Mahabharata
Курукшетра-тиртха-махатмья-парва: святыни Курукшетры · Verse 3.81.34-68
3096 / 3875
Mahabharata · 3.81.34-68
Devanāgarī

वंशमूलकम् आसाद्य तीर्थसेवी कुरूद्वह ॥
स्ववंशम् उद्धरेद् राजन् स्नात्वा वै वंशमूलके ॥
कायशोधनम् आसाद्य तीर्थं भरतसत्तम ॥
शरीरशुद्धिः स्नातस्य तस्मिंस् तीर्थे न संशयः ॥
शुद्धदेहश् च संयाति शुभांल् लोकान् अनुत्तमान् ॥
ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥
लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥
लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् ॥
स्नात्वा तीर्थवरे राजंल् लोकान् उद्धरते स्वकान् ॥
श्रीतीर्थं च समासाद्य विन्दते श्रियम् उत्तमाम् ॥
कपिलातीर्थम् आसाद्य ब्रह्मचारी समाहितः ॥
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस् तथा ॥
कपिलानां सहस्रस्य फलं विन्दति मानवः ॥
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥
अर्चयित्वा पितॄन् देवान् उपवासपरायणः ॥
अग्निष्टोमम् अवाप्नोति सूर्यलोकं च गच्छति ॥
गवांभवनम् आसाद्य तीर्थसेवी यथाक्रमम् ॥
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥
शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह ॥
देव्यास् तीर्थे नरः स्नात्वा लभते रूपम् उत्तमम् ॥
ततो गच्छेत राजेन्द्र द्वारपालम् अरन्तुकम् ॥
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥
तत्र स्नात्वा नरो राजन्न् अग्निष्टोमफलं लभेत् ॥
ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप ॥
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकम् अवाप्नुयात् ॥
ततो गच्छेत धर्मज्ञ सुतीर्थकम् अनुत्तमम् ॥
यत्र संनिहिता नित्यं पितरो दैवतैः सह ॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥
अश्वमेधम् अवाप्नोति पितृलोकं च गच्छति ॥
ततो ऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् ॥
कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ॥
सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥
मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत ॥
प्रजा विवर्धते राजन्न् अनन्तां चाश्नुते श्रियम् ॥
ततः शीतवनं गच्छेन् नियतो नियताशनः ॥
तीर्थं तत्र महाराज महद् अन्यत्र दुर्लभम् ॥
पुनाति दर्शनाद् एव दण्डेनैकं नराधिप ॥
केशान् अभ्युक्ष्य वै तस्मिन् पूतो भवति भारत ॥
तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् ॥
यत्र विप्रा नरव्याघ्र विद्वांसस् तीर्थतत्पराः ॥
श्वानलोमापनयने तीर्थे भरतसत्तम ॥
प्राणायामैर् निर्हरन्ति श्वलोमानि द्विजोत्तमाः ॥
पूतात्मानश् च राजेन्द्र प्रयान्ति परमां गतिम् ॥
दशाश्वमेधिकं चैव तस्मिंस् तीर्थे महीपते ॥
तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥
ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ॥
यत्र कृष्णमृगा राजन् व्याधेन परिपीडिताः ॥
अवगाह्य तस्मिन् सरसि मानुषत्वम् उपागताः ॥
तस्मिंस् तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥
सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥
मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ॥
आपगा नाम विख्याता नदी सिद्धनिषेविता ॥
श्यामाकभोजनं तत्र यः प्रयच्छति मानवः ॥
देवान् पितॄंश् च उद्दिश्य तस्य धर्मफलं महत् ॥
एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता ॥
तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस् तथा ॥
उषित्वा रजनीम् एकाम् अग्निष्टोमफलं लभेत् ॥
ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानम् उत्तमम् ॥
ब्रह्मोदुम्बरम् इत्य् एव प्रकाशं भुवि भारत ॥
तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव ॥
केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ॥
ब्रह्माणम् अभिगम्याथ शुचिः प्रयतमानसः ॥
सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥
कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ॥
अन्तर्धानम् अवाप्नोति तपसा दग्धकिल्बिषः ॥
ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् ॥
कृष्णपक्षे चतुर्दश्याम् अभिगम्य वृषध्वजम् ॥
लभते सर्वकामान् हि स्वर्गलोकं च गच्छति ॥
तिस्रः कोट्यस् तु तीर्थानां सरके कुरुनन्दन ॥
रुद्रकोटिस् तथा कूपे ह्रदेषु च महीपते ॥
इलास्पदं च तत्रैव तीर्थं भरतसत्तम ॥
तत्र स्नात्वार्चयित्वा च पितॄन् देवांश् च भारत ॥
न दुर्गतिम् अवाप्नोति वाजपेयं च विन्दति ॥
किंदाने च नरः स्नात्वा किंजप्ये च महीपते ॥
अप्रमेयम् अवाप्नोति दानं जप्यं च भारत ॥
कलश्यां चाप्य् उपस्पृश्य श्रद्दधानो जितेन्द्रियः ॥
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
सरकस्य तु पूर्वेण नारदस्य महात्मनः ॥
तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् ॥
तत्र तीर्थे नरः स्नात्वा प्राणांश् चोत्सृज्य भारत ॥
नारदेनाभ्यनुज्ञातो लोकान् प्राप्नोति दुर्लभान् ॥

Transliteration (IAST)

vaṃśamūlakam āsādya tīrthasevī kurūdvaha ||
svavaṃśam uddhared rājan snātvā vai vaṃśamūlake ||
kāyaśodhanam āsādya tīrthaṃ bharatasattama ||
śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ ||
śuddhadehaś ca saṃyāti śubhāṃl lokān anuttamān ||
tato gaccheta rājendra tīrthaṃ trailokyaviśrutam ||
lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā ||
lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam ||
snātvā tīrthavare rājaṃl lokān uddharate svakān ||
śrītīrthaṃ ca samāsādya vindate śriyam uttamām ||
kapilātīrtham āsādya brahmacārī samāhitaḥ ||
tatra snātvārcayitvā ca daivatāni pitṝṃs tathā ||
kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ ||
sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ ||
arcayitvā pitṝn devān upavāsaparāyaṇaḥ ||
agniṣṭomam avāpnoti sūryalokaṃ ca gacchati ||
gavāṃbhavanam āsādya tīrthasevī yathākramam ||
tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet ||
śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha ||
devyās tīrthe naraḥ snātvā labhate rūpam uttamam ||
tato gaccheta rājendra dvārapālam arantukam ||
tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ ||
tatra snātvā naro rājann agniṣṭomaphalaṃ labhet ||
tato gaccheta dharmajña brahmāvartaṃ narādhipa ||
brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt ||
tato gaccheta dharmajña sutīrthakam anuttamam ||
yatra saṃnihitā nityaṃ pitaro daivataiḥ saha ||
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ ||
aśvamedham avāpnoti pitṛlokaṃ ca gacchati ||
tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam ||
kośeśvarasya tīrtheṣu snātvā bharatasattama ||
sarvavyādhivinirmukto brahmaloke mahīyate ||
mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata ||
prajā vivardhate rājann anantāṃ cāśnute śriyam ||
tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ ||
tīrthaṃ tatra mahārāja mahad anyatra durlabham ||
punāti darśanād eva daṇḍenaikaṃ narādhipa ||
keśān abhyukṣya vai tasmin pūto bhavati bhārata ||
tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam ||
yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ ||
śvānalomāpanayane tīrthe bharatasattama ||
prāṇāyāmair nirharanti śvalomāni dvijottamāḥ ||
pūtātmānaś ca rājendra prayānti paramāṃ gatim ||
daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate ||
tatra snātvā naravyāghra gaccheta paramāṃ gatim ||
tato gaccheta rājendra mānuṣaṃ lokaviśrutam ||
yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ ||
avagāhya tasmin sarasi mānuṣatvam upāgatāḥ ||
tasmiṃs tīrthe naraḥ snātvā brahmacārī jitendriyaḥ ||
sarvapāpaviśuddhātmā svargaloke mahīyate ||
mānuṣasya tu pūrveṇa krośamātre mahīpate ||
āpagā nāma vikhyātā nadī siddhaniṣevitā ||
śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ ||
devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat ||
ekasmin bhojite vipre koṭir bhavati bhojitā ||
tatra snātvārcayitvā ca daivatāni pitṝṃs tathā ||
uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet ||
tato gaccheta rājendra brahmaṇaḥ sthānam uttamam ||
brahmodumbaram ity eva prakāśaṃ bhuvi bhārata ||
tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava ||
kedāre caiva rājendra kapiṣṭhalamahātmanaḥ ||
brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ ||
sarvapāpaviśuddhātmā brahmalokaṃ prapadyate ||
kapiṣṭhalasya kedāraṃ samāsādya sudurlabham ||
antardhānam avāpnoti tapasā dagdhakilbiṣaḥ ||
tato gaccheta rājendra sarakaṃ lokaviśrutam ||
kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam ||
labhate sarvakāmān hi svargalokaṃ ca gacchati ||
tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana ||
rudrakoṭis tathā kūpe hradeṣu ca mahīpate ||
ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama ||
tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata ||
na durgatim avāpnoti vājapeyaṃ ca vindati ||
kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate ||
aprameyam avāpnoti dānaṃ japyaṃ ca bhārata ||
kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ ||
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ ||
sarakasya tu pūrveṇa nāradasya mahātmanaḥ ||
tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam ||
tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata ||
nāradenābhyanujñāto lokān prāpnoti durlabhān ||

Word-by-word
SanskritIASTMeaning
वंशमूलकम् आसाद्य तीर्थसेवी कुरूद्वह ॥ स्ववंशम् उद्धरेद् राजन् स्नात्वा वै वंशमूलके ॥ कायशोधनम् आसाद्य तीर्थं भरतसत्तम ॥ शरीरशुद्धिः स्नातस्य तस्मिंस् तीर्थे न संशयः ॥ शुद्धदेहश् च संयाति शुभांल् लोकान् अनुत्तमान् ॥ ततो गच्छेत राजेन्द्र तीर्थं त्रैलोक्यविश्रुतम् ॥ लोका यत्रोद्धृताः पूर्वं विष्णुना प्रभविष्णुना ॥ लोकोद्धारं समासाद्य तीर्थं त्रैलोक्यविश्रुतम् ॥ स्नात्वा तीर्थवरे राजंल् लोकान् उद्धरते स्वकान् ॥ श्रीतीर्थं च समासाद्य विन्दते श्रियम् उत्तमाम् ॥ कपिलातीर्थम् आसाद्य ब्रह्मचारी समाहितः ॥ तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस् तथा ॥ कपिलानां सहस्रस्य फलं विन्दति मानवः ॥ सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥ अर्चयित्वा पितॄन् देवान् उपवासपरायणः ॥ अग्निष्टोमम् अवाप्नोति सूर्यलोकं च गच्छति ॥ गवांभवनम् आसाद्य तीर्थसेवी यथाक्रमम् ॥ तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ शङ्खिनीं तत्र आसाद्य तीर्थसेवी कुरूद्वह ॥ देव्यास् तीर्थे नरः स्नात्वा लभते रूपम् उत्तमम् ॥ ततो गच्छेत राजेन्द्र द्वारपालम् अरन्तुकम् ॥ तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ तत्र स्नात्वा नरो राजन्न् अग्निष्टोमफलं लभेत् ॥ ततो गच्छेत धर्मज्ञ ब्रह्मावर्तं नराधिप ॥ ब्रह्मावर्ते नरः स्नात्वा ब्रह्मलोकम् अवाप्नुयात् ॥ ततो गच्छेत धर्मज्ञ सुतीर्थकम् अनुत्तमम् ॥ यत्र संनिहिता नित्यं पितरो दैवतैः सह ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ अश्वमेधम् अवाप्नोति पितृलोकं च गच्छति ॥ ततो ऽम्बुवश्यं धर्मज्ञ समासाद्य यथाक्रमम् ॥ कोशेश्वरस्य तीर्थेषु स्नात्वा भरतसत्तम ॥ सर्वव्याधिविनिर्मुक्तो ब्रह्मलोके महीयते ॥ मातृतीर्थं च तत्रैव यत्र स्नातस्य भारत ॥ प्रजा विवर्धते राजन्न् अनन्तां चाश्नुते श्रियम् ॥ ततः शीतवनं गच्छेन् नियतो नियताशनः ॥ तीर्थं तत्र महाराज महद् अन्यत्र दुर्लभम् ॥ पुनाति दर्शनाद् एव दण्डेनैकं नराधिप ॥ केशान् अभ्युक्ष्य वै तस्मिन् पूतो भवति भारत ॥ तीर्थं तत्र महाराज श्वानलोमापहं स्मृतम् ॥ यत्र विप्रा नरव्याघ्र विद्वांसस् तीर्थतत्पराः ॥ श्वानलोमापनयने तीर्थे भरतसत्तम ॥ प्राणायामैर् निर्हरन्ति श्वलोमानि द्विजोत्तमाः ॥ पूतात्मानश् च राजेन्द्र प्रयान्ति परमां गतिम् ॥ दशाश्वमेधिकं चैव तस्मिंस् तीर्थे महीपते ॥ तत्र स्नात्वा नरव्याघ्र गच्छेत परमां गतिम् ॥ ततो गच्छेत राजेन्द्र मानुषं लोकविश्रुतम् ॥ यत्र कृष्णमृगा राजन् व्याधेन परिपीडिताः ॥ अवगाह्य तस्मिन् सरसि मानुषत्वम् उपागताः ॥ तस्मिंस् तीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ सर्वपापविशुद्धात्मा स्वर्गलोके महीयते ॥ मानुषस्य तु पूर्वेण क्रोशमात्रे महीपते ॥ आपगा नाम विख्याता नदी सिद्धनिषेविता ॥ श्यामाकभोजनं तत्र यः प्रयच्छति मानवः ॥ देवान् पितॄंश् च उद्दिश्य तस्य धर्मफलं महत् ॥ एकस्मिन् भोजिते विप्रे कोटिर् भवति भोजिता ॥ तत्र स्नात्वार्चयित्वा च दैवतानि पितॄंस् तथा ॥ उषित्वा रजनीम् एकाम् अग्निष्टोमफलं लभेत् ॥ ततो गच्छेत राजेन्द्र ब्रह्मणः स्थानम् उत्तमम् ॥ ब्रह्मोदुम्बरम् इत्य् एव प्रकाशं भुवि भारत ॥ तत्र सप्तर्षिकुण्डेषु स्नातस्य कुरुपुंगव ॥ केदारे चैव राजेन्द्र कपिष्ठलमहात्मनः ॥ ब्रह्माणम् अभिगम्याथ शुचिः प्रयतमानसः ॥ सर्वपापविशुद्धात्मा ब्रह्मलोकं प्रपद्यते ॥ कपिष्ठलस्य केदारं समासाद्य सुदुर्लभम् ॥ अन्तर्धानम् अवाप्नोति तपसा दग्धकिल्बिषः ॥ ततो गच्छेत राजेन्द्र सरकं लोकविश्रुतम् ॥ कृष्णपक्षे चतुर्दश्याम् अभिगम्य वृषध्वजम् ॥ लभते सर्वकामान् हि स्वर्गलोकं च गच्छति ॥ तिस्रः कोट्यस् तु तीर्थानां सरके कुरुनन्दन ॥ रुद्रकोटिस् तथा कूपे ह्रदेषु च महीपते ॥ इलास्पदं च तत्रैव तीर्थं भरतसत्तम ॥ तत्र स्नात्वार्चयित्वा च पितॄन् देवांश् च भारत ॥ न दुर्गतिम् अवाप्नोति वाजपेयं च विन्दति ॥ किंदाने च नरः स्नात्वा किंजप्ये च महीपते ॥ अप्रमेयम् अवाप्नोति दानं जप्यं च भारत ॥ कलश्यां चाप्य् उपस्पृश्य श्रद्दधानो जितेन्द्रियः ॥ अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ सरकस्य तु पूर्वेण नारदस्य महात्मनः ॥ तीर्थं कुरुवरश्रेष्ठ अनाजन्मेति विश्रुतम् ॥ तत्र तीर्थे नरः स्नात्वा प्राणांश् चोत्सृज्य भारत ॥ नारदेनाभ्यनुज्ञातो लोकान् प्राप्नोति दुर्लभान् ॥vaṃśamūlakam āsādya tīrthasevī kurūdvaha || svavaṃśam uddhared rājan snātvā vai vaṃśamūlake || kāyaśodhanam āsādya tīrthaṃ bharatasattama || śarīraśuddhiḥ snātasya tasmiṃs tīrthe na saṃśayaḥ || śuddhadehaś ca saṃyāti śubhāṃl lokān anuttamān || tato gaccheta rājendra tīrthaṃ trailokyaviśrutam || lokā yatroddhṛtāḥ pūrvaṃ viṣṇunā prabhaviṣṇunā || lokoddhāraṃ samāsādya tīrthaṃ trailokyaviśrutam || snātvā tīrthavare rājaṃl lokān uddharate svakān || śrītīrthaṃ ca samāsādya vindate śriyam uttamām || kapilātīrtham āsādya brahmacārī samāhitaḥ || tatra snātvārcayitvā ca daivatāni pitṝṃs tathā || kapilānāṃ sahasrasya phalaṃ vindati mānavaḥ || sūryatīrthaṃ samāsādya snātvā niyatamānasaḥ || arcayitvā pitṝn devān upavāsaparāyaṇaḥ || agniṣṭomam avāpnoti sūryalokaṃ ca gacchati || gavāṃbhavanam āsādya tīrthasevī yathākramam || tatrābhiṣekaṃ kurvāṇo gosahasraphalaṃ labhet || śaṅkhinīṃ tatra āsādya tīrthasevī kurūdvaha || devyās tīrthe naraḥ snātvā labhate rūpam uttamam || tato gaccheta rājendra dvārapālam arantukam || tasya tīrthaṃ sarasvatyāṃ yakṣendrasya mahātmanaḥ || tatra snātvā naro rājann agniṣṭomaphalaṃ labhet || tato gaccheta dharmajña brahmāvartaṃ narādhipa || brahmāvarte naraḥ snātvā brahmalokam avāpnuyāt || tato gaccheta dharmajña sutīrthakam anuttamam || yatra saṃnihitā nityaṃ pitaro daivataiḥ saha || tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || aśvamedham avāpnoti pitṛlokaṃ ca gacchati || tato 'mbuvaśyaṃ dharmajña samāsādya yathākramam || kośeśvarasya tīrtheṣu snātvā bharatasattama || sarvavyādhivinirmukto brahmaloke mahīyate || mātṛtīrthaṃ ca tatraiva yatra snātasya bhārata || prajā vivardhate rājann anantāṃ cāśnute śriyam || tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ || tīrthaṃ tatra mahārāja mahad anyatra durlabham || punāti darśanād eva daṇḍenaikaṃ narādhipa || keśān abhyukṣya vai tasmin pūto bhavati bhārata || tīrthaṃ tatra mahārāja śvānalomāpahaṃ smṛtam || yatra viprā naravyāghra vidvāṃsas tīrthatatparāḥ || śvānalomāpanayane tīrthe bharatasattama || prāṇāyāmair nirharanti śvalomāni dvijottamāḥ || pūtātmānaś ca rājendra prayānti paramāṃ gatim || daśāśvamedhikaṃ caiva tasmiṃs tīrthe mahīpate || tatra snātvā naravyāghra gaccheta paramāṃ gatim || tato gaccheta rājendra mānuṣaṃ lokaviśrutam || yatra kṛṣṇamṛgā rājan vyādhena paripīḍitāḥ || avagāhya tasmin sarasi mānuṣatvam upāgatāḥ || tasmiṃs tīrthe naraḥ snātvā brahmacārī jitendriyaḥ || sarvapāpaviśuddhātmā svargaloke mahīyate || mānuṣasya tu pūrveṇa krośamātre mahīpate || āpagā nāma vikhyātā nadī siddhaniṣevitā || śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ || devān pitṝṃś ca uddiśya tasya dharmaphalaṃ mahat || ekasmin bhojite vipre koṭir bhavati bhojitā || tatra snātvārcayitvā ca daivatāni pitṝṃs tathā || uṣitvā rajanīm ekām agniṣṭomaphalaṃ labhet || tato gaccheta rājendra brahmaṇaḥ sthānam uttamam || brahmodumbaram ity eva prakāśaṃ bhuvi bhārata || tatra saptarṣikuṇḍeṣu snātasya kurupuṃgava || kedāre caiva rājendra kapiṣṭhalamahātmanaḥ || brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ || sarvapāpaviśuddhātmā brahmalokaṃ prapadyate || kapiṣṭhalasya kedāraṃ samāsādya sudurlabham || antardhānam avāpnoti tapasā dagdhakilbiṣaḥ || tato gaccheta rājendra sarakaṃ lokaviśrutam || kṛṣṇapakṣe caturdaśyām abhigamya vṛṣadhvajam || labhate sarvakāmān hi svargalokaṃ ca gacchati || tisraḥ koṭyas tu tīrthānāṃ sarake kurunandana || rudrakoṭis tathā kūpe hradeṣu ca mahīpate || ilāspadaṃ ca tatraiva tīrthaṃ bharatasattama || tatra snātvārcayitvā ca pitṝn devāṃś ca bhārata || na durgatim avāpnoti vājapeyaṃ ca vindati || kiṃdāne ca naraḥ snātvā kiṃjapye ca mahīpate || aprameyam avāpnoti dānaṃ japyaṃ ca bhārata || kalaśyāṃ cāpy upaspṛśya śraddadhāno jitendriyaḥ || agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ || sarakasya tu pūrveṇa nāradasya mahātmanaḥ || tīrthaṃ kuruvaraśreṣṭha anājanmeti viśrutam || tatra tīrthe naraḥ snātvā prāṇāṃś cotsṛjya bhārata || nāradenābhyanujñāto lokān prāpnoti durlabhān ||Пуластья продолжает перечислять тиртхи Курукшетры и окрестностей: Вамшамулака очищает род, Каяшодхана очищает тело, Локоддхара связан с Вишну, далее Шри, Капила, Сурья, Гавамбхавана, Шанкхини, Арантука, Брахмаварта, Сутиртха, Амбувашья, Матритиртха, Шитавана, Мануша, Апага, Брахмодумбара, Капиштхала, Сарака, Рудракоти, Иласпада, Киндана, Кинджапья, Калаши и Анаджанма Нарады.
Translation

Затем названы многие места: Вамшамулака, где человек поднимает свой род; Каяшодхана, где очищается тело и достигаются высшие благие миры; Локоддхара, где прежде могущественный Вишну поднял миры, и потому омовение там возвышает собственных родичей; Шритиртха, дарующая высшую красоту и благополучие; Капилатиртха, Сурьятиртха, Гавамбхавана, Шанкхини и тиртха якшендры Арантуки на Сарасвати. Далее идут Брахмаварта, Сутиртха, где пребывают предки вместе с богами, Амбувашья и тиртхи Кошешвары, Матритиртха, где умножается потомство, Шитавана, очищающая даже одним видением, и место, где мудрые дваждырождённые через пранаяму исторгают нечистоту. В Мануше чёрные антилопы, гонимые охотником, войдя в озеро, обрели человеческое состояние; человек, омывшись там с обузданными чувствами, сияет в небесном мире. На реке Апага малая пища, предложенная богам и предкам, становится великой заслугой. В Брахмодумбаре, в семи прудах риши и у Капиштхалы, человек очищается и достигает мира Брахмы; в труднодоступном Кедаре Капиштхалы тапас сжигает грехи. В Сараке, у Вришадхваджи, в Рудракоти, Иласпаде, Киндане, Кинджапье и Калаши паломник получает плоды жертв и даров. Восточнее Сараки лежит тиртха великого Нарады, называемая Анаджанма; кто там омоется и оставит жизнь с разрешения Нарады, достигает труднодостижимых миров».

Commentary

Каталог постоянно связывает тело, род, предков и личное очищение. Дхарма здесь мыслится как восстановление связей, а не как одинокая заслуга.

Version

fe032d093814 · published Jun 18, 2026, 4:52:39 AM UTC

Page between verses with