वरैर् मधुकरैर् विरुतान् कमलाकरान् ॥ पश्यन्तस् ते मनोरम्यान् गन्धमादनसानुषु ॥ तथैव पद्मषण्डैश् च मण्डितेषु समन्ततः ॥ शिखण्डिनीभिः सहितांल् लतामण्डपकेषु च ॥ मेघतूर्यरवोद्दाममदनाकुलितान् भृशम् ॥ कृत्वैव केकामधुरं संगीतमधुरस्वरम् ॥ चित्रान् कलापान् विस्तीर्य सविलासान् मदालसान् ॥ मयूरान् ददृशुश् चित्रान् नृत्यतो वनलासकान् ॥ कान्ताभिः सहितान् अन्यान् अपश्यन् रमतः सुखम् ॥ वल्लीलतासंकटेषु कटकेषु स्थितांस् तथा ॥ कांश् चिच् छकुनजातांश् च विटपेषूत्कटान् अपि ॥ कलापरचिताटोपान् विचित्रमुकुटान् इव ॥ विवरेषु तरूणां च मुदितान् ददृशुश् च ते ॥ सिन्धुवारान् अथोद्दामान् मन्मथस्येव तोमरान् ॥ सुवर्णकुसुमाकीर्णान् गिरीणां शिखरेषु च ॥ कर्णिकारान् विरचितान् कर्णपूरान् इवोत्तमान् ॥ अथापश्यन् कुरबकान् वनराजिषु पुष्पितान् ॥ कामवश्योत्सुककरान् कामस्येव शरोत्करान् ॥ तथैव वनराजीनाम् उदारान् रचितान् इव ॥ विराजमानांस् ते ऽपश्यंस् तिलकांस् तिलकान् इव ॥ तथानङ्गशराकारान् सहकारान् मनोरमान् ॥ अपश्यन् भ्रमरारावान् मञ्जरीभिर् विराजितान् ॥ हिरण्यसदृशैः पुष्पैर् दावाग्निसदृशैर् अपि ॥ लोहितैर् अञ्जनाभैश् च वैडूर्यसदृशैर् अपि ॥ तथा शालांस् तमालांश् च पाटल्यो बकुलानि च ॥ माला इव समासक्ताः शैलानां शिखरेषु च ॥ एवं क्रमेण ते वीरा वीक्षमाणाः समन्ततः ॥ गजसंघसमाबाधं सिंहव्याघ्रसमायुतम् ॥ शरभोन्नादसंघुष्टं नानारावनिनादितम् ॥ सर्वर्तुफलपुष्पाढ्यं गन्धमादनसानुषु ॥ पीता भास्वरवर्णाभा बभूवुर् वनराजयः ॥ नात्र कण्टकिनः के चिन् नात्र के चिद् अपुष्पिताः ॥ स्निग्धपत्रफला वृक्षा गन्धमादनसानुषु ॥ विमलस्फटिकाभानि पाण्डुरच्छदनैर् द्विजैः ॥ राजहंसैर् उपेतानि सारसाभिरुतानि च ॥ सरांसि सरितः पार्थाः पश्यन्तः शैलसानुषु ॥ पद्मोत्पलविचित्राणि सुखस्पर्शजलानि च ॥ गन्धवन्ति च माल्यानि रसवन्ति फलानि च ॥ अतीव वृक्षा राजन्ते पुष्पिताः शैलसानुषु ॥ एते चान्ये च बहवस् तत्र काननजा द्रुमाः ॥ लताश् च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥sarvartuphalabhārāḍhyān sarvartukusumojjvalān || paśyantaḥ pādapāṃś cāpi phalabhārāvanāmitān || āmrān āmrātakān phullān nārikelān satindukān || ajātakāṃs tathā jīrān dāḍimān bījapūrakān || panasāṃl likucān mocān kharjūrān āmravetasān || pārāvatāṃs tathā kṣaudrān nīpāṃś cāpi manoramān || bilvān kapitthāñ jambūṃś ca kāśmarīr badarīs tathā || plakṣān udumbaravaṭān aśvatthān kṣīriṇas tathā || bhallātakān āmalakān harītakabibhītakān || iṅgudān karavīrāṃś ca tindukāṃś ca mahāphalān || etān anyāṃś ca vividhān gandhamādanasānuṣu || phalair amṛtakalpais tān ācitān svādubhis tarūn || tathaiva campakāśokān ketakān bakulāṃs tathā || puṃnāgān saptaparṇāṃś ca karṇikārān saketakān || pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā || pārijātān kovidārān devadārutarūṃs tathā || śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā || śālmalīḥ kiṃśukāśokāñ śiṃśapāṃs taralāṃs tathā || cakoraiḥ śatapatraiś ca bhṛṅgarājais tathā śukaiḥ || kokilaiḥ kalaviṅkaiś ca hārītair jīvajīvakaiḥ || priyavrataiś cātakaiś ca tathānyair vividhaiḥ khagaiḥ || śrotraramyaṃ sumadhuraṃ kūjadbhiś cāpy adhiṣṭhitān || sarāṃsi ca vicitrāṇi prasannasalilāni ca || kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ || kahlāraiḥ kamalaiś caiva ācitāni samantataḥ || kadambaiś cakravākaiś ca kurarair jalakukkuṭaiḥ || kāraṇḍavaiḥ plavair haṃsair bakair madgubhir eva ca || etaiś cānyaiś ca kīrṇāni samantāj jalacāribhiḥ || hṛṣṭais tathā tāmarasarasāsavamadālasaiḥ || padmodaracyutarajaḥkiñjalkāruṇarañjitaiḥ || madhurasvarair madhukarair virutān kamalākarān || paśyantas te manoramyān gandhamādanasānuṣu || tathaiva padmaṣaṇḍaiś ca maṇḍiteṣu samantataḥ || śikhaṇḍinībhiḥ sahitāṃl latāmaṇḍapakeṣu ca || meghatūryaravoddāmamadanākulitān bhṛśam || kṛtvaiva kekāmadhuraṃ saṃgītamadhurasvaram || citrān kalāpān vistīrya savilāsān madālasān || mayūrān dadṛśuś citrān nṛtyato vanalāsakān || kāntābhiḥ sahitān anyān apaśyan ramataḥ sukham || vallīlatāsaṃkaṭeṣu kaṭakeṣu sthitāṃs tathā || kāṃś cic chakunajātāṃś ca viṭapeṣūtkaṭān api || kalāparacitāṭopān vicitramukuṭān iva || vivareṣu tarūṇāṃ ca muditān dadṛśuś ca te || sindhuvārān athoddāmān manmathasyeva tomarān || suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca || karṇikārān viracitān karṇapūrān ivottamān || athāpaśyan kurabakān vanarājiṣu puṣpitān || kāmavaśyotsukakarān kāmasyeva śarotkarān || tathaiva vanarājīnām udārān racitān iva || virājamānāṃs te 'paśyaṃs tilakāṃs tilakān iva || tathānaṅgaśarākārān sahakārān manoramān || apaśyan bhramarārāvān mañjarībhir virājitān || hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api || lohitair añjanābhaiś ca vaiḍūryasadṛśair api || tathā śālāṃs tamālāṃś ca pāṭalyo bakulāni ca || mālā iva samāsaktāḥ śailānāṃ śikhareṣu ca || evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ || gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam || śarabhonnādasaṃghuṣṭaṃ nānārāvanināditam || sarvartuphalapuṣpāḍhyaṃ gandhamādanasānuṣu || pītā bhāsvaravarṇābhā babhūvur vanarājayaḥ || nātra kaṇṭakinaḥ ke cin nātra ke cid apuṣpitāḥ || snigdhapatraphalā vṛkṣā gandhamādanasānuṣu || vimalasphaṭikābhāni pāṇḍuracchadanair dvijaiḥ || rājahaṃsair upetāni sārasābhirutāni ca || sarāṃsi saritaḥ pārthāḥ paśyantaḥ śailasānuṣu || padmotpalavicitrāṇi sukhasparśajalāni ca || gandhavanti ca mālyāni rasavanti phalāni ca || atīva vṛkṣā rājante puṣpitāḥ śailasānuṣu || ete cānye ca bahavas tatra kānanajā drumāḥ || latāś ca vividhākārāḥ patrapuṣpaphaloccayāḥ ||На горе были разнообразные деревья, лианы, цветы, плоды, птицы, пчёлы, олени, слоны, тигры, львы, кабаны и другие звери; звучали крики павлинов, пение птиц и шум вод; лес был богат корнями, плодами и мёдом; склоны сияли минералами, пещеры и вершины радовали глаз, и всё место казалось небесным садом.
Translation

«Там росли деревья многих видов, оплетённые лианами, с цветами и плодами; кружились пчёлы, звучали птицы, кричали павлины. По склонам ходили олени, слоны, тигры, львы, кабаны и другие звери. Реки и водопады наполняли гору шумом, лес давал корни, плоды и мёд, а склоны сияли минералами. Пещеры, рощи и вершины радовали взгляд; весь Гандхамадан казался небесным садом, открытым для тех, кто пришёл с обетом».

Commentary

Долгие природные перечисления не являются украшением ради украшения. Они показывают, что мир создан как обитель изобилия, где каждое существо имеет своё место перед владычеством Бога.

Version

df0192a7e441 · published Jun 18, 2026, 5:49:39 AM UTC

Page between verses with