महाभारत
Kurukṣetra-tīrtha-māhātmya-parva (The Sacred Sites of Kurukṣetra)3.81.133-178
3099 / 15823
महाभारत · 3.81.133-178
देवनागरी

आसप्तमं कुलं चैव पुनाति भरतर्षभ ॥
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥
विप्राणाम् अनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥
व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ॥
क्रियामन्त्रैश् च संयुक्तो ब्राह्मणः स्यान् न संशयः ॥
क्रियामन्त्रविहीनो ऽपि तत्र स्नात्वा नरर्षभ ॥
चीर्णव्रतो भवेद् विप्रो दृष्टम् एतत् पुरातने ॥
समुद्राश् चापि चत्वारः समानीताश् च दर्भिणा ॥
येषु स्नातो नरव्याघ्र न दुर्गतिम् अवाप्नुयात् ॥
फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ॥
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥
उभयोर् हि नरः स्नात्वा गोसहस्रफलं लभेत् ॥
दानं वाप्य् उपवासो वा सहस्रगुणितं भवेत् ॥
ततो गच्छेत राजेन्द्र रेणुकातीर्थम् उत्तमम् ॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥
स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥
विमोचनम् उपस्पृश्य जितमन्युर् जितेन्द्रियः ॥
प्रतिग्रहकृतैर् दोषैः सर्वैः स परिमुच्यते ॥
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः ॥
पुण्येन महता युक्तः सतां लोके महीयते ॥
यत्र योगेश्वरः स्थाणुः स्वयम् एव वृषध्वजः ॥
तम् अर्चयित्वा देवेशं गमनाद् एव सिध्यति ॥
औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा ॥
यत्र ब्रह्मादिभिर् देवैर् ऋषिभिश् च तपोधनैः ॥
सेनापत्येन देवानाम् अभिषिक्तो गुहस् तदा ॥
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥
सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥
स्वर्गद्वारं ततो गच्छेन् नियतो नियताशनः ॥
स्वर्गलोकम् अवाप्नोति ब्रह्मलोकं च गच्छति ॥
ततो गच्छेद् अनरकं तीर्थसेवी नराधिप ॥
तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् ॥
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते ॥
अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ॥
सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह ॥
अभिगम्य च तां देवीं न दुर्गतिम् अवाप्नुयात् ॥
तत्रैव च महाराज विश्वेश्वरम् उमापतिम् ॥
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥
नारायणं चाभिगम्य पद्मनाभम् अरिंदमम् ॥
शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥
तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ ॥
सर्वदुःखैः परित्यक्तो द्योतते शशिवत् सदा ॥
ततः स्वस्तिपुरं गच्छेत् तीर्थसेवी नराधिप ॥
पावनं तीर्थम् आसाद्य तर्पयेत् पितृदेवताः ॥
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
गङ्गाह्रदश् च तत्रैव कूपश् च भरतर्षभ ॥
तिस्रः कोट्यस् तु तीर्थानां तस्मिन् कूपे महीपते ॥
तत्र स्नात्वा नरो राजन् स्वर्गलोकं प्रपद्यते ॥
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥
गाणपत्यम् अवाप्नोति कुलं चोद्धरते स्वकम् ॥
ततः स्थाणुवटं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकम् अवाप्नुयात् ॥
बदरीपाचनं गच्छेद् वसिष्ठस्याश्रमं ततः ॥
बदरं भक्षयेत् तत्र त्रिरात्रोपोषितो नरः ॥
सम्यग् द्वादश वर्षाणि बदरान् भक्षयेत् तु यः ॥
त्रिरात्रोपोषितश् चैव भवेत् तुल्यो नराधिप ॥
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥
अहोरात्रोपवासेन शक्रलोके महीयते ॥
एकरात्रं समासाद्य एकरात्रोषितो नरः ॥
नियतः सत्यवादी च ब्रह्मलोके महीयते ॥
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ॥
आदित्यस्याश्रमो यत्र तेजोराशेर् महात्मनः ॥
तस्मिंस् तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ॥
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ॥
सोमलोकम् अवाप्नोति नरो नास्त्य् अत्र संशयः ॥
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥
तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतम् ॥
यत्र सारस्वतो राजन् सो ऽङ्गिरास् तपसो निधिः ॥
तस्मिंस् तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥
सारस्वतीं गतिं चैव लभते नात्र संशयः ॥
ततः कन्याश्रमं गच्छेन् नियतो ब्रह्मचर्यवान् ॥
त्रिरात्रोपोषितो राजन्न् उपवासपरायणः ॥
लभेत् कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीम् अपि ॥
यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः ॥
मासि मासि समायान्ति पुण्येन महतान्विताः ॥
संनिहित्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे ॥
अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ॥
नद्यो नदास् तडागाश् च सर्वप्रस्रवणानि च ॥
उदपानाश् च वप्राश् च पुण्यान्य् आयतनानि च ॥
मासि मासि समायान्ति संनिहित्यां न संशयः ॥
यत् किं चिद् दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा ॥
स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः ॥
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥
अभिवाद्य ततो यक्षं द्वारपालम् अरन्तुकम् ॥
कोटिरूपम् उपस्पृश्य लभेद् बहु सुवर्णकम् ॥
गङ्गाह्रदश् च तत्रैव तीर्थं भरतसत्तम ॥
तत्र स्नातस् तु धर्मज्ञ ब्रह्मचारी समाहितः ॥
राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥
पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् ॥
त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशिष्यते ॥
पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः ॥
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् ॥
अप्य् एकां वाचम् उत्सृज्य सर्वपापैः प्रमुच्यते ॥
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ॥
तदावसन्ति ये राजन् न ते शोच्याः कथं चन ॥
तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य ॥
एतत् कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिर् उच्यते ॥

लिप्यंतरण (IAST)

āsaptamaṃ kulaṃ caiva punāti bharatarṣabha ||
avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha ||
viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā ||
vratopanayanābhyāṃ vā upavāsena vā dvijaḥ ||
kriyāmantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ ||
kriyāmantravihīno 'pi tatra snātvā nararṣabha ||
cīrṇavrato bhaved vipro dṛṣṭam etat purātane ||
samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā ||
yeṣu snāto naravyāghra na durgatim avāpnuyāt ||
phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ ||
tato gaccheta rājendra tīrthaṃ śatasahasrakam ||
sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute ||
ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet ||
dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet ||
tato gaccheta rājendra reṇukātīrtham uttamam ||
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ ||
sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet ||
vimocanam upaspṛśya jitamanyur jitendriyaḥ ||
pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate ||
tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ ||
puṇyena mahatā yuktaḥ satāṃ loke mahīyate ||
yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ ||
tam arcayitvā deveśaṃ gamanād eva sidhyati ||
aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā ||
yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ ||
senāpatyena devānām abhiṣikto guhas tadā ||
aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha ||
kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ ||
sarvapāpaviśuddhātmā kurulokaṃ prapadyate ||
svargadvāraṃ tato gacchen niyato niyatāśanaḥ ||
svargalokam avāpnoti brahmalokaṃ ca gacchati ||
tato gacched anarakaṃ tīrthasevī narādhipa ||
tatra snātvā naro rājan na durgatim avāpnuyāt ||
tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate ||
anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ ||
sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha ||
abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt ||
tatraiva ca mahārāja viśveśvaram umāpatim ||
abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ ||
nārāyaṇaṃ cābhigamya padmanābham ariṃdamam ||
śobhamāno mahārāja viṣṇulokaṃ prapadyate ||
tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha ||
sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā ||
tataḥ svastipuraṃ gacchet tīrthasevī narādhipa ||
pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ ||
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ ||
gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha ||
tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate ||
tatra snātvā naro rājan svargalokaṃ prapadyate ||
āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram ||
gāṇapatyam avāpnoti kulaṃ coddharate svakam ||
tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam ||
tatra snātvā sthito rātriṃ rudralokam avāpnuyāt ||
badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ ||
badaraṃ bhakṣayet tatra trirātropoṣito naraḥ ||
samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ ||
trirātropoṣitaś caiva bhavet tulyo narādhipa ||
indramārgaṃ samāsādya tīrthasevī narādhipa ||
ahorātropavāsena śakraloke mahīyate ||
ekarātraṃ samāsādya ekarātroṣito naraḥ ||
niyataḥ satyavādī ca brahmaloke mahīyate ||
tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam ||
ādityasyāśramo yatra tejorāśer mahātmanaḥ ||
tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum ||
ādityalokaṃ vrajati kulaṃ caiva samuddharet ||
somatīrthe naraḥ snātvā tīrthasevī kurūdvaha ||
somalokam avāpnoti naro nāsty atra saṃśayaḥ ||
tato gaccheta dharmajña dadhīcasya mahātmanaḥ ||
tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam ||
yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ ||
tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet ||
sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ ||
tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān ||
trirātropoṣito rājann upavāsaparāyaṇaḥ ||
labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati ||
tato gaccheta dharmajña tīrthaṃ saṃnihitīm api ||
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ ||
māsi māsi samāyānti puṇyena mahatānvitāḥ ||
saṃnihityām upaspṛśya rāhugraste divākare ||
aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam ||
pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca ||
nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca ||
udapānāś ca vaprāś ca puṇyāny āyatanāni ca ||
māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ ||
yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā ||
snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ ||
padmavarṇena yānena brahmalokaṃ sa gacchati ||
abhivādya tato yakṣaṃ dvārapālam arantukam ||
koṭirūpam upaspṛśya labhed bahu suvarṇakam ||
gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama ||
tatra snātas tu dharmajña brahmacārī samāhitaḥ ||
rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam ||
pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram ||
trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate ||
pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ ||
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim ||
dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm ||
ye vasanti kurukṣetre te vasanti triviṣṭape ||
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham ||
apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate ||
brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam ||
tadāvasanti ye rājan na te śocyāḥ kathaṃ cana ||
tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya ||
etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate ||

शब्दशः अर्थ
संस्कृतIASTअर्थ
आसप्तमं कुलं चैव पुनाति भरतर्षभ ॥ अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ विप्राणाम् अनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥ व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ॥ क्रियामन्त्रैश् च संयुक्तो ब्राह्मणः स्यान् न संशयः ॥ क्रियामन्त्रविहीनो ऽपि तत्र स्नात्वा नरर्षभ ॥ चीर्णव्रतो भवेद् विप्रो दृष्टम् एतत् पुरातने ॥ समुद्राश् चापि चत्वारः समानीताश् च दर्भिणा ॥ येषु स्नातो नरव्याघ्र न दुर्गतिम् अवाप्नुयात् ॥ फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥ ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ॥ साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥ उभयोर् हि नरः स्नात्वा गोसहस्रफलं लभेत् ॥ दानं वाप्य् उपवासो वा सहस्रगुणितं भवेत् ॥ ततो गच्छेत राजेन्द्र रेणुकातीर्थम् उत्तमम् ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ विमोचनम् उपस्पृश्य जितमन्युर् जितेन्द्रियः ॥ प्रतिग्रहकृतैर् दोषैः सर्वैः स परिमुच्यते ॥ ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः ॥ पुण्येन महता युक्तः सतां लोके महीयते ॥ यत्र योगेश्वरः स्थाणुः स्वयम् एव वृषध्वजः ॥ तम् अर्चयित्वा देवेशं गमनाद् एव सिध्यति ॥ औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा ॥ यत्र ब्रह्मादिभिर् देवैर् ऋषिभिश् च तपोधनैः ॥ सेनापत्येन देवानाम् अभिषिक्तो गुहस् तदा ॥ औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥ कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥ स्वर्गद्वारं ततो गच्छेन् नियतो नियताशनः ॥ स्वर्गलोकम् अवाप्नोति ब्रह्मलोकं च गच्छति ॥ ततो गच्छेद् अनरकं तीर्थसेवी नराधिप ॥ तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् ॥ तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते ॥ अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ॥ सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह ॥ अभिगम्य च तां देवीं न दुर्गतिम् अवाप्नुयात् ॥ तत्रैव च महाराज विश्वेश्वरम् उमापतिम् ॥ अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥ नारायणं चाभिगम्य पद्मनाभम् अरिंदमम् ॥ शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥ तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ ॥ सर्वदुःखैः परित्यक्तो द्योतते शशिवत् सदा ॥ ततः स्वस्तिपुरं गच्छेत् तीर्थसेवी नराधिप ॥ पावनं तीर्थम् आसाद्य तर्पयेत् पितृदेवताः ॥ अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ गङ्गाह्रदश् च तत्रैव कूपश् च भरतर्षभ ॥ तिस्रः कोट्यस् तु तीर्थानां तस्मिन् कूपे महीपते ॥ तत्र स्नात्वा नरो राजन् स्वर्गलोकं प्रपद्यते ॥ आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥ गाणपत्यम् अवाप्नोति कुलं चोद्धरते स्वकम् ॥ ततः स्थाणुवटं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥ तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकम् अवाप्नुयात् ॥ बदरीपाचनं गच्छेद् वसिष्ठस्याश्रमं ततः ॥ बदरं भक्षयेत् तत्र त्रिरात्रोपोषितो नरः ॥ सम्यग् द्वादश वर्षाणि बदरान् भक्षयेत् तु यः ॥ त्रिरात्रोपोषितश् चैव भवेत् तुल्यो नराधिप ॥ इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥ अहोरात्रोपवासेन शक्रलोके महीयते ॥ एकरात्रं समासाद्य एकरात्रोषितो नरः ॥ नियतः सत्यवादी च ब्रह्मलोके महीयते ॥ ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ॥ आदित्यस्याश्रमो यत्र तेजोराशेर् महात्मनः ॥ तस्मिंस् तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ॥ आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥ सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ॥ सोमलोकम् अवाप्नोति नरो नास्त्य् अत्र संशयः ॥ ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥ तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतम् ॥ यत्र सारस्वतो राजन् सो ऽङ्गिरास् तपसो निधिः ॥ तस्मिंस् तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥ सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ ततः कन्याश्रमं गच्छेन् नियतो ब्रह्मचर्यवान् ॥ त्रिरात्रोपोषितो राजन्न् उपवासपरायणः ॥ लभेत् कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥ ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीम् अपि ॥ यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः ॥ मासि मासि समायान्ति पुण्येन महतान्विताः ॥ संनिहित्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे ॥ अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ॥ नद्यो नदास् तडागाश् च सर्वप्रस्रवणानि च ॥ उदपानाश् च वप्राश् च पुण्यान्य् आयतनानि च ॥ मासि मासि समायान्ति संनिहित्यां न संशयः ॥ यत् किं चिद् दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा ॥ स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः ॥ पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥ अभिवाद्य ततो यक्षं द्वारपालम् अरन्तुकम् ॥ कोटिरूपम् उपस्पृश्य लभेद् बहु सुवर्णकम् ॥ गङ्गाह्रदश् च तत्रैव तीर्थं भरतसत्तम ॥ तत्र स्नातस् तु धर्मज्ञ ब्रह्मचारी समाहितः ॥ राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥ पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् ॥ त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः ॥ अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥ ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् ॥ अप्य् एकां वाचम् उत्सृज्य सर्वपापैः प्रमुच्यते ॥ ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ॥ तदावसन्ति ये राजन् न ते शोच्याः कथं चन ॥ तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य ॥ एतत् कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिर् उच्यते ॥āsaptamaṃ kulaṃ caiva punāti bharatarṣabha || avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha || viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā || vratopanayanābhyāṃ vā upavāsena vā dvijaḥ || kriyāmantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ || kriyāmantravihīno 'pi tatra snātvā nararṣabha || cīrṇavrato bhaved vipro dṛṣṭam etat purātane || samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā || yeṣu snāto naravyāghra na durgatim avāpnuyāt || phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ || tato gaccheta rājendra tīrthaṃ śatasahasrakam || sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute || ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet || dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet || tato gaccheta rājendra reṇukātīrtham uttamam || tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet || vimocanam upaspṛśya jitamanyur jitendriyaḥ || pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate || tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ || puṇyena mahatā yuktaḥ satāṃ loke mahīyate || yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ || tam arcayitvā deveśaṃ gamanād eva sidhyati || aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā || yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ || senāpatyena devānām abhiṣikto guhas tadā || aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha || kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ || sarvapāpaviśuddhātmā kurulokaṃ prapadyate || svargadvāraṃ tato gacchen niyato niyatāśanaḥ || svargalokam avāpnoti brahmalokaṃ ca gacchati || tato gacched anarakaṃ tīrthasevī narādhipa || tatra snātvā naro rājan na durgatim avāpnuyāt || tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate || anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ || sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha || abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt || tatraiva ca mahārāja viśveśvaram umāpatim || abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ || nārāyaṇaṃ cābhigamya padmanābham ariṃdamam || śobhamāno mahārāja viṣṇulokaṃ prapadyate || tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha || sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā || tataḥ svastipuraṃ gacchet tīrthasevī narādhipa || pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ || agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ || gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha || tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate || tatra snātvā naro rājan svargalokaṃ prapadyate || āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram || gāṇapatyam avāpnoti kulaṃ coddharate svakam || tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam || tatra snātvā sthito rātriṃ rudralokam avāpnuyāt || badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ || badaraṃ bhakṣayet tatra trirātropoṣito naraḥ || samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ || trirātropoṣitaś caiva bhavet tulyo narādhipa || indramārgaṃ samāsādya tīrthasevī narādhipa || ahorātropavāsena śakraloke mahīyate || ekarātraṃ samāsādya ekarātroṣito naraḥ || niyataḥ satyavādī ca brahmaloke mahīyate || tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam || ādityasyāśramo yatra tejorāśer mahātmanaḥ || tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum || ādityalokaṃ vrajati kulaṃ caiva samuddharet || somatīrthe naraḥ snātvā tīrthasevī kurūdvaha || somalokam avāpnoti naro nāsty atra saṃśayaḥ || tato gaccheta dharmajña dadhīcasya mahātmanaḥ || tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam || yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ || tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet || sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ || tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān || trirātropoṣito rājann upavāsaparāyaṇaḥ || labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati || tato gaccheta dharmajña tīrthaṃ saṃnihitīm api || yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ || māsi māsi samāyānti puṇyena mahatānvitāḥ || saṃnihityām upaspṛśya rāhugraste divākare || aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam || pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca || nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca || udapānāś ca vaprāś ca puṇyāny āyatanāni ca || māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ || yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā || snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ || padmavarṇena yānena brahmalokaṃ sa gacchati || abhivādya tato yakṣaṃ dvārapālam arantukam || koṭirūpam upaspṛśya labhed bahu suvarṇakam || gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama || tatra snātas tu dharmajña brahmacārī samāhitaḥ || rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam || pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram || trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate || pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ || api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim || dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm || ye vasanti kurukṣetre te vasanti triviṣṭape || kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham || apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate || brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam || tadāvasanti ye rājan na te śocyāḥ kathaṃ cana || tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya || etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate ||After Saptasārasvata, Uśanas, Kapālamocana, Agni-tīrtha, Viśvāmitra-tīrtha, Pṛthūdaka, Madhusrava, Arṣa, Śatasahasraka, Sāhasraka, Reṇukā, Pañcavaṭa, Ojasa, Kuru-tīrtha, Svastipura, Pāvana, Gaṅgā-hrada, Sthāṇu, Badarīpācana and Indramārga are listed; it tells of a maiden who performed severe austerity at Badarīpācana and received a blessing from Śrīkanya, and then of the place of Indra and Ekarātra.
अनुवाद

Next follow the tīrthas of Uśanas, where Kāvya performed austerities, Kapālamocana, Agni-tīrtha, Viśvāmitra-tīrtha, Pṛthūdaka—an especially holy place where even a small merit becomes eternal, and giving up the body there leads to immortality; Madhusrava, Arṣa, Śatasahasraka and Sāhasraka, Reṇukā, Pañcavaṭa, Ojasa Varuṇa, Kuru-tīrtha, Svastipura, Pāvana, Gaṅgā-hrada, and Sthāṇu. At Badarīpācana there lived the daughter of Bharadvāja, beautiful and chaste. She practiced severe austerity for a long time but, her body weakened, did not obtain a husband. When the sage Śrīkanya came there, she received him as a guest and asked for a boon. He told her that five nights of ascetic practice in that place would equal twelve years of fasting on wild berries. Thus she attained the highest worlds. Then Indramārga is named, the path of Indra, where in a single day and night, with the mind subdued, one obtains the fruit of a great gift, and Ekarātra, where a single night's stay bestows the merit of a brahmin.

संस्करण

d20beadceceb · प्रकाशित 16 जुल॰ 2026, 5:06:17 pm UTC

उपलब्ध भाषाएँRUEN

श्लोक बदलें इन कुंजियों से