Mahabharata
Тиртхаятра-прарамбха-парва: начало учения о паломничестве · Verse 3.80.91-133
3093 / 3756
Mahabharata · 3.80.91-133
Devanāgarī

जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ॥
पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् ॥
ततो गच्छेत धर्मज्ञ वसोर् धाराम् अभिष्टुताम् ॥
गमनाद् एव तस्यां हि हयमेधम् अवाप्नुयात् ॥
स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः ॥
तर्प्य देवान् पितॄंश् चैव विष्णुलोके महीयते ॥
तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ ॥
तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥
सिन्धूत्तमम् इति ख्यातं सर्वपापप्रणाशनम् ॥
तत्र स्नात्वा नरश्रेष्ठ लभेद् बहु सुवर्णकम् ॥
ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः ॥
ब्रह्मलोकम् अवाप्नोति सुकृती विरजा नरः ॥
कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ॥
तत्र स्नात्वा नरः क्षिप्रं शक्रलोकम् अवाप्नुयात् ॥
रेणुकायाश् च तत्रैव तीर्थं देवनिषेवितम् ॥
तत्र स्नात्वा भवेद् विप्रो विमलश् चन्द्रमा यथा ॥
अथ पञ्चनदं गत्वा नियतो नियताशनः ॥
पञ्च यज्ञान् अवाप्नोति क्रमशो ये ऽनुकीर्तिताः ॥
ततो गच्छेत धर्मज्ञ भीमायाः स्थानम् उत्तमम् ॥
तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥
देव्याः पुत्रो भवेद् राजंस् तप्तकुण्डलविग्रहः ॥
गवां शतसहस्रस्य फलं चैवाप्नुयान् महत् ॥
गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ॥
पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥
ततो गच्छेत धर्मज्ञ विमलं तीर्थम् उत्तमम् ॥
अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥
तत्र स्नात्वा नरश्रेष्ठ वाजपेयम् अवाप्नुयात् ॥
सर्वपापविशुद्धात्मा गच्छेच् च परमां गतिम् ॥
ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ॥
पश्चिमायां तु संध्यायाम् उपस्पृश्य यथाविधि ॥
चरुं नरेन्द्र सप्तार्चेर् यथाशक्ति निवेदयेत् ॥
पितॄणाम् अक्षयं दानं प्रवदन्ति मनीषिणः ॥
गवां शतसहस्रेण राजसूयशतेन च ॥
अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषश् चरुः ॥
ततो निवृत्तो राजेन्द्र वस्त्रापदम् अथाविशेत् ॥
अभिगम्य महादेवम् अश्वमेधफलं लभेत् ॥
मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ॥
एकरात्रोषितो राजन्न् अग्निष्टोमफलं लभेत् ॥
अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् ॥
प्रसूतिर् यत्र विप्राणां श्रूयते भरतर्षभ ॥
त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् ॥
देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥
यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ॥
सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥
कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् ॥
तत्र स्नात्वा नरः क्षिप्रं सिद्धिम् आप्नोति भारत ॥
यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् ॥
पुष्पन्यास उपस्पृश्य न शोचेन् मरणं ततः ॥
अर्धयोजनविस्तारां पञ्चयोजनम् आयताम् ॥
एतावद् देविकाम् आहुः पुण्यां देवर्षिसेविताम् ॥
ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ॥
यत्र ब्रह्मादयो देवाः सिद्धाश् च परमर्षयः ॥
दीर्घसत्रम् उपासन्ते दक्षिणाभिर् यतव्रताः ॥
गमनाद् एव राजेन्द्र दीर्घसत्रम् अरिंदम ॥
राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥
ततो विनशनं गच्छेन् नियतो नियताशनः ॥
गच्छत्य् अन्तर्हिता यत्र मरुपृष्ठे सरस्वती ॥
चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥
स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् ॥
शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥
नागोद्भेदे नरः स्नात्वा नागलोकम् अवाप्नुयात् ॥
शशयानं च राजेन्द्र तीर्थम् आसाद्य दुर्लभम् ॥
शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥
सरस्वत्यां महाराज अनु संवत्सरं हि ते ॥
स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥
तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत् सदा ॥
गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ ॥
कुमारकोटिम् आसाद्य नियतः कुरुनन्दन ॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥
गवामयम् अवाप्नोति कुलं चैव समुद्धरेत् ॥
ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ॥
पुरा यत्र महाराज ऋषिकोटिः समाहिता ॥
प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥
अहं पूर्वम् अहं पूर्वं द्रक्ष्यामि वृषभध्वजम् ॥
एवं संप्रस्थिता राजन्न् ऋषयः किल भारत ॥
ततो योगेष्वरेणापि योगम् आस्थाय भूपते ॥
तेषां मन्युप्रणाशार्थम् ऋषीणां भावितात्मनाम् ॥
सृष्टा कोटिस् तु रुद्राणाम् ऋषीणाम् अग्रतः स्थिता ॥
मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥
तेषां तुष्टो महादेव ऋषीणाम् उग्रतेजसाम् ॥
भक्त्या परमया राजन् वरं तेषां प्रदिष्टवान् ॥
अद्य प्रभृति युष्माकं धर्मवृद्धिर् भविष्यति ॥
तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥
अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥
ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ॥
सरस्वत्या महापुण्यम् उपासन्ते जनार्दनम् ॥
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥
अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥
तत्र स्नात्वा नरव्याघ्र विन्देद् बहु सुवर्णकम् ॥
सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥
ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ॥
सत्रावसानम् आसाद्य गोसहस्रफलं लभेत् ॥

Transliteration (IAST)

jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā ||
purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān ||
tato gaccheta dharmajña vasor dhārām abhiṣṭutām ||
gamanād eva tasyāṃ hi hayamedham avāpnuyāt ||
snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ ||
tarpya devān pitṝṃś caiva viṣṇuloke mahīyate ||
tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha ||
tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet ||
sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam ||
tatra snātvā naraśreṣṭha labhed bahu suvarṇakam ||
brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ ||
brahmalokam avāpnoti sukṛtī virajā naraḥ ||
kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam ||
tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt ||
reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam ||
tatra snātvā bhaved vipro vimalaś candramā yathā ||
atha pañcanadaṃ gatvā niyato niyatāśanaḥ ||
pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ ||
tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam ||
tatra snātvā tu yonyāṃ vai naro bharatasattama ||
devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ ||
gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat ||
girimuñjaṃ samāsādya triṣu lokeṣu viśrutam ||
pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet ||
tato gaccheta dharmajña vimalaṃ tīrtham uttamam ||
adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ ||
tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt ||
sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim ||
tato gaccheta maladāṃ triṣu lokeṣu viśrutām ||
paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi ||
caruṃ narendra saptārcer yathāśakti nivedayet ||
pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ ||
gavāṃ śatasahasreṇa rājasūyaśatena ca ||
aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ ||
tato nivṛtto rājendra vastrāpadam athāviśet ||
abhigamya mahādevam aśvamedhaphalaṃ labhet ||
maṇimantaṃ samāsādya brahmacārī samāhitaḥ ||
ekarātroṣito rājann agniṣṭomaphalaṃ labhet ||
atha gaccheta rājendra devikāṃ lokaviśrutām ||
prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha ||
triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam ||
devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram ||
yathāśakti caruṃ tatra nivedya bharatarṣabha ||
sarvakāmasamṛddhasya yajñasya labhate phalam ||
kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam ||
tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata ||
yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām ||
puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ ||
ardhayojanavistārāṃ pañcayojanam āyatām ||
etāvad devikām āhuḥ puṇyāṃ devarṣisevitām ||
tato gaccheta dharmajña dīrghasatraṃ yathākramam ||
yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ ||
dīrghasatram upāsante dakṣiṇābhir yatavratāḥ ||
gamanād eva rājendra dīrghasatram ariṃdama ||
rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ ||
tato vinaśanaṃ gacchen niyato niyatāśanaḥ ||
gacchaty antarhitā yatra marupṛṣṭhe sarasvatī ||
camase ca śivodbhede nāgodbhede ca dṛśyate ||
snātvā ca camasodbhede agniṣṭomaphalaṃ labhet ||
śivodbhede naraḥ snātvā gosahasraphalaṃ labhet ||
nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt ||
śaśayānaṃ ca rājendra tīrtham āsādya durlabham ||
śaśarūpapraticchannāḥ puṣkarā yatra bhārata ||
sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te ||
snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā ||
tatra snātvā naravyāghra dyotate śaśivat sadā ||
gosahasraphalaṃ caiva prāpnuyād bharatarṣabha ||
kumārakoṭim āsādya niyataḥ kurunandana ||
tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ ||
gavāmayam avāpnoti kulaṃ caiva samuddharet ||
tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ ||
purā yatra mahārāja ṛṣikoṭiḥ samāhitā ||
praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā ||
ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam ||
evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata ||
tato yogeṣvareṇāpi yogam āsthāya bhūpate ||
teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām ||
sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā ||
mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak ||
teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām ||
bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān ||
adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati ||
tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ ||
aśvamedham avāpnoti kulaṃ caiva samuddharet ||
tato gaccheta rājendra saṃgamaṃ lokaviśrutam ||
sarasvatyā mahāpuṇyam upāsante janārdanam ||
yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ ||
abhigacchanti rājendra caitraśuklacaturdaśīm ||
tatra snātvā naravyāghra vinded bahu suvarṇakam ||
sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati ||
ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa ||
satrāvasānam āsādya gosahasraphalaṃ labhet ||

Word-by-word
SanskritIASTMeaning
जित्वा यत्र महाप्राज्ञ विष्णुना प्रभविष्णुना ॥ पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् ॥ ततो गच्छेत धर्मज्ञ वसोर् धाराम् अभिष्टुताम् ॥ गमनाद् एव तस्यां हि हयमेधम् अवाप्नुयात् ॥ स्नात्वा कुरुवरश्रेष्ठ प्रयतात्मा तु मानवः ॥ तर्प्य देवान् पितॄंश् चैव विष्णुलोके महीयते ॥ तीर्थं चात्र परं पुण्यं वसूनां भरतर्षभ ॥ तत्र स्नात्वा च पीत्वा च वसूनां संमतो भवेत् ॥ सिन्धूत्तमम् इति ख्यातं सर्वपापप्रणाशनम् ॥ तत्र स्नात्वा नरश्रेष्ठ लभेद् बहु सुवर्णकम् ॥ ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः ॥ ब्रह्मलोकम् अवाप्नोति सुकृती विरजा नरः ॥ कुमारिकाणां शक्रस्य तीर्थं सिद्धनिषेवितम् ॥ तत्र स्नात्वा नरः क्षिप्रं शक्रलोकम् अवाप्नुयात् ॥ रेणुकायाश् च तत्रैव तीर्थं देवनिषेवितम् ॥ तत्र स्नात्वा भवेद् विप्रो विमलश् चन्द्रमा यथा ॥ अथ पञ्चनदं गत्वा नियतो नियताशनः ॥ पञ्च यज्ञान् अवाप्नोति क्रमशो ये ऽनुकीर्तिताः ॥ ततो गच्छेत धर्मज्ञ भीमायाः स्थानम् उत्तमम् ॥ तत्र स्नात्वा तु योन्यां वै नरो भरतसत्तम ॥ देव्याः पुत्रो भवेद् राजंस् तप्तकुण्डलविग्रहः ॥ गवां शतसहस्रस्य फलं चैवाप्नुयान् महत् ॥ गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ॥ पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ ततो गच्छेत धर्मज्ञ विमलं तीर्थम् उत्तमम् ॥ अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ तत्र स्नात्वा नरश्रेष्ठ वाजपेयम् अवाप्नुयात् ॥ सर्वपापविशुद्धात्मा गच्छेच् च परमां गतिम् ॥ ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ॥ पश्चिमायां तु संध्यायाम् उपस्पृश्य यथाविधि ॥ चरुं नरेन्द्र सप्तार्चेर् यथाशक्ति निवेदयेत् ॥ पितॄणाम् अक्षयं दानं प्रवदन्ति मनीषिणः ॥ गवां शतसहस्रेण राजसूयशतेन च ॥ अश्वमेधसहस्रेण श्रेयान् सप्तार्चिषश् चरुः ॥ ततो निवृत्तो राजेन्द्र वस्त्रापदम् अथाविशेत् ॥ अभिगम्य महादेवम् अश्वमेधफलं लभेत् ॥ मणिमन्तं समासाद्य ब्रह्मचारी समाहितः ॥ एकरात्रोषितो राजन्न् अग्निष्टोमफलं लभेत् ॥ अथ गच्छेत राजेन्द्र देविकां लोकविश्रुताम् ॥ प्रसूतिर् यत्र विप्राणां श्रूयते भरतर्षभ ॥ त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् ॥ देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ॥ सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् ॥ तत्र स्नात्वा नरः क्षिप्रं सिद्धिम् आप्नोति भारत ॥ यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् ॥ पुष्पन्यास उपस्पृश्य न शोचेन् मरणं ततः ॥ अर्धयोजनविस्तारां पञ्चयोजनम् आयताम् ॥ एतावद् देविकाम् आहुः पुण्यां देवर्षिसेविताम् ॥ ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ॥ यत्र ब्रह्मादयो देवाः सिद्धाश् च परमर्षयः ॥ दीर्घसत्रम् उपासन्ते दक्षिणाभिर् यतव्रताः ॥ गमनाद् एव राजेन्द्र दीर्घसत्रम् अरिंदम ॥ राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ततो विनशनं गच्छेन् नियतो नियताशनः ॥ गच्छत्य् अन्तर्हिता यत्र मरुपृष्ठे सरस्वती ॥ चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥ स्नात्वा च चमसोद्भेदे अग्निष्टोमफलं लभेत् ॥ शिवोद्भेदे नरः स्नात्वा गोसहस्रफलं लभेत् ॥ नागोद्भेदे नरः स्नात्वा नागलोकम् अवाप्नुयात् ॥ शशयानं च राजेन्द्र तीर्थम् आसाद्य दुर्लभम् ॥ शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ सरस्वत्यां महाराज अनु संवत्सरं हि ते ॥ स्नायन्ते भरतश्रेष्ठ वृत्तां वै कार्त्तिकीं सदा ॥ तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत् सदा ॥ गोसहस्रफलं चैव प्राप्नुयाद् भरतर्षभ ॥ कुमारकोटिम् आसाद्य नियतः कुरुनन्दन ॥ तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ॥ गवामयम् अवाप्नोति कुलं चैव समुद्धरेत् ॥ ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ॥ पुरा यत्र महाराज ऋषिकोटिः समाहिता ॥ प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥ अहं पूर्वम् अहं पूर्वं द्रक्ष्यामि वृषभध्वजम् ॥ एवं संप्रस्थिता राजन्न् ऋषयः किल भारत ॥ ततो योगेष्वरेणापि योगम् आस्थाय भूपते ॥ तेषां मन्युप्रणाशार्थम् ऋषीणां भावितात्मनाम् ॥ सृष्टा कोटिस् तु रुद्राणाम् ऋषीणाम् अग्रतः स्थिता ॥ मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥ तेषां तुष्टो महादेव ऋषीणाम् उग्रतेजसाम् ॥ भक्त्या परमया राजन् वरं तेषां प्रदिष्टवान् ॥ अद्य प्रभृति युष्माकं धर्मवृद्धिर् भविष्यति ॥ तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ॥ अश्वमेधम् अवाप्नोति कुलं चैव समुद्धरेत् ॥ ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ॥ सरस्वत्या महापुण्यम् उपासन्ते जनार्दनम् ॥ यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥ तत्र स्नात्वा नरव्याघ्र विन्देद् बहु सुवर्णकम् ॥ सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ॥ सत्रावसानम् आसाद्य गोसहस्रफलं लभेत् ॥jitvā yatra mahāprājña viṣṇunā prabhaviṣṇunā || purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān || tato gaccheta dharmajña vasor dhārām abhiṣṭutām || gamanād eva tasyāṃ hi hayamedham avāpnuyāt || snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ || tarpya devān pitṝṃś caiva viṣṇuloke mahīyate || tīrthaṃ cātra paraṃ puṇyaṃ vasūnāṃ bharatarṣabha || tatra snātvā ca pītvā ca vasūnāṃ saṃmato bhavet || sindhūttamam iti khyātaṃ sarvapāpapraṇāśanam || tatra snātvā naraśreṣṭha labhed bahu suvarṇakam || brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ || brahmalokam avāpnoti sukṛtī virajā naraḥ || kumārikāṇāṃ śakrasya tīrthaṃ siddhaniṣevitam || tatra snātvā naraḥ kṣipraṃ śakralokam avāpnuyāt || reṇukāyāś ca tatraiva tīrthaṃ devaniṣevitam || tatra snātvā bhaved vipro vimalaś candramā yathā || atha pañcanadaṃ gatvā niyato niyatāśanaḥ || pañca yajñān avāpnoti kramaśo ye 'nukīrtitāḥ || tato gaccheta dharmajña bhīmāyāḥ sthānam uttamam || tatra snātvā tu yonyāṃ vai naro bharatasattama || devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ || gavāṃ śatasahasrasya phalaṃ caivāpnuyān mahat || girimuñjaṃ samāsādya triṣu lokeṣu viśrutam || pitāmahaṃ namaskṛtya gosahasraphalaṃ labhet || tato gaccheta dharmajña vimalaṃ tīrtham uttamam || adyāpi yatra dṛśyante matsyāḥ sauvarṇarājatāḥ || tatra snātvā naraśreṣṭha vājapeyam avāpnuyāt || sarvapāpaviśuddhātmā gacchec ca paramāṃ gatim || tato gaccheta maladāṃ triṣu lokeṣu viśrutām || paścimāyāṃ tu saṃdhyāyām upaspṛśya yathāvidhi || caruṃ narendra saptārcer yathāśakti nivedayet || pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ || gavāṃ śatasahasreṇa rājasūyaśatena ca || aśvamedhasahasreṇa śreyān saptārciṣaś caruḥ || tato nivṛtto rājendra vastrāpadam athāviśet || abhigamya mahādevam aśvamedhaphalaṃ labhet || maṇimantaṃ samāsādya brahmacārī samāhitaḥ || ekarātroṣito rājann agniṣṭomaphalaṃ labhet || atha gaccheta rājendra devikāṃ lokaviśrutām || prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha || triśūlapāṇeḥ sthānaṃ ca triṣu lokeṣu viśrutam || devikāyāṃ naraḥ snātvā samabhyarcya maheśvaram || yathāśakti caruṃ tatra nivedya bharatarṣabha || sarvakāmasamṛddhasya yajñasya labhate phalam || kāmākhyaṃ tatra rudrasya tīrthaṃ devarṣisevitam || tatra snātvā naraḥ kṣipraṃ siddhim āpnoti bhārata || yajanaṃ yājanaṃ gatvā tathaiva brahmavālukām || puṣpanyāsa upaspṛśya na śocen maraṇaṃ tataḥ || ardhayojanavistārāṃ pañcayojanam āyatām || etāvad devikām āhuḥ puṇyāṃ devarṣisevitām || tato gaccheta dharmajña dīrghasatraṃ yathākramam || yatra brahmādayo devāḥ siddhāś ca paramarṣayaḥ || dīrghasatram upāsante dakṣiṇābhir yatavratāḥ || gamanād eva rājendra dīrghasatram ariṃdama || rājasūyāśvamedhābhyāṃ phalaṃ prāpnoti mānavaḥ || tato vinaśanaṃ gacchen niyato niyatāśanaḥ || gacchaty antarhitā yatra marupṛṣṭhe sarasvatī || camase ca śivodbhede nāgodbhede ca dṛśyate || snātvā ca camasodbhede agniṣṭomaphalaṃ labhet || śivodbhede naraḥ snātvā gosahasraphalaṃ labhet || nāgodbhede naraḥ snātvā nāgalokam avāpnuyāt || śaśayānaṃ ca rājendra tīrtham āsādya durlabham || śaśarūpapraticchannāḥ puṣkarā yatra bhārata || sarasvatyāṃ mahārāja anu saṃvatsaraṃ hi te || snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā || tatra snātvā naravyāghra dyotate śaśivat sadā || gosahasraphalaṃ caiva prāpnuyād bharatarṣabha || kumārakoṭim āsādya niyataḥ kurunandana || tatrābhiṣekaṃ kurvīta pitṛdevārcane rataḥ || gavāmayam avāpnoti kulaṃ caiva samuddharet || tato gaccheta dharmajña rudrakoṭiṃ samāhitaḥ || purā yatra mahārāja ṛṣikoṭiḥ samāhitā || praharṣeṇa ca saṃviṣṭā devadarśanakāṅkṣayā || ahaṃ pūrvam ahaṃ pūrvaṃ drakṣyāmi vṛṣabhadhvajam || evaṃ saṃprasthitā rājann ṛṣayaḥ kila bhārata || tato yogeṣvareṇāpi yogam āsthāya bhūpate || teṣāṃ manyupraṇāśārtham ṛṣīṇāṃ bhāvitātmanām || sṛṣṭā koṭis tu rudrāṇām ṛṣīṇām agrataḥ sthitā || mayā pūrvataraṃ dṛṣṭa iti te menire pṛthak || teṣāṃ tuṣṭo mahādeva ṛṣīṇām ugratejasām || bhaktyā paramayā rājan varaṃ teṣāṃ pradiṣṭavān || adya prabhṛti yuṣmākaṃ dharmavṛddhir bhaviṣyati || tatra snātvā naravyāghra rudrakoṭyāṃ naraḥ śuciḥ || aśvamedham avāpnoti kulaṃ caiva samuddharet || tato gaccheta rājendra saṃgamaṃ lokaviśrutam || sarasvatyā mahāpuṇyam upāsante janārdanam || yatra brahmādayo devā ṛṣayaḥ siddhacāraṇāḥ || abhigacchanti rājendra caitraśuklacaturdaśīm || tatra snātvā naravyāghra vinded bahu suvarṇakam || sarvapāpaviśuddhātmā brahmalokaṃ ca gacchati || ṛṣīṇāṃ yatra satrāṇi samāptāni narādhipa || satrāvasānam āsādya gosahasraphalaṃ labhet ||Пуластья продолжает путь: места очищения Вишну, Васордхара, Васу-тиртха, Синдхуттама, Брахматунга, тиртхи Шакры и Ренуки, Панчанада, место Бхимы, Гиримунджа, Вимала, Малада, Вастрапада, Манимант, Девика, Камакхья, Яджана, Брахмавалука, Диргхасатра, Винашана, Чамасодбхеда, Шиводбхеда, Нагодбхеда, Шашаяна, Кумаракоти, Рудракоти, слияние Сарасвати и Сатравасана; указывает плоды ашвамедхи, раджасуи, Вишнулоки, Брахмалоки, Шакралоки, очищения грехов и подъёма рода.
Translation

«Там, где могущественный Вишну некогда, победив и уничтожив врагов богов, совершил очищение, пусть затем идёт к прославленной Васордхаре: одно приближение к ней даёт ашвамедху. Омывшись там и насытив богов и питров, человек почитается в мире Вишну. Там же есть высшая святая тиртха Васу; омывшись и испив там, человек становится признан Васу. Место, известное как Синдхуттама, уничтожает все грехи и даёт много золота. Достигнув Брахматунги, чистый и сосредоточенный человек идёт в Брахмалоку. В тиртхе дев Кумарик и Шакры, служимой сиддхами, человек быстро достигает мира Шакры. Там же тиртха Ренуки, служимая богами; омывшись, брахман становится чист, как луна. Придя к Панчанаде, сдержанный и умеренный в пище, человек получает пять жертв. Потом пусть идёт к высшему месту Бхимы: омывшись там в йони богини, он становится сыном богини, сияющим раскалёнными серьгами, и получает великий плод ста тысяч коров. Достигнув Гиримунджи, прославленной в трёх мирах, и поклонившись Питамахе, получает плод тысячи коров. Затем к Вимале, где и ныне видны золотые и серебряные рыбы; омывшись там, человек получает ваджапею, очищается от всех грехов и идёт к высшей цели. Затем к Маладе: коснувшись её на западной сандхье и поднеся чару Семипламенному по силе, получает неистощимый дар питрам. Чару Семипламенному превосходит сто тысяч коров, сто раджасуй и тысячу ашвамедх. Потом пусть войдёт в Вастрападу и, приблизившись к Махадеве, получает плод ашвамедхи. Достигнув Маниманта и прожив одну ночь как брахмачари, получает агништом. Затем к Девике, прославленной в мире, где слышно о рождении брахманов, и к месту Тришулопани; омывшись в Девике, почтив Махешвару и поднеся чару по силе, получает плод жертвы, исполненной всех желаний. В тиртхе Рудры Камакхья, служимой дева-риши, человек быстро достигает сиддхи. Придя к Яджане, Яджане, Брахмавалуке и коснувшись Пушпаньасы, он уже не скорбит о смерти. Девику называют святой, служимой дева-риши, шириной в пол-йоджаны и длиной в пять йоджан. Затем пусть идёт к Диргхасатре, где Брахма и другие боги, сиддхи и великие риши совершают долгое жертвенное собрание; одно приближение даёт плод раджасуи и ашвамедхи. Затем к Винашане, где Сарасвати скрывается в пустыне и появляется в Чамасодбхеде, Шиводбхеде и Нагодбхеде: омовение в Чамасодбхеде даёт агништом, в Шиводбхеде — плод тысячи коров, в Нагодбхеде — мир нагов. Достигнув трудной тиртхи Шашаяна, где Пушкары скрыты в облике зайца и каждый год на Картику омываются в Сарасвати, человек сияет как луна и получает плод тысячи коров. Достигнув Кумаракоти, сдержанный Курунандана, пусть совершит омовение, почитая питров и богов: он получает гавамаяну и поднимает род. Затем к Рудракоти, где некогда коти риши, желая увидеть Вришабхадхваджу, спорили: “Я первым увижу!” Йогешвара, чтобы уничтожить их гнев, создал перед ними коти Рудр, и каждый подумал: “Я увидел раньше”. Довольный их высшей преданностью, Махадева дал им дар: “С этого дня ваша дхарма будет возрастать”. Омывшись в Рудракоти, чистый человек получает ашвамедху и поднимает род. Затем пусть идёт к знаменитому слиянию, великосвятому месту Сарасвати, где люди почитают Джанардану и куда в четырнадцатый день светлой половины Чайтры приходят Брахма и другие боги, риши, сиддхи и чараны. Омывшись там, он получает много золота, очищается от всех грехов и идёт в Брахмалоку. Достигнув Сатравасаны, где завершились жертвенные собрания риши, он получает плод тысячи коров».

Commentary

Тиртхи здесь соединяют Вишну, Рудру, Брахму, богиню и риши в одном священном ландшафте. Для Юдхиштхиры это путь видеть мир как поле памяти о Боге и дхарме.

Version

6b141513e545 · published Jun 18, 2026, 4:44:20 AM UTC

Page between verses with