Mahabharata
Курукшетра-тиртха-махатмья-парва: святыни Курукшетры · Verse 3.81.133-178
3099 / 3913
Mahabharata · 3.81.133-178
Devanāgarī

आसप्तमं कुलं चैव पुनाति भरतर्षभ ॥
अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥
विप्राणाम् अनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥
व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ॥
क्रियामन्त्रैश् च संयुक्तो ब्राह्मणः स्यान् न संशयः ॥
क्रियामन्त्रविहीनो ऽपि तत्र स्नात्वा नरर्षभ ॥
चीर्णव्रतो भवेद् विप्रो दृष्टम् एतत् पुरातने ॥
समुद्राश् चापि चत्वारः समानीताश् च दर्भिणा ॥
येषु स्नातो नरव्याघ्र न दुर्गतिम् अवाप्नुयात् ॥
फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥
ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ॥
साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥
उभयोर् हि नरः स्नात्वा गोसहस्रफलं लभेत् ॥
दानं वाप्य् उपवासो वा सहस्रगुणितं भवेत् ॥
ततो गच्छेत राजेन्द्र रेणुकातीर्थम् उत्तमम् ॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥
स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥
विमोचनम् उपस्पृश्य जितमन्युर् जितेन्द्रियः ॥
प्रतिग्रहकृतैर् दोषैः सर्वैः स परिमुच्यते ॥
ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः ॥
पुण्येन महता युक्तः सतां लोके महीयते ॥
यत्र योगेश्वरः स्थाणुः स्वयम् एव वृषध्वजः ॥
तम् अर्चयित्वा देवेशं गमनाद् एव सिध्यति ॥
औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा ॥
यत्र ब्रह्मादिभिर् देवैर् ऋषिभिश् च तपोधनैः ॥
सेनापत्येन देवानाम् अभिषिक्तो गुहस् तदा ॥
औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥
कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥
सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥
स्वर्गद्वारं ततो गच्छेन् नियतो नियताशनः ॥
स्वर्गलोकम् अवाप्नोति ब्रह्मलोकं च गच्छति ॥
ततो गच्छेद् अनरकं तीर्थसेवी नराधिप ॥
तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् ॥
तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते ॥
अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ॥
सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह ॥
अभिगम्य च तां देवीं न दुर्गतिम् अवाप्नुयात् ॥
तत्रैव च महाराज विश्वेश्वरम् उमापतिम् ॥
अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥
नारायणं चाभिगम्य पद्मनाभम् अरिंदमम् ॥
शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥
तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ ॥
सर्वदुःखैः परित्यक्तो द्योतते शशिवत् सदा ॥
ततः स्वस्तिपुरं गच्छेत् तीर्थसेवी नराधिप ॥
पावनं तीर्थम् आसाद्य तर्पयेत् पितृदेवताः ॥
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥
गङ्गाह्रदश् च तत्रैव कूपश् च भरतर्षभ ॥
तिस्रः कोट्यस् तु तीर्थानां तस्मिन् कूपे महीपते ॥
तत्र स्नात्वा नरो राजन् स्वर्गलोकं प्रपद्यते ॥
आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥
गाणपत्यम् अवाप्नोति कुलं चोद्धरते स्वकम् ॥
ततः स्थाणुवटं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥
तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकम् अवाप्नुयात् ॥
बदरीपाचनं गच्छेद् वसिष्ठस्याश्रमं ततः ॥
बदरं भक्षयेत् तत्र त्रिरात्रोपोषितो नरः ॥
सम्यग् द्वादश वर्षाणि बदरान् भक्षयेत् तु यः ॥
त्रिरात्रोपोषितश् चैव भवेत् तुल्यो नराधिप ॥
इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥
अहोरात्रोपवासेन शक्रलोके महीयते ॥
एकरात्रं समासाद्य एकरात्रोषितो नरः ॥
नियतः सत्यवादी च ब्रह्मलोके महीयते ॥
ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ॥
आदित्यस्याश्रमो यत्र तेजोराशेर् महात्मनः ॥
तस्मिंस् तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ॥
आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥
सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ॥
सोमलोकम् अवाप्नोति नरो नास्त्य् अत्र संशयः ॥
ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥
तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतम् ॥
यत्र सारस्वतो राजन् सो ऽङ्गिरास् तपसो निधिः ॥
तस्मिंस् तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥
सारस्वतीं गतिं चैव लभते नात्र संशयः ॥
ततः कन्याश्रमं गच्छेन् नियतो ब्रह्मचर्यवान् ॥
त्रिरात्रोपोषितो राजन्न् उपवासपरायणः ॥
लभेत् कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥
ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीम् अपि ॥
यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः ॥
मासि मासि समायान्ति पुण्येन महतान्विताः ॥
संनिहित्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे ॥
अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥
पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ॥
नद्यो नदास् तडागाश् च सर्वप्रस्रवणानि च ॥
उदपानाश् च वप्राश् च पुण्यान्य् आयतनानि च ॥
मासि मासि समायान्ति संनिहित्यां न संशयः ॥
यत् किं चिद् दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा ॥
स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः ॥
पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥
अभिवाद्य ततो यक्षं द्वारपालम् अरन्तुकम् ॥
कोटिरूपम् उपस्पृश्य लभेद् बहु सुवर्णकम् ॥
गङ्गाह्रदश् च तत्रैव तीर्थं भरतसत्तम ॥
तत्र स्नातस् तु धर्मज्ञ ब्रह्मचारी समाहितः ॥
राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥
पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् ॥
त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशिष्यते ॥
पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः ॥
अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥
दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥
ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥
कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् ॥
अप्य् एकां वाचम् उत्सृज्य सर्वपापैः प्रमुच्यते ॥
ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ॥
तदावसन्ति ये राजन् न ते शोच्याः कथं चन ॥
तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य ॥
एतत् कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिर् उच्यते ॥

Transliteration (IAST)

āsaptamaṃ kulaṃ caiva punāti bharatarṣabha ||
avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha ||
viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā ||
vratopanayanābhyāṃ vā upavāsena vā dvijaḥ ||
kriyāmantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ ||
kriyāmantravihīno 'pi tatra snātvā nararṣabha ||
cīrṇavrato bhaved vipro dṛṣṭam etat purātane ||
samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā ||
yeṣu snāto naravyāghra na durgatim avāpnuyāt ||
phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ ||
tato gaccheta rājendra tīrthaṃ śatasahasrakam ||
sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute ||
ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet ||
dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet ||
tato gaccheta rājendra reṇukātīrtham uttamam ||
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ ||
sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet ||
vimocanam upaspṛśya jitamanyur jitendriyaḥ ||
pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate ||
tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ ||
puṇyena mahatā yuktaḥ satāṃ loke mahīyate ||
yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ ||
tam arcayitvā deveśaṃ gamanād eva sidhyati ||
aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā ||
yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ ||
senāpatyena devānām abhiṣikto guhas tadā ||
aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha ||
kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ ||
sarvapāpaviśuddhātmā kurulokaṃ prapadyate ||
svargadvāraṃ tato gacchen niyato niyatāśanaḥ ||
svargalokam avāpnoti brahmalokaṃ ca gacchati ||
tato gacched anarakaṃ tīrthasevī narādhipa ||
tatra snātvā naro rājan na durgatim avāpnuyāt ||
tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate ||
anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ ||
sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha ||
abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt ||
tatraiva ca mahārāja viśveśvaram umāpatim ||
abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ ||
nārāyaṇaṃ cābhigamya padmanābham ariṃdamam ||
śobhamāno mahārāja viṣṇulokaṃ prapadyate ||
tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha ||
sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā ||
tataḥ svastipuraṃ gacchet tīrthasevī narādhipa ||
pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ ||
agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ ||
gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha ||
tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate ||
tatra snātvā naro rājan svargalokaṃ prapadyate ||
āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram ||
gāṇapatyam avāpnoti kulaṃ coddharate svakam ||
tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam ||
tatra snātvā sthito rātriṃ rudralokam avāpnuyāt ||
badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ ||
badaraṃ bhakṣayet tatra trirātropoṣito naraḥ ||
samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ ||
trirātropoṣitaś caiva bhavet tulyo narādhipa ||
indramārgaṃ samāsādya tīrthasevī narādhipa ||
ahorātropavāsena śakraloke mahīyate ||
ekarātraṃ samāsādya ekarātroṣito naraḥ ||
niyataḥ satyavādī ca brahmaloke mahīyate ||
tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam ||
ādityasyāśramo yatra tejorāśer mahātmanaḥ ||
tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum ||
ādityalokaṃ vrajati kulaṃ caiva samuddharet ||
somatīrthe naraḥ snātvā tīrthasevī kurūdvaha ||
somalokam avāpnoti naro nāsty atra saṃśayaḥ ||
tato gaccheta dharmajña dadhīcasya mahātmanaḥ ||
tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam ||
yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ ||
tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet ||
sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ ||
tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān ||
trirātropoṣito rājann upavāsaparāyaṇaḥ ||
labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati ||
tato gaccheta dharmajña tīrthaṃ saṃnihitīm api ||
yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ ||
māsi māsi samāyānti puṇyena mahatānvitāḥ ||
saṃnihityām upaspṛśya rāhugraste divākare ||
aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam ||
pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca ||
nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca ||
udapānāś ca vaprāś ca puṇyāny āyatanāni ca ||
māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ ||
yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā ||
snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ ||
padmavarṇena yānena brahmalokaṃ sa gacchati ||
abhivādya tato yakṣaṃ dvārapālam arantukam ||
koṭirūpam upaspṛśya labhed bahu suvarṇakam ||
gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama ||
tatra snātas tu dharmajña brahmacārī samāhitaḥ ||
rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam ||
pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram ||
trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate ||
pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ ||
api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim ||
dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm ||
ye vasanti kurukṣetre te vasanti triviṣṭape ||
kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham ||
apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate ||
brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam ||
tadāvasanti ye rājan na te śocyāḥ kathaṃ cana ||
tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya ||
etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate ||

Word-by-word
SanskritIASTMeaning
आसप्तमं कुलं चैव पुनाति भरतर्षभ ॥ अवतीर्णं च तत्रैव तीर्थं कुरुकुलोद्वह ॥ विप्राणाम् अनुकम्पार्थं दर्भिणा निर्मितं पुरा ॥ व्रतोपनयनाभ्यां वा उपवासेन वा द्विजः ॥ क्रियामन्त्रैश् च संयुक्तो ब्राह्मणः स्यान् न संशयः ॥ क्रियामन्त्रविहीनो ऽपि तत्र स्नात्वा नरर्षभ ॥ चीर्णव्रतो भवेद् विप्रो दृष्टम् एतत् पुरातने ॥ समुद्राश् चापि चत्वारः समानीताश् च दर्भिणा ॥ येषु स्नातो नरव्याघ्र न दुर्गतिम् अवाप्नुयात् ॥ फलानि गोसहस्राणां चतुर्णां विन्दते च सः ॥ ततो गच्छेत राजेन्द्र तीर्थं शतसहस्रकम् ॥ साहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते ॥ उभयोर् हि नरः स्नात्वा गोसहस्रफलं लभेत् ॥ दानं वाप्य् उपवासो वा सहस्रगुणितं भवेत् ॥ ततो गच्छेत राजेन्द्र रेणुकातीर्थम् उत्तमम् ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ स्रवपापविशुद्धात्मा अग्निष्टोमफलं लभेत् ॥ विमोचनम् उपस्पृश्य जितमन्युर् जितेन्द्रियः ॥ प्रतिग्रहकृतैर् दोषैः सर्वैः स परिमुच्यते ॥ ततः पञ्चवटं गत्वा ब्रह्मचारी जितेन्द्रियः ॥ पुण्येन महता युक्तः सतां लोके महीयते ॥ यत्र योगेश्वरः स्थाणुः स्वयम् एव वृषध्वजः ॥ तम् अर्चयित्वा देवेशं गमनाद् एव सिध्यति ॥ औजसं वरुणं तीर्थं दीप्यते स्वेन तेजसा ॥ यत्र ब्रह्मादिभिर् देवैर् ऋषिभिश् च तपोधनैः ॥ सेनापत्येन देवानाम् अभिषिक्तो गुहस् तदा ॥ औजसस्य तु पूर्वेण कुरुतीर्थं कुरूद्वह ॥ कुरुतीर्थे नरः स्नात्वा ब्रह्मचारी जितेन्द्रियः ॥ सर्वपापविशुद्धात्मा कुरुलोकं प्रपद्यते ॥ स्वर्गद्वारं ततो गच्छेन् नियतो नियताशनः ॥ स्वर्गलोकम् अवाप्नोति ब्रह्मलोकं च गच्छति ॥ ततो गच्छेद् अनरकं तीर्थसेवी नराधिप ॥ तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात् ॥ तत्र ब्रह्मा स्वयं नित्यं देवैः सह महीपते ॥ अन्वास्यते नरश्रेष्ठ नारायणपुरोगमैः ॥ सांनिध्यं चैव राजेन्द्र रुद्रपत्न्याः कुरूद्वह ॥ अभिगम्य च तां देवीं न दुर्गतिम् अवाप्नुयात् ॥ तत्रैव च महाराज विश्वेश्वरम् उमापतिम् ॥ अभिगम्य महादेवं मुच्यते सर्वकिल्बिषैः ॥ नारायणं चाभिगम्य पद्मनाभम् अरिंदमम् ॥ शोभमानो महाराज विष्णुलोकं प्रपद्यते ॥ तीर्थे तु सर्वदेवानां स्नातः स पुरुषर्षभ ॥ सर्वदुःखैः परित्यक्तो द्योतते शशिवत् सदा ॥ ततः स्वस्तिपुरं गच्छेत् तीर्थसेवी नराधिप ॥ पावनं तीर्थम् आसाद्य तर्पयेत् पितृदेवताः ॥ अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ गङ्गाह्रदश् च तत्रैव कूपश् च भरतर्षभ ॥ तिस्रः कोट्यस् तु तीर्थानां तस्मिन् कूपे महीपते ॥ तत्र स्नात्वा नरो राजन् स्वर्गलोकं प्रपद्यते ॥ आपगायां नरः स्नात्वा अर्चयित्वा महेश्वरम् ॥ गाणपत्यम् अवाप्नोति कुलं चोद्धरते स्वकम् ॥ ततः स्थाणुवटं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥ तत्र स्नात्वा स्थितो रात्रिं रुद्रलोकम् अवाप्नुयात् ॥ बदरीपाचनं गच्छेद् वसिष्ठस्याश्रमं ततः ॥ बदरं भक्षयेत् तत्र त्रिरात्रोपोषितो नरः ॥ सम्यग् द्वादश वर्षाणि बदरान् भक्षयेत् तु यः ॥ त्रिरात्रोपोषितश् चैव भवेत् तुल्यो नराधिप ॥ इन्द्रमार्गं समासाद्य तीर्थसेवी नराधिप ॥ अहोरात्रोपवासेन शक्रलोके महीयते ॥ एकरात्रं समासाद्य एकरात्रोषितो नरः ॥ नियतः सत्यवादी च ब्रह्मलोके महीयते ॥ ततो गच्छेत धर्मज्ञ तीर्थं त्रैलोक्यविश्रुतम् ॥ आदित्यस्याश्रमो यत्र तेजोराशेर् महात्मनः ॥ तस्मिंस् तीर्थे नरः स्नात्वा पूजयित्वा विभावसुम् ॥ आदित्यलोकं व्रजति कुलं चैव समुद्धरेत् ॥ सोमतीर्थे नरः स्नात्वा तीर्थसेवी कुरूद्वह ॥ सोमलोकम् अवाप्नोति नरो नास्त्य् अत्र संशयः ॥ ततो गच्छेत धर्मज्ञ दधीचस्य महात्मनः ॥ तीर्थं पुण्यतमं राजन् पावनं लोकविश्रुतम् ॥ यत्र सारस्वतो राजन् सो ऽङ्गिरास् तपसो निधिः ॥ तस्मिंस् तीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥ सारस्वतीं गतिं चैव लभते नात्र संशयः ॥ ततः कन्याश्रमं गच्छेन् नियतो ब्रह्मचर्यवान् ॥ त्रिरात्रोपोषितो राजन्न् उपवासपरायणः ॥ लभेत् कन्याशतं दिव्यं ब्रह्मलोकं च गच्छति ॥ ततो गच्छेत धर्मज्ञ तीर्थं संनिहितीम् अपि ॥ यत्र ब्रह्मादयो देवा ऋषयश् च तपोधनाः ॥ मासि मासि समायान्ति पुण्येन महतान्विताः ॥ संनिहित्याम् उपस्पृश्य राहुग्रस्ते दिवाकरे ॥ अश्वमेधशतं तेन इष्टं भवति शाश्वतम् ॥ पृथिव्यां यानि तीर्थानि अन्तरिक्षचराणि च ॥ नद्यो नदास् तडागाश् च सर्वप्रस्रवणानि च ॥ उदपानाश् च वप्राश् च पुण्यान्य् आयतनानि च ॥ मासि मासि समायान्ति संनिहित्यां न संशयः ॥ यत् किं चिद् दुष्कृतं कर्म स्त्रिया वा पुरुषस्य वा ॥ स्नातमात्रस्य तत् सर्वं नश्यते नात्र संशयः ॥ पद्मवर्णेन यानेन ब्रह्मलोकं स गच्छति ॥ अभिवाद्य ततो यक्षं द्वारपालम् अरन्तुकम् ॥ कोटिरूपम् उपस्पृश्य लभेद् बहु सुवर्णकम् ॥ गङ्गाह्रदश् च तत्रैव तीर्थं भरतसत्तम ॥ तत्र स्नातस् तु धर्मज्ञ ब्रह्मचारी समाहितः ॥ राजसूयाश्वमेधाभ्यां फलं विन्दति शाश्वतम् ॥ पृथिव्यां नैमिषं पुण्यम् अन्तरिक्षे च पुष्करम् ॥ त्रयाणाम् अपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ पांसवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः ॥ अपि दुष्कृतकर्माणं नयन्ति परमां गतिम् ॥ दक्षिणेन सरस्वत्या उत्तरेण दृषद्वतीम् ॥ ये वसन्ति कुरुक्षेत्रे ते वसन्ति त्रिविष्टपे ॥ कुरुक्षेत्रं गमिष्यामि कुरुक्षेत्रे वसाम्य् अहम् ॥ अप्य् एकां वाचम् उत्सृज्य सर्वपापैः प्रमुच्यते ॥ ब्रह्मवेदी कुरुक्षेत्रं पुण्यं ब्रह्मर्षिसेवितम् ॥ तदावसन्ति ये राजन् न ते शोच्याः कथं चन ॥ तरन्तुकारन्तुकयोर् यद् अन्तरं; रामह्रदानां च मचक्रुकस्य ॥ एतत् कुरुक्षेत्रसमन्तपञ्चकं; पितामहस्योत्तरवेदिर् उच्यते ॥āsaptamaṃ kulaṃ caiva punāti bharatarṣabha || avatīrṇaṃ ca tatraiva tīrthaṃ kurukulodvaha || viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā || vratopanayanābhyāṃ vā upavāsena vā dvijaḥ || kriyāmantraiś ca saṃyukto brāhmaṇaḥ syān na saṃśayaḥ || kriyāmantravihīno 'pi tatra snātvā nararṣabha || cīrṇavrato bhaved vipro dṛṣṭam etat purātane || samudrāś cāpi catvāraḥ samānītāś ca darbhiṇā || yeṣu snāto naravyāghra na durgatim avāpnuyāt || phalāni gosahasrāṇāṃ caturṇāṃ vindate ca saḥ || tato gaccheta rājendra tīrthaṃ śatasahasrakam || sāhasrakaṃ ca tatraiva dve tīrthe lokaviśrute || ubhayor hi naraḥ snātvā gosahasraphalaṃ labhet || dānaṃ vāpy upavāso vā sahasraguṇitaṃ bhavet || tato gaccheta rājendra reṇukātīrtham uttamam || tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || sravapāpaviśuddhātmā agniṣṭomaphalaṃ labhet || vimocanam upaspṛśya jitamanyur jitendriyaḥ || pratigrahakṛtair doṣaiḥ sarvaiḥ sa parimucyate || tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ || puṇyena mahatā yuktaḥ satāṃ loke mahīyate || yatra yogeśvaraḥ sthāṇuḥ svayam eva vṛṣadhvajaḥ || tam arcayitvā deveśaṃ gamanād eva sidhyati || aujasaṃ varuṇaṃ tīrthaṃ dīpyate svena tejasā || yatra brahmādibhir devair ṛṣibhiś ca tapodhanaiḥ || senāpatyena devānām abhiṣikto guhas tadā || aujasasya tu pūrveṇa kurutīrthaṃ kurūdvaha || kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ || sarvapāpaviśuddhātmā kurulokaṃ prapadyate || svargadvāraṃ tato gacchen niyato niyatāśanaḥ || svargalokam avāpnoti brahmalokaṃ ca gacchati || tato gacched anarakaṃ tīrthasevī narādhipa || tatra snātvā naro rājan na durgatim avāpnuyāt || tatra brahmā svayaṃ nityaṃ devaiḥ saha mahīpate || anvāsyate naraśreṣṭha nārāyaṇapurogamaiḥ || sāṃnidhyaṃ caiva rājendra rudrapatnyāḥ kurūdvaha || abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt || tatraiva ca mahārāja viśveśvaram umāpatim || abhigamya mahādevaṃ mucyate sarvakilbiṣaiḥ || nārāyaṇaṃ cābhigamya padmanābham ariṃdamam || śobhamāno mahārāja viṣṇulokaṃ prapadyate || tīrthe tu sarvadevānāṃ snātaḥ sa puruṣarṣabha || sarvaduḥkhaiḥ parityakto dyotate śaśivat sadā || tataḥ svastipuraṃ gacchet tīrthasevī narādhipa || pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ || agniṣṭomasya yajñasya phalaṃ prāpnoti mānavaḥ || gaṅgāhradaś ca tatraiva kūpaś ca bharatarṣabha || tisraḥ koṭyas tu tīrthānāṃ tasmin kūpe mahīpate || tatra snātvā naro rājan svargalokaṃ prapadyate || āpagāyāṃ naraḥ snātvā arcayitvā maheśvaram || gāṇapatyam avāpnoti kulaṃ coddharate svakam || tataḥ sthāṇuvaṭaṃ gacchet triṣu lokeṣu viśrutam || tatra snātvā sthito rātriṃ rudralokam avāpnuyāt || badarīpācanaṃ gacched vasiṣṭhasyāśramaṃ tataḥ || badaraṃ bhakṣayet tatra trirātropoṣito naraḥ || samyag dvādaśa varṣāṇi badarān bhakṣayet tu yaḥ || trirātropoṣitaś caiva bhavet tulyo narādhipa || indramārgaṃ samāsādya tīrthasevī narādhipa || ahorātropavāsena śakraloke mahīyate || ekarātraṃ samāsādya ekarātroṣito naraḥ || niyataḥ satyavādī ca brahmaloke mahīyate || tato gaccheta dharmajña tīrthaṃ trailokyaviśrutam || ādityasyāśramo yatra tejorāśer mahātmanaḥ || tasmiṃs tīrthe naraḥ snātvā pūjayitvā vibhāvasum || ādityalokaṃ vrajati kulaṃ caiva samuddharet || somatīrthe naraḥ snātvā tīrthasevī kurūdvaha || somalokam avāpnoti naro nāsty atra saṃśayaḥ || tato gaccheta dharmajña dadhīcasya mahātmanaḥ || tīrthaṃ puṇyatamaṃ rājan pāvanaṃ lokaviśrutam || yatra sārasvato rājan so 'ṅgirās tapaso nidhiḥ || tasmiṃs tīrthe naraḥ snātvā vājapeyaphalaṃ labhet || sārasvatīṃ gatiṃ caiva labhate nātra saṃśayaḥ || tataḥ kanyāśramaṃ gacchen niyato brahmacaryavān || trirātropoṣito rājann upavāsaparāyaṇaḥ || labhet kanyāśataṃ divyaṃ brahmalokaṃ ca gacchati || tato gaccheta dharmajña tīrthaṃ saṃnihitīm api || yatra brahmādayo devā ṛṣayaś ca tapodhanāḥ || māsi māsi samāyānti puṇyena mahatānvitāḥ || saṃnihityām upaspṛśya rāhugraste divākare || aśvamedhaśataṃ tena iṣṭaṃ bhavati śāśvatam || pṛthivyāṃ yāni tīrthāni antarikṣacarāṇi ca || nadyo nadās taḍāgāś ca sarvaprasravaṇāni ca || udapānāś ca vaprāś ca puṇyāny āyatanāni ca || māsi māsi samāyānti saṃnihityāṃ na saṃśayaḥ || yat kiṃ cid duṣkṛtaṃ karma striyā vā puruṣasya vā || snātamātrasya tat sarvaṃ naśyate nātra saṃśayaḥ || padmavarṇena yānena brahmalokaṃ sa gacchati || abhivādya tato yakṣaṃ dvārapālam arantukam || koṭirūpam upaspṛśya labhed bahu suvarṇakam || gaṅgāhradaś ca tatraiva tīrthaṃ bharatasattama || tatra snātas tu dharmajña brahmacārī samāhitaḥ || rājasūyāśvamedhābhyāṃ phalaṃ vindati śāśvatam || pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram || trayāṇām api lokānāṃ kurukṣetraṃ viśiṣyate || pāṃsavo 'pi kurukṣetre vāyunā samudīritāḥ || api duṣkṛtakarmāṇaṃ nayanti paramāṃ gatim || dakṣiṇena sarasvatyā uttareṇa dṛṣadvatīm || ye vasanti kurukṣetre te vasanti triviṣṭape || kurukṣetraṃ gamiṣyāmi kurukṣetre vasāmy aham || apy ekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate || brahmavedī kurukṣetraṃ puṇyaṃ brahmarṣisevitam || tadāvasanti ye rājan na te śocyāḥ kathaṃ cana || tarantukārantukayor yad antaraṃ; rāmahradānāṃ ca macakrukasya || etat kurukṣetrasamantapañcakaṃ; pitāmahasyottaravedir ucyate ||После Саптасарасваты перечисляются Ушанас, Капаламочана, Агнитиртха, Вишвамитра-тиртха, Притхудака, Мадхусрава, Арша, Шатасахасрака, Сахасрака, Ренука, Панчавата, Теджаса, Курyтиртха, Свастипура, Павана, Ганга-храда, Стхана, Бадарипачана и Индрамарга; говорится о девушке, совершившей суровый тапас у Бадарыпачаны и получившей от Шриканьи благословение, а затем о месте Индры и Экарaтре.
Translation

Дальше следуют тиртхи Ушанаса, где совершал тапас Кавья, Капаламочана, Агнитиртха, Вишвамитратиртха, Притхудака — особенно святое место, где даже малая заслуга становится вечной, а оставление тела ведёт к бессмертию; Мадхусрава, Арша, Шатасахасрака и Сахасрака, Ренука, Панчавата, Теджаса Варуна, Курyтиртха, Свастипура, Павана, Ганга-храда и Стхана. В Бадарыпачане жила дочь Бхарадваджи, прекрасная и целомудренная. Она долго совершала суровый тапас, но, ослабев телом, не получила жениха. Когда мудрец Шриканья пришёл туда, она приняла его как гостя и попросила дар. Он сказал, что пять ночей её подвижничества в этом месте будут равны двенадцатилетнему посту на ягодах. Так она достигла высших миров. Затем назван Индрамарга, путь Индры, где за один день и одну ночь с обузданным умом получают плод великого дара, и Экаратра, где однодневное пребывание даёт заслугу брахмана».

Commentary

Повествование о девушке у Бадарыпачаны напоминает: тапас получает смысл через благословение и гостеприимство. Суровость сама по себе не выше сердца, открытого святому гостю.

Version

262d08c7ffff · published Jun 18, 2026, 4:52:39 AM UTC

Page between verses with