चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो दिग्-विदिक्ष्व् अपि अष्टभिर् निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षदर्षभैः शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः
catur-asraṃ tat-paritaḥ śvetadvīpākhyam adbhutam catur-asraṃ catur-mūrteś catur-dhāma catuṣ-kṛtam caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api aṣṭabhir nidhibhir juṣṭam aṣṭabhiḥ siddhibhis tathā manu-rūpaiś ca daśabhir dik-pālaiḥ parito vṛtam śyāmair gauraiś ca raktaiś ca śuklaiś ca pārṣadarṣabhaiḥ śobhitaṃ śaktibhis tābhir adbhutābhiḥ samantataḥ
Вокруг него — дивная четырёхугольная область, именуемая Шветадвипой: четырёхугольная, принадлежащая Четверообразному, вчетверо устроенная как четыре обители, окружённая четырьмя целями человека и четырьмя основаниями, обнесённая десятью трезубцами вверху, внизу и по всем сторонам, наделённая восемью сокровищами и восемью совершенствами и кругом обставленная десятью хранителями сторон света в облике мантр; и всё это украшено лучшими из спутников — тёмными, златыми, красными и белыми — и теми дивными шакти со всех сторон.
अथ गोकुलावरणान्य् आह चतुरस्रम् इति चतुर्भिः । तस्य गोकुलस्य बहिः सर्वतश् चतुरस्रं चतुष्कोणात्मकं स्थानं श्वेतद्वीपाख्यम् । तद् एतद् उपलक्षणं गोलोकाख्यं चेत्य् अर्थः । यद्यपि गोकुले श्वेतद्वीपत्वम् अस्त्य् एव तद्-अवान्तर-भूमिमयत्वात् । तथापि विशेष-नाम्नोक्तत्वात् तेनैव तत् प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्य् अन्तर्-मण्डलं श्री-वृन्दावनाख्यं ज्ञेयम् । तथा च स्वायम्भुवागमे - ध्यायेत् तत्र-विशुद्धात्मा इदं सर्वं क्रमेण च इत्य् आदिकम् उक्त्वा तन्-मध्ये वृन्दावनं कुसुमितं नाना-वृक्ष-विहङ्गमं संस्मरेत् इत्य् उक्तम् । तथा च बृहद्-वामने श्रुतीनां प्रार्थना पूर्वकाणि पद्यानि
आनन्द-मात्रम् इति यद् वदन्ति हि पुराविदः ।
तद्-रूपे दर्शयास्माकं यदि देयो वरो हि नः ॥
श्रुत्वैतद् दर्शयामास स्वं लोकं प्रकृतेः परम् ।
केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥
यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः । मनोरम-निकुञ्जाढ्यं सर्वर्तु-सुख-संयुतम् ॥ इत्य् आदि तच् च चतुरस्रम् ।
चतुर्-मूर्तेश् चतुर्-व्यूहस्य वासुदेवादि-चतुष्टयस्य । चतुष्कृतं चतुर्धा विभक्तम् चतुर्-धाम । किन्तु देव-लीलत्वात् तद्-उपरि-व्योम-यान-स्था एव ज्ञेया हेतुभिः । तत्-पुरुषार्थ-साधनैः । मनु-रूपैः स्व-स्व-मन्त्रात्मकैः । दिक्-पालैः इन्द्रादिभिः । श्यामादयः चत्वारो वेदाः तैर् इत्य् अर्थः । कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः इति दशमात् । शक्तिभिः विमलादिभिः ।
तद् एवं गोलोक-नामा अयं लोकः श्री-भागवते साधितः ।
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।
कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् ॥
ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।
अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥
इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।
सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥
जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।
उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥
इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।
दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥
सत्यं ज्ञानम् अनन्तं यत् ब्रह्म ज्योतिः सनातनम् ।
यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥
ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।
ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा ॥
नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ इति ।
अतीन्द्रियम् अदृष्ट-पूर्वम् । स्व-गतिं स्व-धाम । सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यन् उपधास्यति । अस्मान् प्रापयिष्यतीत्य् अर्थः । इति सङ्कल्पितवन्त इति शेषः । जनोऽसौ व्रज-वासी मम स्वजनः । सालोक्य-सार्ष्टि- इत्य् आदि पद्ये जना इतिवद् उभयत्राप्य् अन्य-जनत्वम् अप्रस्तुततम् इति । व्रज-जनस्य तु तदीय-स्वजनतमत्वं तेन स्वयम् एव विभावितम् -
तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ इत्य् अनेन ।
स एतस्मिन् प्रापञ्चिके लोके अविद्याभिर् या उच्चावचा देव-तिर्यग्-आदि-रूपा गतयस् तासु स्वां गतिं भ्रमन् तन्-मिश्रतयाभिव्यक्तेः तन्-निर्विशेषतया जानन्, ताम् एव स्वां गतिं भवेद् इत्य् अर्थः मदीय-लौकिक-लीलावेशेन ज्ञानांश-तिरोधानाद् इति भावः ।
इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।
कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥
इति श्री-दशमोक्तेर् अविद्या-काम-कर्मणां तत्रासामर्थ्यात् । गोपीनां स्वां लोकं गोलोकम् इति । अर्थात् तान् प्रत्य् एव सन्दर्शयामास । तमसः प्रकृतेः परम् स्वरूप-शक्त्याभिव्यक्तत्वात् । अतैव सच्चिदानन्द-रूप एवासौ लोक इत्य् आह सत्यम् इति ।
अथ श्री-वृन्दावने तादृश-दर्शनं कतम-देश-स्थितानां तेषाम् इत्य् अत आह ते त्व् इति । ब्रह्म-ह्रदं अक्रूर-तीर्थं कृष्णेन नीता पुनश् च तेनैव मग्नाः मज्जिताः पुनश् च तस्मात् तेनैवोद्धृताः । उद्धृत्य पुनः स्व-स्थान-प्रापिताः सन्तो, ब्रह्मणः परम-बृहत्तमस्य तस्यैव लोकं गोलोकाख्यं ददृशुः । मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनं इति द्वितीये । वैकुण्ठान्तरस्यापि तत् तयाख्यातेः ।
कोऽसौ ब्रह्म-ह्रदः ? तत्राह यत्रेति । पुरेत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति कोष-काराः । सेयं च परिपाटी तत् तीर्थं महिमानं लक्ष्यम् एव विधातुम् इति भावः । तत्र स्वां गतिम् इति तदीयता-निर्देशो गोपानां स्वं लोकम् इति षष्ठी-स्व-शब्दयोर् निर्देशः । कृष्णम् इति साक्षान्-निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य श्री-गोलोकम् एव स्थापितवान् इति ।
तथा च हरिवंशे शक्र-वचनम् -
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।
तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥
तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।
स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥
उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।
यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।
गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥
ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।
गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥
स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघन्तोप्दद्रवान् गवाम् ॥ इति ।
तत्रापात-प्रतीतार्थान्तरे स्वर्गाद् ऊर्ध्वं ब्रह्मणो लोक इत्य् अयुक्तं स्यात् लोक-त्रयम् अतिक्रम्योक्तेः । तत्र सोम-गतिश् चैवेत्य् अपि न सम्भवति चन्द्रस्यान्येषाम् अपि ज्योतिषां ध्रुव-लोकाधस्ताद् एव गतेः । तत्र साध्यास् तं पालयन्तीत्य् अपि नोपपद्यते । देव-योनि-रूपाणां तेषां स्वर्ग-लोकस्यापि पालनम् असम्भव्यम् । किम् उत तद्-उपरि गोलोकस्य । तथा तस्य लोकस्य सुरभि-लोकत्वे सति सर्व-गत इत्य् अनुपपन्नं स्यात् । श्री-भगवद्-विग्रह-लोकयोर् अचिन्त्य-शक्तित्वेन विभुत्वं घटते न पुनर् अस्येति । अतैव सर्वातीतत्वात् तत्रापि तव गतिर् इत्य् अपि शब्दो विस्मये प्रयुक्तः । यां न विद्मो वयं सर्वे इत्य्-आदिकं चोक्तम् ।
तस्मात् प्राकृत-गोलोकाद् अन्य एवासौ गोलोक इति सिद्धम् । तथा च मोक्ष-धर्मे नारायणीयोपाख्याने श्री-भगवद्-वाक्यं -
एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् । ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ इति ।
तस्माद् अयम् अर्थः स्वर्ग-शब्देन --
भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोको ऽस्य नाभितः ।
हृदा स्वर्-लोक उरसा महर्-लोको महात्मनः ॥
इति द्वितीयानुसारेण स्वर्-लोकम् आरभ्य सत्य-लोक-पर्यन्तं लोक-पञ्चकम् उच्यते । तस्माद् ऊर्ध्वम् उपरि ब्रह्म-लोको ब्रह्मात्मको लोको ब्रह्म-लोकः सच्-चिद्-आनन्द-रूपत्वात् । ब्रह्मणो भगवतो लोक इति वा । मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनः इति द्वितीयात् । तथा च टीका -ब्रह्म-लोको वैकुण्ठाख्यः । सनातनो नित्यः । न तु सृज्यः प्रपञ्चान्तर्वर्ती । इत्य् एषा । श्रुतिश् च एष ब्रह्म-लोकः । एष आत्म-लोकः । इति ।
स च ब्रह्मर्षि-गण-सेवितः । ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश् च श्री-नारदादयः । गणाश् च श्री-गरुड-विष्वक्सेनादयः । तैः सेवितः । एवं नित्याश्रितान् उक्त्वा तद्-गमनाधिकारिण आह । तत्र ब्रह्म-लोके उमया सह वर्तत इति सोमः श्री-शिवस् तस्य गतिः ।
स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्
विरिञ्चताम् एति ततः परं हि माम् ।
अव्याकृतं भागवतो ऽथ वैष्णवं
पदं यथाहं विबुधाः कलात्यये ॥ इति चतुर्थे
श्री-रुद्र-गीतम् ।
सोमेति सुपां सुलुग् इत्य् आदिना षष्ठ्या लुक् छान्दसः । तत उत्तरत्रापि गतिर् इत्य् अस्यान्वयः । ज्योतिर् ब्रह्म तद्-ऐकात्म्य-भावानां मुक्तानाम् इत्य् अर्थः ।
ननु तादृशाम् अपि सर्वेषां किन्तु महात्मनां महाशयानां मोक्षानादरतया भजतां श्री-सनकादि-तुल्यानाम् इत्य् अर्थः ।
मुक्तानाम् अपि सिद्धानां नारायण-परायणः सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ इति षष्ठात् ।
योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ इति
गीताभ्यश् च ।
तेष्व् एव महत्त्व-पर्यवसनात् । तस्य च ब्रह्म-लोकस्योपरि सर्वोर्ध्व-प्रदेशे गवां लोकः श्री-गोलोक इत्य् अर्थः । तं च गोलोकं साध्याः प्रापञ्चिक-देवानां प्रसाधनीया मूल-रूपा नित्य-तदीय-देव-गणाः पालयन्ति दिक्-पालतया वर्तन्ते ते ह नाकं महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः इति श्रुतेः ।
तत्र पूर्वे ये च साध्या विश्वे देवाः सनातनाः ।
ते ह नाकं महिमानः सचन्तः शुभ-दर्शनाः ॥ इति
महा-वैकुण्ठ-वर्णने पाद्मोत्तर-खण्डाच् च ।
यद् वा तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि इति श्री-ब्रह्म-स्तवानुसारेण तद्-विध-परम-भक्तानाम् अपि साध्यास् तादृश-सिद्धि-प्राप्तये प्रासाधनीयाः श्री-गोपी-प्रभृतयस् तं पालयन्ति ।
तद् एवं सर्वोपरि-गतत्वेऽपि । हि प्रसिद्धौ । स श्री-गोलोकः सर्व-गतः श्री-नारायण इव प्रापञ्चिकाप्रापञ्चिक-वस्तु-व्यापकः । कैश्चित् क्रम-मुक्ति-व्यवस्थया तथा प्राप्यमानोऽप्य् असौ द्वितीय-स्कन्ध-वर्णित-कमलासन-दृष्ट-वैकुण्ठवत् श्री-व्रज-वासिन्भिर् अत्रापि यस्माद् दृष्ट इति भावः ।
अतैव महान् भगवद्-रूप एव । महान्तं विभुम् आत्मानम्
इति श्रुतेः । तत्र हेतुः । महाकाशः परम-व्योमाख्यः ब्रह्म-विशेषण-लाभाद् आकाशस् तल्-लिङ्गाद् इति न्याय-प्रसिद्धेश् च । तद्-गत-ब्रह्माकारोदयान्तरम् एव वैकुण्ठ-प्राप्तेः यथाजामिलस्य । तद् एवम् उपर्य् उपरि सर्वोपर्य् अपि विराजमाने तत्र श्री-गोलोकेऽपि तव गतिः । श्री-गोविन्द-रूपेण क्रीडा वर्तत इत्य् अर्थः ।
अतैव सा च गतिः साधारणी न भवति किन्तु तपोमयी । तपोऽत्रानवच्छिन्नैश्वर्यं सहस्र-नाम-भाष्येऽपि परमं यो महत् तपः इत्य् अत्र तत्र व्याख्यातम् । स तपोऽतप्यत इति परमेश्वर-विषयक-श्रुतेः । ऐश्वर्यं प्राकाशयद् इति तत्रार्थः । अतैव ब्रह्मादि-दुर्वितर्क्यत्वम् अप्य् आह याम् इति । अधुना तस्य श्री-गोलोक इत्य् आख्या बीजम् अभिव्यञ्जयति गतिर् इति । ब्राह्म्ये ब्रह्म-लोक-प्रापके तपसि विष्णु-विषयक-मनः-प्रणिधाने युक्तानां यत-चित्तानां तत्-प्रेम-भक्तानाम् इत्य् अर्थः । यस्य ज्ञान-मयं तपः इति श्रुतेः । ब्रह्म-लोको वैकुण्ठ-लोकः । परा प्रकृत्यतीता । गवां व्रज-वासि-मात्राणां मोचयन् व्रज-गवां दिन-तापम् इत्य्-उक्तानुसारेण अत्रैव निघ्नतोपद्रवान् गवाम् इत्य् उक्त्या च गोलोक-वासि-मात्राणां स्वतस् तद्-भाव-भावितानां च साधन-वशाद् इत्य् अर्थः । अतस् तद्-भावस्य दुर्लभत्वाद् दुरारोहा । तद् एवं गोलोकं वर्णयित्वा तस्य गोकुलेन सहाभेदम् आह स त्व् इति । स एव तु स लोको धृतो रक्षितः श्री-गोवर्धनोद्धरणेनेति । एवम् एव मोक्ष-धर्म-श्री-नारायणीयोपाख्याने श्री-भगवद्-वाक्यम् -
एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् । ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ इति ।
तथा च मृत्यु-सञ्जय-तन्त्रे --
एकदा सान्तरीक्षाच् च वैकुण्ठं स्वेच्छया भुवि । गोकुलत्वेन संस्थाप्य गोपीमय-महोत्सवा । भक्ति-रूपां सतां भक्तिम् उत्पादितवती भृशम् ॥ इति ।
एवं नारद-पञ्चरात्रे विजयाख्याने -
तत् सर्वोपरि गोलोके श्री-गोविन्दः सदा स्वयम् । विहरेत् परमानन्दी गोपी-गोकुल-नायकः ॥ इति ।
तथा ऋक्षु चायम् एव प्रदिष्टः -
तां वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरि-शृङ्गा अयासः । अत्राह तद् उरुगायस्य वृष्णः परमं पदम् अवभाति भूरि ॥ इति । व्याख्यातं च - तां तानि वां युवयोः कृष्ण-रामयोर् वास्तूनि लीला-स्थानानि गमध्यै प्राप्तुं उश्मसि कामयामहे । तानि किं विशिष्टानि ? यत्र येषु भूरि-शृङ्गा महा-शृङ्ग्यो गावो बहु-शुभ-लक्षणा इति वा । अयासः शुभाः । अयः शुभावहो विधिर् इत्य् अमरः । देवास इतिवत् जसन्तं पदम् । अत्र भूमौ तल्-लोके वेदे च प्रसिद्धं श्री-गोलोकाख्यं उरुगायस्य स्वयं भगवतो तच्-चरणारविन्दस्य परमं प्रपञ्चातीतं पदं स्थानं भूरि बहुधा अवभातीत्य् आह वेद इति ।
यजुःसु - माध्यन्दिनीया स्तूयते धामान्य् उश्मसि इत्य् आदौ । विष्णोः परमं पदम् अवभातीति भूरीति चात्र प्रकारान्तरं पठन्ति शेषं समानम् ॥5॥
atha gokulāvaraṇāny āha caturasram iti caturbhiḥ | tasya gokulasya bahiḥ sarvataś caturasraṃ catuṣkoṇātmakaṃ sthānaṃ śvetadvīpākhyam | tad etad upalakṣaṇaṃ golokākhyaṃ cety arthaḥ | yadyapi gokule śvetadvīpatvam asty eva tad-avāntara-bhūmimayatvāt | tathāpi viśeṣa-nāmnoktatvāt tenaiva tat pratīyate iti tathoktam | kintu caturasre'py antar-maṇḍalaṃ śrī-vṛndāvanākhyaṃ jñeyam | tathā ca svāyambhuvāgame - dhyāyet tatra-viśuddhātmā idaṃ sarvaṃ krameṇa ca ity ādikam uktvā tan-madhye vṛndāvanaṃ kusumitaṃ nānā-vṛkṣa-vihaṅgamaṃ saṃsmaret ity uktam | tathā ca bṛhad-vāmane śrutīnāṃ prārthanā pūrvakāṇi padyāni
ānanda-mātram iti yad vadanti hi purāvidaḥ |
tad-rūpe darśayāsmākaṃ yadi deyo varo hi naḥ ||
śrutvaitad darśayāmāsa svaṃ lokaṃ prakṛteḥ param |
kevalānubhavānanda-mātram akṣaram avyayam ||
yatra vṛndāvanaṃ nāma vanaṃ kāma-dughair drumaiḥ | manorama-nikuñjāḍhyaṃ sarvartu-sukha-saṃyutam || ity ādi tac ca caturasram |
catur-mūrteś catur-vyūhasya vāsudevādi-catuṣṭayasya | catuṣkṛtaṃ caturdhā vibhaktam catur-dhāma | kintu deva-līlatvāt tad-upari-vyoma-yāna-sthā eva jñeyā hetubhiḥ | tat-puruṣārtha-sādhanaiḥ | manu-rūpaiḥ sva-sva-mantrātmakaiḥ | dik-pālaiḥ indrādibhiḥ | śyāmādayaḥ catvāro vedāḥ tair ity arthaḥ | kṛṣṇaṃ ca tatra chandobhiḥ stūyamānaṃ suvismitāḥ iti daśamāt | śaktibhiḥ vimalādibhiḥ |
tad evaṃ goloka-nāmā ayaṃ lokaḥ śrī-bhāgavate sādhitaḥ |
nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam |
kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt ||
te cautsukya-dhiyo rājan matvā gopās tam īśvaram |
api naḥ svagatiṃ sūkṣmām upādhāsyad adhīśvaram ||
iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam |
saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat ||
jano vai loka etasminn avidyā-kāma-karmabhiḥ |
uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman ||
iti sañcintya bhagavān mahā-kāruṇiko hariḥ |
darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param ||
satyaṃ jñānam anantaṃ yat brahma jyotiḥ sanātanam |
yad dhi paśyanti munayo guṇāpāye samāhitāḥ ||
te tu brahma-hradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ |
dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā ||
nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ | kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || iti |
atīndriyam adṛṣṭa-pūrvam | sva-gatiṃ sva-dhāma | sūkṣmāṃ durjñeyām | upādhāsyan upadhāsyati | asmān prāpayiṣyatīty arthaḥ | iti saṅkalpitavanta iti śeṣaḥ | jano'sau vraja-vāsī mama svajanaḥ | sālokya-sārṣṭi- ity ādi padye janā itivad ubhayatrāpy anya-janatvam aprastutatam iti | vraja-janasya tu tadīya-svajanatamatvaṃ tena svayam eva vibhāvitam -
tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham | gopāye svātma-yogena so'yaṃ me vrata āhitaḥ || ity anena |
sa etasmin prāpañcike loke avidyābhir yā uccāvacā deva-tiryag-ādi-rūpā gatayas tāsu svāṃ gatiṃ bhraman tan-miśratayābhivyakteḥ tan-nirviśeṣatayā jānan, tām eva svāṃ gatiṃ bhaved ity arthaḥ madīya-laukika-līlāveśena jñānāṃśa-tirodhānād iti bhāvaḥ |
iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā |
kurvanto ramamāṇāś ca nāvindan bhava-vedanām ||
iti śrī-daśamokter avidyā-kāma-karmaṇāṃ tatrāsāmarthyāt | gopīnāṃ svāṃ lokaṃ golokam iti | arthāt tān praty eva sandarśayāmāsa | tamasaḥ prakṛteḥ param svarūpa-śaktyābhivyaktatvāt | ataiva saccidānanda-rūpa evāsau loka ity āha satyam iti |
atha śrī-vṛndāvane tādṛśa-darśanaṃ katama-deśa-sthitānāṃ teṣām ity ata āha te tv iti | brahma-hradaṃ akrūra-tīrthaṃ kṛṣṇena nītā punaś ca tenaiva magnāḥ majjitāḥ punaś ca tasmāt tenaivoddhṛtāḥ | uddhṛtya punaḥ sva-sthāna-prāpitāḥ santo, brahmaṇaḥ parama-bṛhattamasya tasyaiva lokaṃ golokākhyaṃ dadṛśuḥ | mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaṃ iti dvitīye | vaikuṇṭhāntarasyāpi tat tayākhyāteḥ |
ko'sau brahma-hradaḥ ? tatrāha yatreti | purety etat-prasaṅgād bhāvi-kāla ity arthaḥ | purā purāṇe nikaṭe prabandhātīta-bhāviṣu iti koṣa-kārāḥ | seyaṃ ca paripāṭī tat tīrthaṃ mahimānaṃ lakṣyam eva vidhātum iti bhāvaḥ | tatra svāṃ gatim iti tadīyatā-nirdeśo gopānāṃ svaṃ lokam iti ṣaṣṭhī-sva-śabdayor nirdeśaḥ | kṛṣṇam iti sākṣān-nirdeśaś ca vaikuṇṭhāntaraṃ vyavacchidya śrī-golokam eva sthāpitavān iti |
tathā ca harivaṃśe śakra-vacanam -
svargād ūrdhvaṃ brahma-loko brahmarṣi-gaṇa-sevitaḥ |
tatra soma-gatiś caiva jyotiṣāṃ ca mahātmanām ||
tasyopari gavāṃ lokaḥ sādhyās taṃ pālayanti hi |
sa hi sarva-gataḥ kṛṣṇa mahākāśa-gato mahān ||
upary upari tatrāpi gatis tava tapomayī |
yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham |
gatiḥ śama-damāḍhyānāṃ svargaḥ sukṛta-karmaṇām ||
brāhmye tapasi yuktānāṃ brahma-lokaḥ parā gatiḥ |
gavām eva tu yo loko durāroho hi sā gatiḥ ||
sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā | dhṛto dhṛtimatā vīra nighantopdadravān gavām || iti |
tatrāpāta-pratītārthāntare svargād ūrdhvaṃ brahmaṇo loka ity ayuktaṃ syāt loka-trayam atikramyokteḥ | tatra soma-gatiś caivety api na sambhavati candrasyānyeṣām api jyotiṣāṃ dhruva-lokādhastād eva gateḥ | tatra sādhyās taṃ pālayantīty api nopapadyate | deva-yoni-rūpāṇāṃ teṣāṃ svarga-lokasyāpi pālanam asambhavyam | kim uta tad-upari golokasya | tathā tasya lokasya surabhi-lokatve sati sarva-gata ity anupapannaṃ syāt | śrī-bhagavad-vigraha-lokayor acintya-śaktitvena vibhutvaṃ ghaṭate na punar asyeti | ataiva sarvātītatvāt tatrāpi tava gatir ity api śabdo vismaye prayuktaḥ | yāṃ na vidmo vayaṃ sarve ity-ādikaṃ coktam |
tasmāt prākṛta-golokād anya evāsau goloka iti siddham | tathā ca mokṣa-dharme nārāyaṇīyopākhyāne śrī-bhagavad-vākyaṃ -
evaṃ bahu-vidhai rūpaiś carāmīha vasundharām | brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || iti |
tasmād ayam arthaḥ svarga-śabdena --
bhūr-lokaḥ kalpitaḥ padbhyāṃ bhuvar-loko 'sya nābhitaḥ |
hṛdā svar-loka urasā mahar-loko mahātmanaḥ ||
iti dvitīyānusāreṇa svar-lokam ārabhya satya-loka-paryantaṃ loka-pañcakam ucyate | tasmād ūrdhvam upari brahma-loko brahmātmako loko brahma-lokaḥ sac-cid-ānanda-rūpatvāt | brahmaṇo bhagavato loka iti vā | mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaḥ iti dvitīyāt | tathā ca ṭīkā -brahma-loko vaikuṇṭhākhyaḥ | sanātano nityaḥ | na tu sṛjyaḥ prapañcāntarvartī | ity eṣā | śrutiś ca eṣa brahma-lokaḥ | eṣa ātma-lokaḥ | iti |
sa ca brahmarṣi-gaṇa-sevitaḥ | brahmāṇi mūrtimanto vedāḥ | ṛṣayaś ca śrī-nāradādayaḥ | gaṇāś ca śrī-garuḍa-viṣvaksenādayaḥ | taiḥ sevitaḥ | evaṃ nityāśritān uktvā tad-gamanādhikāriṇa āha | tatra brahma-loke umayā saha vartata iti somaḥ śrī-śivas tasya gatiḥ |
sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān
viriñcatām eti tataḥ paraṃ hi mām |
avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ
padaṃ yathāhaṃ vibudhāḥ kalātyaye || iti caturthe
śrī-rudra-gītam |
someti supāṃ sulug ity ādinā ṣaṣṭhyā luk chāndasaḥ | tata uttaratrāpi gatir ity asyānvayaḥ | jyotir brahma tad-aikātmya-bhāvānāṃ muktānām ity arthaḥ |
nanu tādṛśām api sarveṣāṃ kintu mahātmanāṃ mahāśayānāṃ mokṣānādaratayā bhajatāṃ śrī-sanakādi-tulyānām ity arthaḥ |
muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ sudurlabhaḥ praśāntātmā koṭiṣv api mahā-mune || iti ṣaṣṭhāt |
yoginām api sarveṣāṃ madgatenāntarātmanā |
śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || iti
gītābhyaś ca |
teṣv eva mahattva-paryavasanāt | tasya ca brahma-lokasyopari sarvordhva-pradeśe gavāṃ lokaḥ śrī-goloka ity arthaḥ | taṃ ca golokaṃ sādhyāḥ prāpañcika-devānāṃ prasādhanīyā mūla-rūpā nitya-tadīya-deva-gaṇāḥ pālayanti dik-pālatayā vartante te ha nākaṃ mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ iti śruteḥ |
tatra pūrve ye ca sādhyā viśve devāḥ sanātanāḥ |
te ha nākaṃ mahimānaḥ sacantaḥ śubha-darśanāḥ || iti
mahā-vaikuṇṭha-varṇane pādmottara-khaṇḍāc ca |
yad vā tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi iti śrī-brahma-stavānusāreṇa tad-vidha-parama-bhaktānām api sādhyās tādṛśa-siddhi-prāptaye prāsādhanīyāḥ śrī-gopī-prabhṛtayas taṃ pālayanti |
tad evaṃ sarvopari-gatatve'pi | hi prasiddhau | sa śrī-golokaḥ sarva-gataḥ śrī-nārāyaṇa iva prāpañcikāprāpañcika-vastu-vyāpakaḥ | kaiścit krama-mukti-vyavasthayā tathā prāpyamāno'py asau dvitīya-skandha-varṇita-kamalāsana-dṛṣṭa-vaikuṇṭhavat śrī-vraja-vāsinbhir atrāpi yasmād dṛṣṭa iti bhāvaḥ |
ataiva mahān bhagavad-rūpa eva | mahāntaṃ vibhum ātmānam
iti śruteḥ | tatra hetuḥ | mahākāśaḥ parama-vyomākhyaḥ brahma-viśeṣaṇa-lābhād ākāśas tal-liṅgād iti nyāya-prasiddheś ca | tad-gata-brahmākārodayāntaram eva vaikuṇṭha-prāpteḥ yathājāmilasya | tad evam upary upari sarvopary api virājamāne tatra śrī-goloke'pi tava gatiḥ | śrī-govinda-rūpeṇa krīḍā vartata ity arthaḥ |
ataiva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī | tapo'trānavacchinnaiśvaryaṃ sahasra-nāma-bhāṣye'pi paramaṃ yo mahat tapaḥ ity atra tatra vyākhyātam | sa tapo'tapyata iti parameśvara-viṣayaka-śruteḥ | aiśvaryaṃ prākāśayad iti tatrārthaḥ | ataiva brahmādi-durvitarkyatvam apy āha yām iti | adhunā tasya śrī-goloka ity ākhyā bījam abhivyañjayati gatir iti | brāhmye brahma-loka-prāpake tapasi viṣṇu-viṣayaka-manaḥ-praṇidhāne yuktānāṃ yata-cittānāṃ tat-prema-bhaktānām ity arthaḥ | yasya jñāna-mayaṃ tapaḥ iti śruteḥ | brahma-loko vaikuṇṭha-lokaḥ | parā prakṛtyatītā | gavāṃ vraja-vāsi-mātrāṇāṃ mocayan vraja-gavāṃ dina-tāpam ity-uktānusāreṇa atraiva nighnatopadravān gavām ity uktyā ca goloka-vāsi-mātrāṇāṃ svatas tad-bhāva-bhāvitānāṃ ca sādhana-vaśād ity arthaḥ | atas tad-bhāvasya durlabhatvād durārohā | tad evaṃ golokaṃ varṇayitvā tasya gokulena sahābhedam āha sa tv iti | sa eva tu sa loko dhṛto rakṣitaḥ śrī-govardhanoddharaṇeneti | evam eva mokṣa-dharma-śrī-nārāyaṇīyopākhyāne śrī-bhagavad-vākyam -
evaṃ bahu-vidhai rūpaiś carāmīha vasundharām | brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || iti |
tathā ca mṛtyu-sañjaya-tantre --
ekadā sāntarīkṣāc ca vaikuṇṭhaṃ svecchayā bhuvi | gokulatvena saṃsthāpya gopīmaya-mahotsavā | bhakti-rūpāṃ satāṃ bhaktim utpāditavatī bhṛśam || iti |
evaṃ nārada-pañcarātre vijayākhyāne -
tat sarvopari goloke śrī-govindaḥ sadā svayam | viharet paramānandī gopī-gokula-nāyakaḥ || iti |
tathā ṛkṣu cāyam eva pradiṣṭaḥ -
tāṃ vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūri-śṛṅgā ayāsaḥ | atrāha tad urugāyasya vṛṣṇaḥ paramaṃ padam avabhāti bhūri || iti | vyākhyātaṃ ca - tāṃ tāni vāṃ yuvayoḥ kṛṣṇa-rāmayor vāstūni līlā-sthānāni gamadhyai prāptuṃ uśmasi kāmayāmahe | tāni kiṃ viśiṣṭāni ? yatra yeṣu bhūri-śṛṅgā mahā-śṛṅgyo gāvo bahu-śubha-lakṣaṇā iti vā | ayāsaḥ śubhāḥ | ayaḥ śubhāvaho vidhir ity amaraḥ | devāsa itivat jasantaṃ padam | atra bhūmau tal-loke vede ca prasiddhaṃ śrī-golokākhyaṃ urugāyasya svayaṃ bhagavato tac-caraṇāravindasya paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri bahudhā avabhātīty āha veda iti |
yajuḥsu - mādhyandinīyā stūyate dhāmāny uśmasi ity ādau | viṣṇoḥ paramaṃ padam avabhātīti bhūrīti cātra prakārāntaraṃ paṭhanti śeṣaṃ samānam ||5||
8446411962c1 · published Jul 29, 2026, 5:34:18 PM UTC
Available inRUPage between verses with
Далее он говорит об оградах Гокулы — четырьмя словами, начиная с «чатурасрам».
Вне той Гокулы, со всех сторон, — четырёхугольное место о четырёх углах, именуемое Шветадвипой. И это указание относится и к именуемому Голокой; таков смысл. Хотя «шветадвипность» есть и в самой Гокуле, поскольку она состоит из внутренних её земель, всё же, поскольку названо оно особым именем, им оно и разумеется, — потому так и сказано. Но и в четырёхугольнике внутренний круг должно знать как именуемый Шри Вриндаваном.
И так в «Сваямбхува-агаме»: сказав «да созерцает там чистый душою всё это по порядку» и далее, говорится: «посреди него цветущий Вриндаван, с разными деревьями и птицами, да помянет».
И так в «Брихад-вамане» — стихи, начинающиеся с мольбы шрути:
«То, что зовут одним лишь блаженством, как говорят знатоки древности, — яви нам в том облике, если нам надлежит дать дар».
«Услышав это, Он явил Свой мир, что выше пракрити, — одно лишь чистое блаженство переживания, нетленное, неизменное,
где лес по имени Вриндаван, с древами, доящими желания, богатый прелестными кущами, соединённый со счастьем всех времён года» — и далее. И оно-то и есть четырёхугольное.
«Четырёхобразного» — то есть чатур-вьюхи, четверицы Васудевы и прочих. «Счетверённое» — разделённое на четыре, четыре обители. Но поскольку это игра божеств, их надо знать стоящими на воздушных колесницах над нею. «Хетубхих» — средствами к достижению той цели человека. «Ману-рупаих» — состоящими каждый из своей мантры. «Дик-палаих» — Индрой и прочими. Шьяма и прочие — четыре Веды, ими; таков смысл, как из Десятой песни: «и Кришну там, восхваляемого размерами Вед, — изумлённые». «Шактибхих» — Вималой и прочими.
Итак, этот мир по имени Голока утверждён в «Шри Бхагаватам»:
«Нанда же, увидев сверхчувственное, великое величие хранителей миров и поклон их Кришне, изумлённый, сказал родичам.
И они, о царь, с умом, полным нетерпения, сочтя Его владыкой, — пастухи: „Ужели нас, верховный владыка, приведёт Он к Своей тонкой обители?“
Так о Своих Он, Господь, всевидящий, Сам узнав, ради исполнения их намерения по милости помыслил вот что:
„Человек в этом мире неведением, желанием и делами, блуждая среди высоких и низких участей, не знает своей участи“.
Так помыслив, Господь, многомилостивый Хари, явил пастухам Свой мир — тот, что выше тьмы,
что есть истина, знание, бесконечность, Брахман, свет, вечное, что и видят молчальники, сосредоточенные, по устранении гун.
Они же, приведённые к Брахма-храде, погружённые и Кришною извлечённые, узрели мир Брахмана, где прежде побывал Акрура.
Нанда же и прочие, увидев его, упокоенные высшим блаженством, и Кришну там, восхваляемого размерами Вед, — изумлённые».
«Сверхчувственное» — прежде невиданное. «Свою участь» — свою обитель. «Тонкую» — труднопознаваемую. «Упадхасьян» — приведёт, то есть «доставит нас туда»; таков смысл. «Так они возымели намерение» — подразумевается.
«Джана» — тот житель Враджи, Мой близкий. Как в стихе «салокья, саршти» и далее слово «джанах», так и здесь: и там, и здесь речь не о посторонних — это вовсе не к делу. А что народ Враджи есть Его самые близкие — Им Самим и явлено словами: «Потому селение, что нашло прибежище во Мне, чей владыка Я, чьё достояние Я, храню Я силою Себя Самого; таков принятый Мною обет».
Он в этом сотворённом мире, среди тех высоких и низких участей в виде богов, животных и прочего, что созданы неведением, блуждая, свою участь — поскольку она являет себя смешанной с ними — познаёт как неотличную от них и её-то и считает своей участью; таков смысл. А происходит это оттого, что из-за погружения в Мою земную игру доля знания скрыта; таков смысл.
«Так Нанда и прочие пастухи, с радостью ведя беседу о Кришне и Раме и наслаждаясь, не ведали мук бытия», — по речению Десятой песни, поскольку неведение, желание и дела там бессильны.
«Пастухам Свой мир» — то есть Голоку; то есть именно им и явил. «Выше тьмы» — выше пракрити, поскольку он явлен внутренней силой. Потому и мир этот есть бытие, сознание и блаженство, — и это он говорит словом «сатьям».
Далее: во Шри Вриндаване — у них, стоявших в каком именно месте, было такое видение? На это он говорит «те ту». «Брахма-храда» — Акрура-тиртха. Кришною приведённые и Им же погружённые, то есть окунутые, и Им же оттуда извлечённые; извлечённые и вновь возвращённые на своё место, они узрели мир «Брахмана» — Его же, величайшего из великих, — именно Его мир, именуемый Голокой. Ибо и об иной Вайкунтхе говорится тем же именем: «главами же — Сатья-лока, вечная Брахма-лока», — так во Второй песни.
Что же это за Брахма-храда? На это он говорит «ятра». «Пура» — по связи с этим случаем означает будущее время; таков смысл: «пура» — в древности, вблизи, в прошлом и в будущем, — так у составителей словарей. И порядок этот — лишь чтобы сделать явным величие той тиртхи; таков смысл. Там «свою участь» — указание на принадлежность Ему; «пастухам Свой мир» — указание родительным падежом и словом «свой»; и прямое указание словом «Кришну». Отсекая иную Вайкунтху, он установил именно Шри Голоку.
И так в «Хариванше» слово Шакры:
«Выше рая — Брахма-лока, чтимая сонмами брахма-риши; там же участь Сомы, и светил, и великих душ.
Над нею — мир коров; его-то и хранят садхьи; ибо он всепроникающ, о Кришна, великий, пребывающий в великом просторе.
Выше и выше, и там ещё — участь Твоя, полная тапаса, которой не знаем мы все, хоть и спрашивали Прародителя. Участь — у богатых покоем и обузданием, рай — у творящих благие дела;
у преданных брахманскому подвижничеству Брахма-лока — высшая участь; а тот мир, что принадлежит коровам, — та участь труднодостижима.
И мир тот, изнемогавший, Тобою, о Кришна, совершенным душою, удержан, о стойкий герой, сокрушающий бедствия коров».
При ином смысле, что видится с первого взгляда, «выше рая — мир Брахмы» было бы несообразно, поскольку сказано с пропуском трёх миров. И «там же участь Сомы» невозможно, ибо у луны и прочих светил участь их — ниже Дхрува-локи. И «садхьи хранят его» не выходит: им, чей род божеский, невозможно хранить и самый рай, тем паче Голоку, что выше него. И если бы мир тот был миром земных коров, «всепроникающ» вышло бы несообразным: у облика Господа и у Его мира вездесущность возможна по непостижимой силе, но не у этого. Потому же, ибо Он превыше всего, в словах «и там ещё — участь Твоя» слово «апи» употреблено в значении изумления; и сказано «которой не знаем мы все» и далее.
Потому установлено: эта Голока отлична от голоки мирской. И так в «Мокша-дхарме», в «Нараяния-упакхьяне», слово Шри Бхагавана: «Так, многовидными обликами, хожу Я здесь по земле, и по Брахма-локе, о сын Кунти, и по вечной Голоке».
Потому смысл таков. Словом «сварга», согласно Второй песни — «Бхур-лока измыслена от стоп, Бхувар-лока — от пупа Его, сердцем — Свар-лока, грудью — Махар-лока у Великого душою», — разумеется пятерица миров, начиная со Свар-локи и до Сатья-локи. Выше того, над ним, — Брахма-лока, мир, состоящий из Брахмана; Брахма-лока — поскольку он есть бытие, сознание и блаженство; или же: мир Брахмана, то есть Бхагавана. «Главами же — Сатья-лока, вечная Брахма-лока», — так из Второй песни. И толкование: «Брахма-лока — именуемая Вайкунтхой; вечная — то есть непреходящая, а не сотворённая, внутри мироздания». И шрути: «это Брахма-лока, это мир Души».
И она чтима сонмами брахма-риши: «брахма» — воплощённые Веды, «риши» — Шри Нарада и прочие, «ганы» — Шри Гаруда, Вишваксена и прочие; ими она и чтима. Сказав так о вечных её обитателях, он называет имеющих право туда идти. Там, в Брахма-локе, «пребывающий с Умой» — таков Сома, то есть Шри Шива; это его участь. «Верный своему долгу за сто рождений человек достигает сана Виринчи, а выше того — Меня, неявленного; затем же преданный — вайшнавской обители, как я, о мудрые, по исходе времени», — так в Четвёртой песни песнь Шри Рудры. «Сома» — по правилу «супам сулук» и прочим — ведийское выпадение родительного падежа. И далее, ниже, слово «участь» связывается так же. «Джьотих» — Брахман, то есть освобождённых, слившихся с ним; таков смысл.
Но ведь и у всех таковых? — Нет: «великих душою», великих помыслом, поклоняющихся, не радея о мокше, равных Шри Санаке и прочим; таков смысл. «И среди освобождённых, среди совершенных преданный Нараяне весьма редок, умиротворённый душою, даже среди мириад, о великий молчальник», — так из Шестой песни. «И среди всех йогинов тот, чья внутренняя душа ушла в Меня, кто с верою Мне поклоняется, — тот Мною признан наивысшим», — и так из «Гиты», поскольку величие завершается именно в них.
И над той Брахма-локой, в наивысшей области, — мир коров, то есть Шри Голока; таков смысл. И ту Голоку хранят садхьи — те, кого должны умилостивлять мирские боги, коренные, вечные Его божественные сонмы; они стоят как хранители сторон света, по слову шрути: «Они, величавые, достигают небес, где прежние садхьи — боги». «Там прежние, что суть садхьи, вишведевы вечные, — они, величавые, приобщаются к небесам, благовидные», — так в описании Маха-Вайкунтхи из Уттара-кханды «Падма-пураны».
Или же, согласно славословию Шри Брахмы — «Великая та удача — рождение здесь, хоть бы и в лесу, да ещё и в Гокуле», — садхьи суть те, кого надлежит умилостивить и таковым высшим преданным ради обретения такого совершенства: Шри гопи и прочие — они и хранят её.
Итак, хотя она и превыше всего («хи» — в значении известности), та Шри Голока всепроникающа: подобно Шри Нараяне, она объемлет вещи мирские и немирские. Хоть и достигается она иными по чину постепенного освобождения, но, подобно Вайкунтхе, увиденной Сидящим на лотосе, как описано во Второй песни, она была увидена жителями Шри Враджи и здесь; таков смысл.
Потому «великий» — то есть сам облик Господа: «великую, вездесущую Душу», — по слову шрути. Основание тому: «махакаша» — именуемая высшим небом, поскольку получает определение «Брахман», и по известному правилу «простор — по его признаку». Ибо лишь по восходе в нём образа Брахмана бывает достижение Вайкунтхи, как у Аджамилы.
Итак, там, в самой Шри Голоке, сияющей выше и выше, превыше всего, — «участь Твоя», то есть игра в облике Шри Говинды; таков смысл. Потому и участь та не бывает обыкновенной, но «полная тапаса». «Тапас» здесь — неограниченное величие; и в толковании на тысячу имён, к словам «кто есть высший, великий тапас», оно там же и истолковано. «Он совершил тапас» — по слову шрути о Верховном Владыке; «явил величие» — таков там смысл. Потому он говорит и о недомыслимости её для Брахмы и прочих — словом «ям».
Теперь же он являет корень её имени «Шри Голока» — словом «гатих». «Брахманском» — ведущем к Брахма-локе; «в подвижничестве» — в сосредоточении ума на Вишну; «у преданных ему» — у обуздавших ум, то есть у любящих Его преданных; таков смысл, по слову шрути: «чей тапас состоит из знания». «Брахма-лока» — мир Вайкунтхи; «высшая» — превзошедшая пракрити. «Коров» — всех без изъятия жителей Враджи, согласно речению «избавляя коров Враджи от дневного зноя» и здесь же — «сокрушающим бедствия коров»: то есть всех без изъятия жителей Голоки, и проникшихся тем чувством сами собою, и силою садханы; таков смысл. Оттого, что чувство то редкостно, она и труднодостижима.
Итак, описав Голоку, он говорит о неразличии её с Гокулой — словами «са ту». Именно тот самый мир «удержан», то есть защищён, поднятием Шри Говардханы. Точно так же и в «Мокша-дхарме», в «Шри Нараяния-упакхьяне», слово Шри Бхагавана: «Так, многовидными обликами, хожу Я здесь по земле, и по Брахма-локе, о сын Кунти, и по вечной Голоке».
И так в «Мритью-санджая-тантре»: «Однажды с поднебесья Вайкунтху по своей воле утвердив на земле как Гокулу, великий праздник, состоящий из гопи, породил он в изобилии бхакти праведных, имеющую облик преданности».
Так же в «Нарада-панчаратре», в «Виджая-акхьяне»: «Там, в Голоке превыше всего, Шри Говинда всегда Сам да играет, полный высшего блаженства, вождь гопи и Гокулы».
Так же и в «Риг-веде» указано именно на неё: «К тем вашим обителям желаем мы прийти, где коровы многорогие, благие; здесь-то у Уругаи, у быка, высшая обитель сияет многократно».
И истолковано так. «Там» — те; «вам» — ваши двоих, Кришны и Рамы, обители, места игр; «гамадхьяи» — чтобы достичь; «ушмаси» — желаем. Чем же они отличены? «Ятра» — в которых многорогие, великорогие коровы, — или же: многоблагознаменные. «Аясах» — благие: «ая — благоносный обычай», так у Амары; слово с окончанием jas, как в «девасах». «Здесь» — на земле, в том мире и в Веде известное, именуемое Шри Голокой, у Уругаи, то есть Самого Господа, у Его лотосных стоп, «высшее» — превзошедшее мироздание — «падам», то есть место, «многократно», то есть многообразно, сияет, — так говорит Веда.
В «Яджусе», у мадхьяндинов, воспевается: «обителей желаем мы» и далее; и «высшая обитель Вишну сияет», и «бхури» — здесь читают иначе; остальное то же.