केचिद् दोषा भवन्त्य् एषु पदांशेऽपि पदेऽपरंनिरर्थकासमर्थत्वे च्युतसंस्कारता तथा ॥5॥परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वं, यथा—"कार्तार्थ्यं प्राप कंसारिः कंसे मरणम् आपिते ।"अश्लीलं, व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् त्रिधा—क्रमेण, यथा—दैत्यस्त्रीगर्भनाशाय तद् इदं साधनं महत् ।प्रससार शनैर् वायुः सभायां कंसभूपतेः ॥रात्रौ रात्रौ विनष्टे त्वयि कंसे सुहृदि नष्टदृष्टि स्यात् ।एषु साधनवायुविनष्टशब्दा अश्लीलाः ।"कुरुवीरा दिव्यं याताः पशुभूता रणाध्वरे ॥" अत्र पशुपदं कातर्यम् अभिव्यनक्तीति अनुचितार्थत्वम् ।अप्रयुक्तत्वं प्रसिद्धाव् अपि कविभिर् अनादृतत्वं, तद् यथा—"भाति पद्मः सूर्यपुत्र्याम्" । अत्र पुंलिङ्गः पद्मशब्दोऽप्रयुक्तः । एवं दुश्च्यवनशब्दः स्वत एवाप्रयुक्तो ज्ञेयः ।ग्राम्यत्वं, यथा—"कंसे मृते कटिस् तस्य स्त्रीणां स्तब्धा गतिं प्रति ।" अत्र कटिशब्दो ग्राम्यः ।अप्रतीतत्वम् एकदर्शनमात्रप्रसिद्धत्वं, यथा—"हरिभक्त्या धूताशयः ।" अत्र योगशास्त्रे एव वासनार्थ आशयशब्दः ।"आशिषं हे हरे वन्द्यां कर्णे कृत्वा कृपां कुरु ।" अत्र वन्द्याम् इति किं वन्दीभूतायाम् उत वन्दनीयाम् इति सन्देहः ।नेयार्थत्वं रूढिप्रयोजनाभावाद् अशक्तिकृतं लक्ष्यप्रकाशनम्, यथा—"कमले चरणाघातं चक्रतुश् चरणौ हरेः ।" अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् ।निहतार्थत्वम् उभयार्थस्याप्रसिद्धेऽर्थे प्रयोगः । यथा—"कंसं मृतं जघ्नुर् अमुष्य भार्याः ।" "हस्तिर्" अत्र घाते प्रसिद्ध इति गतौ निहतार्थः । "यमुना शम्बरम् अम्बरं व्यतानीद्" इत्य् अत्र यमुनापदान्वितत्वाच् छम्बरशब्दा दानवविशेषार्थत्वम् अप्य् अतिक्रामेत् ।"गोविन्दे मन आदत्ते" । आङ्पूर्वो दाञ्धातुर् दानार्थेऽवाचकः । "ध्वान्तच्छन्नापि रात्रीयं कृष्णध्यातुर् दिनं मतम्" इत्य् अत्र तु प्रकाशातिशयमयताव्यञ्जना प्रयोजनवत्या लक्षणया सम्भवत्य् अपि गोर्वाहीकवत् ।क्लिष्टत्वम् अर्थप्रतीतेर् व्यवहितत्वम् । यथा—"क्षीरोदजावसतिजन्मभुवः प्रसन्नाः ।" अत्र क्षीरोदजा लक्ष्मीः, तस्या वसतिः पद्मम्, तस्य जन्मभुवो जलानीति व्यवहितिः ।"वन्दे सीतापतिप्रियाम्" । अत्र सीतापतिशब्दोऽयम् एकपतिव्रतधरस्य श्रीरामस्य प्रियान्तरव्यञ्जकतया विरुद्धमतिकृत् ।अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तद् अविमृष्टविधेयांशम् आह—"स्वर्गग्रामटिकाविलुण्ठनवृथोच्छूनैः किम् एभिर् भुजैः ।" अत्र स्वर्गग्रामटिकाविलुण्ठनेनापि वृथेवोच्छूनैर् इति वाच्यम् । वृथात्वं हि विधेयम् । तच् च समासे गुणीभूतत्वाद् अनुवादप्रतीतिकृत् ।यथा वा—"रक्षांस्य् अपि पुरः स्थातुम् अलं रामानुजस्य मे ।" इत्य् अत्र चास्तु तावत् रामस्य वार्ता, तम् अनुजातस्यापि ममेति वाच्यम् ।कटाक्षः पतति श्रीश यस्यां यस्यां तवात्र सा ।तं मेने पञ्चबाणस्य षष्ठबाणम् इवाच्युत ॥अत्र बाणं षष्ठम् इवेत्य् उत्प्रेक्ष्यम् । यथा वा—आनन्दसिन्धुर् अतिचापलशालि चित्तंसन्दाननैकसदनं क्षणम् अप्य् अमुक्ता ।या यादवेन्द्र भवता तदुदन्तचिन्तातान्तिं तनोति सम्प्रति धिग् धिग् अस्मान् ॥अत्रामुक्तेत्य् अत्र "नञः प्रसह्यप्रतिषेधत्वम्" इति विधेयत्वम् एवोचितम् । यद् उक्तम्—अप्राधान्यं विधेर् यत्र प्रतिषेधे प्रधानता ।प्रसह्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥यथा—विद्युत्त्वानयम् आभाति न तु पीताम्बरः स्वयम् ।उक्तोदाहरणे तु तत्पुरुषसमासे गुणीभावान् नञः पर्युदासतया निषेधस्य विधेयतयानवगमः । यद् आहुः—प्रधानत्वं विधेर् यत्र प्रतिषेधेऽप्रधानता ।पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥तेन तु—"जुगोपात्मानम् अत्रस्तो भेजे कृष्णम् अनातुरः ।" अत्रात्रस्तत्वाद् यम् अनूद्यम् आत्मगोपनाद्यम् एव विधेयम् इति नञः पर्युदासतया गुणीभावो युक्तः ।ननु, "अश्राद्धभोजी" "असूर्यम्पश्या राजदारा" इत्य् आदाव् इवामुक्तेत्य् अत्रापि प्रसह्यप्रतिषेधो भविष्यतीति चेत्, न । तत्रापि यदि भोजनादिक्रियांशेन नञः सम्बन्धः स्यात्, तदैव तत्र प्रसह्यप्रतिषेधत्वं वक्तुं शक्यम् । न च तथा । विशेषतया प्रधानेन ततोऽत्यर्थेन कर्त्रंशेनैव सम्बन्धात् । यद् आहुः—श्राद्धभोजनशीलो ह्य् अत्र कर्ता प्रतीयते ।न तद्भोजनमात्रं तु कर्तरि णिनेर् विधानात् ॥ इति ।"अमुक्ता" इत्य् अत्र तु क्रिययैव सम्बन्ध इति दोष एव ।एते च क्लिष्टादयः समासगता एव पददोषाः ।वाक्ये दुःश्रवत्वम् आद्यं, यथा—स्मरार्त्यन्धः कदा लप्स्ये कार्तार्थ्यं हरिसङ्गमात् । स्पष्टम् ।अश्लीलत्वम्, यथा—कृतप्रवृत्तयोऽन्यार्थे कवयः कंसभूपतेः ।सभायां भुञ्जते वान्तं निर्लज्जस्य गतत्रपाः ॥अत्र प्रवृत्तिवान्तशब्दौ जुगुप्साव्यञ्जकौ ।नेयार्थत्वम्, यथा—सन्ध्यायाः दधुर् आभीर्यः पद्मलौहित्यभूषणम् ।अभिसर्तुं किन्तु तासां वक्त्राश् चक्रुस् तुलां क्रुधा ॥अत्र पद्मलौहित्यवक्राशब्दौ न पद्मरागवामावाचकौ ।क्लिष्टत्वम्, यथा—केशव केशगवेशे प्रेक्ष्य न कस्याः कुरङ्गशावाक्ष्याः ।रज्यत्य् अपूर्वबन्धव्युत्पत्तेर् मानसं शोभाम् ॥अत्र केशवकेशगशोभां प्रेक्ष्येत्य् आदिकः सम्बन्धः क्लिष्टः ।अविमृष्टविधेयांशत्वम्, यथा—"न्यक्कारो ह्य् अयम् एव यद् अरयः” इति । अत्रायम् एव न्यक्कार इति न्यक्कारस्य विधेयत्वं विवक्षितम् । तच् च शब्दरचनावैपरीत्येन गुणीभूतम् । रचना च पदद्वयस्यापि विपरीततेति वाक्यदोष एव ।“आनन्दयति ते नेत्रे योऽसौ सुभ्रु समागतः ।” इत्य् आदिषु, “यत्तदोर् नित्यसम्बन्धः” इति न्यायाद् उपक्रान्तस्य यच्छब्दस्य निराकाङ्क्षत्वप्रतिपत्तये तच्छब्दसमानार्थतया प्रतिपद्यमाना इदमेतददःशब्दा विधेया एव भवितुं युक्ताः । अत्र तु यच्छब्दनिकटतस्थतया अनुवाद्यत्वप्रतीतिकृत् । तच्छब्दस्यापि यच्छब्दनिकटस्थितस्य प्रसिद्धपरामर्शित्वमात्रम् । यथा—“यः स ते नयनानन्दकरः सुभ्रु स आगतः ।”यच्छब्दव्यवधानेन स्थितास् तु निराकङ्क्षत्वम् अवगमयन्ति । यथा—“आनन्दयति ते नेत्रे योऽधुनासौ समागतः ।”एवम् इदमादिशब्दोपादानेऽपि । यत्र च यत्तदोर् एकस्यार्थत्वं सम्भवति । तत्रैकस्यापादानेऽपि निराकाङ्क्षत्वप्रतीतिर् इति न क्षतिः । तथा हि, यच्छब्दस्योत्तरवाक्यगतत्वेनोपादाने सामर्थ्यात् पूर्ववाक्ये तच्छब्दस्यार्थत्वम् । यथा—“आत्मा जानाति यत् पापम् ।”एवं—यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।भास्वन्ति रत्नानि महौषधींश् च …इत्य् आदाव् अपि । तच्छब्दस्य प्रकान्तप्रसिद्धानुभूतार्थत्वे यच्छब्दस्यार्थत्वम् । क्रमेण, यथा—स हत्वा बालिनं वीरस् तत्पदे चिरकाङ्क्षिते ।धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥स वः शशिकलामौलिस् तादात्म्यायोपकल्पताम् ।ताम् इन्दुसुन्दरमुखीं हृदि चिन्तयामि ।यत्र च यच्छब्दनिकटस्थितानाम् अपीदम् आदिशब्दानां भिन्नलिङ्गविभक्तित्वम् । तत्रापि निराकाङ्क्षत्वम् एव । क्रमेण यथा—विभाति राधिका येदं परमं कृष्णभूषणम् ।हरिः क्रीडति यस् तेन नन्दितं नन्दगोकुलम् ॥क्वचिद् अनुपादानात् तयोर् द्वयोर् अप्य् अर्थत्वं, यथा—न मे शमयिता कोऽपि भारस्येत्य् ऊर्वि मा शुचः ।नन्दस्य भवने कोऽपि बालोऽस्त्य् अद्भुतपौरुषः ॥अत्र योऽस्ति स भारस्य शमयितेति बुध्यते । किं च—यां यां प्रियः प्रैक्षत कातराक्षींसा सा क्रिया नम्रमुखी बभूव । इति माघकाव्ये ।यत् यत् पापं प्रतिजहि जनान् नाथ नम्रस्य तन् मे इति तु मालतीमाधवे । तद् इदं द्वयं विविच्यते—यां याम् इत्य् आदौ यच्छब्दद्वये साकाङ्क्षे । शाब्दी ह्य् आकाङ्क्षा शब्देनैव प्रपूर्यते इति न्यायेन सा सेति यद् उक्तं तद् युक्तम् एव । यद् यत् पापम् इत्य् आदौ यद् यद् इत्य् अनेन विशेषान् निर्दिश्य तद् इत्य् अनेन सामान्यं प्रतिनिर्दिष्टम् । तच् च जातिः । सा च विशेषरूपासु व्यक्तिषु पुनः पर्यवसायितव्येति नेयतया कष्टं स्यात् । तच् च तच् च तद् इत्य् एकशेषेऽपि प्रतिपत्तिगौरवं स्यात् । ततः साध्व् एव भागवतगीतं—यद् यद् विभूतिमत् सत्त्वं श्रीमद् ऊर्जितम् एव वा ।तत् तद् एवावगच्छ त्वं ममतेजोंशसम्भवम् ॥एवम् अन्येषाम् अपि वाक्यगतत्वेनोदाहरणं मन्तव्यम् ।पदांशे श्रुतिकटुत्वम्, यथा—“तद् गच्छ सिद्ध्यै कुरु देवकार्यम् ।” एवं “अलं सन्ति चपलत्वात् स्वप्नमायोपमत्वाद्” इत्य् अत्र “त्वाद्” इति ।किं च, “धातुमत्तां गिरिर् धत्ते पश्य गोपालनायक ।” अत्र मत्ताशब्दः क्षीबवाचकताप्रसिद्ध्या निहतार्थः ।“कृष्णः किं वर्णनीयः स्याद् विजेयो यस्य शङ्करः ।” अत्र विजेय इति कृत्यप्रत्ययार्थोऽयम् अवाचकः । येन विजित इत्य् एव वक्तव्यम् ।“कृष्णेन निहताः शूरा वचोबाणत्वम् आगताः ।” अत्र गीर्वाणप्रतिपादनीयवचः शब्दस्य गीः शब्दवाचकत्वे नेयार्थत्वम् । तथात्रैव “गीःशरत्वम्” इति पाठे तद्वत् । तस्माद् अत्र पदद्वयम् अपि न परिवृत्तिसहम् । जलध्यादौ तूत्तरपदं बडवानलादौ पूर्वपदम् ।एवम् अन्येऽपि यथासम्भवं पदांशदोषा ज्ञेयाः । निरर्थकत्वादीनां त्रयाणां च पदमात्रगतत्वेनैव लक्ष्ये सम्भवः ।क्रमेण, यथा—निरर्थकत्वदोषः । “मुञ्च मानं हि मानिनि ।” अत्र हिशब्दो वृत्तपूरणमात्रप्रयोजनः ।असमर्थत्वदोषः । “कुञ्जं हन्ति कृशोदरी ।” अत्र हन्तीति गमनार्थे पठितम् अपि न तत्र समर्थम् ।च्युतसंस्कृतित्वत्दोषः । “गाण्डीवी कनकशिलानिभं भुजाभ्याम् आजघ्ने विषमविलोचनस्य वक्षः ।” “आङो यमहनः” , “स्वाङ्गकर्मकाच् च” इत्य् अनुशासनबलाद् आङ्पूर्वस्य हन् स्वाङ्गकर्मकस्यैवात्मनेपदं नियमितम् । इह तु तदुल्लङ्घितम् इति संस्कृतव्याकरणलक्षणहीनत्वाच् च्युतसंस्कारत्वम् ।नन्व् अत्र “आजघ्ने” इति पदस्य न स्वतो दुष्टता, अपि तु पदान्तरापेक्षयैवेत्य् अस्य वाक्यदोषता । मैवम् । तथा हि गुणदोषालङ्काराणां शब्दार्थगतत्वेन व्यवस्थितिः । तदन्वयव्यतिरेकानुविधायित्वं हेतुः । इह तु दोषस्याजघ्ने इति पदमात्रान्वयव्यतिरेकानुविधायित्वम् । पदान्तरपरिवर्तनेऽपि तस्य तादवस्थ्याद् इति पददोष एव । यथात्मनेपदपरिवृत्ताव् अपि न पददोषस् तथा हनप्रकृतेर् अपीति न पदांशदोषः । एवं पद्म इत्य् अत्राप्रयुक्तस्य पदगतत्वं बोद्धव्यम् । एवं प्राकृतव्याकरणलक्षणहानाव् अपि च्युतसंस्कारत्वम् ऊह्यम् ।इह शब्दानां सर्वथा प्रयोगाभावे त्व् असमर्थत्वं, विरलप्रयोगे निहतार्थत्वम् अनेकार्थशब्दविषयम् । अप्रतीतत्वं तु एकार्थस्यापि शब्दस्य सार्वत्रिकप्रयोगविरहः । अप्रयुक्तत्वम् एकार्थशब्दविषयम् । असमर्थत्वम् अनेकार्थशब्दविषयम् । असमर्थत्वे हन्त्यादयो गमनार्थे पठिताः । अवाचकत्वे तु दिनादयः शब्दाः प्रकाशमयाद्यर्थे तु न तथेति परस्परभेदः ।एवं पददोषसजातीयवाक्यदोषा उक्ताः । सम्प्रति तद्विजातीया उच्यन्ते ।
kecid doṣā bhavanty eṣu padāṁśe’pi pade’paraṁnirarthakāsamarthatve cyuta-saṁskāratā tathā ||5||paruṣa-varṇatayā śruti-duḥkhāvahatvaṁ duḥśravatvaṁ, yathā—"kārtārthyaṁ prāpa kaṁsāriḥ kaṁse maraṇam āpite |"aślīlaṁ, vrīḍā-jugupsāmaṅgala-vyañjakatvāt tridhā—krameṇa, yathā—daitya-strī-garbha-nāśāya tad idaṁ sādhanaṁ mahat |prasasāra śanair vāyuḥ sabhāyāṁ kaṁsa-bhūpateḥ ||rātrau rātrau vinaṣṭe tvayi kaṁse suhṛdi naṣṭa-dṛṣṭi syāt |eṣu sādhana-vāyu-vinaṣṭa-śabdā aślīlāḥ |"kuru-vīrā divyaṁ yātāḥ paśu-bhūtā raṇādhvare ||" atra paśu-padaṁ kātaryam abhivyanaktīti anucitārthatvam |aprayuktatvaṁ prasiddhāv api kavibhir anādṛtatvaṁ, tad yathā—"bhāti padmaḥ sūrya-putryām" | atra puṁ-liṅgaḥ padma-śabdo’prayuktaḥ | evaṁ duścyavana-śabdaḥ svata evāprayukto jñeyaḥ |grāmyatvaṁ, yathā—"kaṁse mṛte kaṭis tasya strīṇāṁ stabdhā gatiṁ prati |" atra kaṭi-śabdo grāmyaḥ |apratītatvam eka-darśana-mātra-prasiddhatvaṁ, yathā—"hari-bhaktyā dhūtāśayaḥ |" atra yoga-śāstre eva vāsanārtha āśaya-śabdaḥ |"āśiṣaṁ he hare vandyāṁ karṇe kṛtvā kṛpāṁ kuru |" atra vandyām iti kiṁ vandībhūtāyām uta vandanīyām iti sandehaḥ |neyārthatvaṁ rūḍhi-prayojanābhāvād aśakti-kṛtaṁ lakṣya-prakāśanam, yathā—"kamale caraṇāghātaṁ cakratuś caraṇau hareḥ |" atra caraṇāghātena nirjitatvaṁ lakṣyam |nihatārthatvam ubhayārthasyāprasiddhe’rthe prayogaḥ | yathā—"kaṁsaṁ mṛtaṁ jaghnur amuṣya bhāryāḥ |" "hastir" atra ghāte prasiddha iti gatau nihatārthaḥ | "yamunā śambaram ambaraṁ vyatānīd" ity atra yamunā-padānvitatvāc chambara-śabdā dānava-viśeṣārthatvam apy atikrāmet |"govinde mana ādatte" | āṅ-pūrvo dāñ-dhātur dānārthe’vācakaḥ | "dhvānta-cchannāpi rātrīyaṁ kṛṣṇa-dhyātur dinaṁ matam" ity atra tu prakāśātiśayamayatā-vyañjanā prayojanavatyā lakṣaṇayā sambhavaty api gorvāhīkavat |kliṣṭatvam artha-pratīter vyavahitatvam | yathā—"kṣīrodajā-vasati-janma-bhuvaḥ prasannāḥ |" atra kṣīrodajā lakṣmīḥ, tasyā vasatiḥ padmam, tasya janma-bhuvo jalānīti vyavahitiḥ |"vande sītā-pati-priyām" | atra sītā-pati-śabdo’yam eka-pati-vratadharasya śrī-rāmasya priyāntara-vyañjakatayā viruddha-mati-kṛt |avimṛṣṭaḥ prādhānyenānirdiṣṭo vidheyāṁśo yatra tad avimṛṣṭa-vidheyāṁśam āha—"svarga-grāmaṭikā-viluṇṭhana-vṛthocchūnaiḥ kim ebhir bhujaiḥ |" atra svarga-grāmaṭikā-viluṇṭhanenāpi vṛthevocchūnair iti vācyam | vṛthātvaṁ hi vidheyam | tac ca samāse guṇībhūtatvād anuvāda-pratīti-kṛt |yathā vā—"rakṣāṁsy api puraḥ sthātum alaṁ rāmānujasya me |" ity atra cāstu tāvat rāmasya vārtā, tam anujātasyāpi mameti vācyam |kaṭākṣaḥ patati śrīśa yasyāṁ yasyāṁ tavātra sā |taṁ mene pañca-bāṇasya ṣaṣṭha-bāṇam ivācyuta ||atra bāṇaṁ ṣaṣṭham ivety utprekṣyam | yathā vā—ānanda-sindhur aticāpala-śāli cittaṁsandānanaika-sadanaṁ kṣaṇam apy amuktā |yā yādavendra bhavatā tad-udanta-cintātāntiṁ tanoti samprati dhig dhig asmān ||atrāmuktety atra "nañaḥ prasahya-pratiṣedhatvam" iti vidheyatvam evocitam | yad uktam—aprādhānyaṁ vidher yatra pratiṣedhe pradhānatā |prasahya-pratiṣedho’sau kriyayā saha yatra nañ ||yathā—vidyuttvānayam ābhāti na tu pītāmbaraḥ svayam |uktodāharaṇe tu tat-puruṣa-samāse guṇībhāvān nañaḥ paryudāsatayā niṣedhasya vidheyatayānavagamaḥ | yad āhuḥ—pradhānatvaṁ vidher yatra pratiṣedhe’pradhānatā |paryudāsaḥ sa vijñeyo yatrottara-padena nañ ||tena tu—"jugopātmānam atrasto bheje kṛṣṇam anāturaḥ |" atrātrastatvād yam anūdyam ātma-gopanādyam eva vidheyam iti nañaḥ paryudāsatayā guṇī-bhāvo yuktaḥ |nanu, "aśrāddha-bhojī" "asūryampaśyā rāja-dārā" ity ādāv ivāmuktety atrāpi prasahya-pratiṣedho bhaviṣyatīti cet, na | tatrāpi yadi bhojanādi-kriyāṁśena nañaḥ sambandhaḥ syāt, tadaiva tatra prasahya-pratiṣedhatvaṁ vaktuṁ śakyam | na ca tathā | viśeṣatayā pradhānena tato’tyarthena kartr-aṁśenaiva sambandhāt | yad āhuḥ—śrāddha-bhojana-śīlo hy atra kartā pratīyate |na tad-bhojana-mātraṁ tu kartari ṇiner vidhānāt || iti |"amuktā" ity atra tu kriyayaiva sambandha iti doṣa eva |ete ca kliṣṭādayaḥ samāsa-gatā eva pada-doṣāḥ |vākye duḥśravatvam ādyaṁ, yathā—smarārty-andhaḥ kadā lapsye kārtārthyaṁ hari-saṅgamāt | spaṣṭam |aślīlatvam, yathā—kṛta-pravṛttayo’nyārthe kavayaḥ kaṁsa-bhūpateḥ |sabhāyāṁ bhuñjate vāntaṁ nirlajjasya gata-trapāḥ ||atra pravṛttivānta-śabdau jugupsā-vyañjakau |neyārthatvam, yathā—sandhyāyāḥ dadhur ābhīryaḥ padma-lauhitya-bhūṣaṇam |abhisartuṁ kintu tāsāṁ vaktrāś cakrus tulāṁ krudhā ||atra padma-lauhitya-vakrā-śabdau na padma-rāga-vāmā-vācakau |kliṣṭatvam, yathā—keśava keśaga-veśe prekṣya na kasyāḥ kuraṅga-śāvākṣyāḥ |rajyaty apūrva-bandha-vyutpatter mānasaṁ śobhām ||atra keśava-keśaga-śobhāṁ prekṣyety ādikaḥ sambandhaḥ kliṣṭaḥ |avimṛṣṭa-vidheyāṁśatvam, yathā—"nyakkāro hy ayam eva yad arayaḥ” iti | atrāyam eva nyakkāra iti nyakkārasya vidheyatvaṁ vivakṣitam | tac ca śabda-racanā-vaiparītyena guṇībhūtam | racanā ca pada-dvayasyāpi viparītateti vākya-doṣa eva |“ānandayati te netre yo’sau subhru samāgataḥ |” ity ādiṣu, “yat-tador nitya-sambandhaḥ” iti nyāyād upakrāntasya yac-chabdasya nirākāṅkṣatva-pratipattaye tac-chabda-samānārthatayā pratipadyamānā idam-etad-adaḥ-śabdā vidheyā eva bhavituṁ yuktāḥ | atra tu yac-chabda-nikaṭatasthatayā anuvādyatva-pratīti-kṛt | tac-chabdasyāpi yac-chabda-nikaṭa-sthitasya prasiddha-parāmarśitva-mātram | yathā—“yaḥ sa te nayanānanda-karaḥ subhru sa āgataḥ |”yac-chabda-vyavadhānena sthitās tu nirākaṅkṣatvam avagamayanti | yathā—“ānandayati te netre yo’dhunāsau samāgataḥ |”evam idam-ādi-śabdopādāne’pi | yatra ca yat-tador ekasyārthatvaṁ sambhavati | tatraikasyāpādāne’pi nirākāṅkṣatva-pratītir iti na kṣatiḥ | tathā hi, yac-chabdasyottara-vākya-gatatvenopādāne sāmarthyāt pūrva-vākye tac-chabdasyārthatvam | yathā—“ātmā jānāti yat pāpam |”evaṁ—yaṁ sarva-śailāḥ parikalpya vatsaṁ merau sthite dogdhari doha-dakṣe |bhāsvanti ratnāni mahauṣadhīṁś ca …ity ādāv api | tac-chabdasya prakānta-prasiddhānubhūtārthatve yac-chabdasyārthatvam | krameṇa, yathā—sa hatvā bālinaṁ vīras tat-pade cira-kāṅkṣite |dhātoḥ sthāna ivādeśaṁ sugrīvaṁ saṁnyaveśayat ||sa vaḥ śaśikalā-maulis tādātmyāyopakalpatām |tām indu-sundara-mukhīṁ hṛdi cintayāmi |yatra ca yac-chabda-nikaṭa-sthitānām apīdam ādi-śabdānāṁ bhinna-liṅga-vibhaktitvam | tatrāpi nirākāṅkṣatvam eva | krameṇa yathā—vibhāti rādhikā yedaṁ paramaṁ kṛṣṇa-bhūṣaṇam |hariḥ krīḍati yas tena nanditaṁ nanda-gokulam ||kvacid anupādānāt tayor dvayor apy arthatvaṁ, yathā—na me śamayitā ko’pi bhārasyety ūrvi mā śucaḥ |nandasya bhavane ko’pi bālo’sty adbhuta-pauruṣaḥ ||atra yo’sti sa bhārasya śamayiteti budhyate | kiṁ ca—yāṁ yāṁ priyaḥ praikṣata kātarākṣīṁsā sā kriyā namra-mukhī babhūva | iti māgha-kāvye |yat yat pāpaṁ pratijahi janān nātha namrasya tan me iti tu mālatī-mādhave | tad idaṁ dvayaṁ vivicyate—yāṁ yām ity ādau yac-chabda-dvaye sākāṅkṣe | śābdī hy ākāṅkṣā śabdenaiva prapūryate iti nyāyena sā seti yad uktaṁ tad yuktam eva | yad yat pāpam ity ādau yad yad ity anena viśeṣān nirdiśya tad ity anena sāmānyaṁ pratinirdiṣṭam | tac ca jātiḥ | sā ca viśeṣa-rūpāsu vyaktiṣu punaḥ paryavasāyitavyeti neyatayā kaṣṭaṁ syāt | tac ca tac ca tad ity eka-śeṣe’pi pratipatti-gauravaṁ syāt | tataḥ sādhv eva bhāgavata-gītaṁ—yad yad vibhūtimat sattvaṁ śrīmad ūrjitam eva vā |tat tad evāvagaccha tvaṁ mama-tejoṁśa-sambhavam ||evam anyeṣām api vākya-gatatvenodāharaṇaṁ mantavyam |padāṁśe śruti-kaṭutvam, yathā—“tad gaccha siddhyai kuru deva-kāryam |” evaṁ “alaṁ santi capalatvāt svapna-māyopamatvād” ity atra “tvād” iti |kiṁ ca, “dhātu-mattāṁ girir dhatte paśya gopāla-nāyaka |” atra mattā-śabdaḥ kṣība-vācakatā-prasiddhyā nihatārthaḥ |“kṛṣṇaḥ kiṁ varṇanīyaḥ syād vijeyo yasya śaṅkaraḥ |” atra vijeya iti kṛtya-pratyayārtho’yam avācakaḥ | yena vijita ity eva vaktavyam |“kṛṣṇena nihatāḥ śūrā vaco-bāṇatvam āgatāḥ |” atra gīrvāṇa-pratipādanīya-vacaḥ śabdasya gīḥ śabda-vācakatve neyārthatvam | tathātraiva “gīḥ-śaratvam” iti pāṭhe tadvat | tasmād atra pada-dvayam api na parivṛtti-saham | jaladhy-ādau tūttara-padaṁ baḍavānalādau pūrva-padam |evam anye’pi yathā-sambhavaṁ padāṁśa-doṣā jñeyāḥ | nirarthakatvādīnāṁ trayāṇāṁ ca pada-mātra-gatatvenaiva lakṣye sambhavaḥ |krameṇa, yathā—nirarthakatva-doṣaḥ | “muñca mānaṁ hi mānini |” atra hi-śabdo vṛtta-pūraṇa-mātra-prayojanaḥ |asamarthatva-doṣaḥ | “kuñjaṁ hanti kṛśodarī |” atra hantīti gamanārthe paṭhitam api na tatra samartham |cyuta-saṁskṛtitvat-doṣaḥ | “gāṇḍīvī kanaka-śilā-nibhaṁ bhujābhyām ājaghne viṣama-vilocanasya vakṣaḥ |” “āṅo yama-hanaḥ” , “svāṅga-karmakāc ca” ity anuśāsana-balād āṅ-pūrvasya han svāṅga-karmakasyaivātmanepadaṁ niyamitam | iha tu tad-ullaṅghitam iti saṁskṛta-vyākaraṇa-lakṣaṇa-hīnatvāc cyuta-saṁskāratvam |nanv atra “ājaghne” iti padasya na svato duṣṭatā, api tu padāntarāpekṣayaivety asya vākya-doṣatā | maivam | tathā hi guṇa-doṣālaṅkārāṇāṁ śabdārtha-gatatvena vyavasthitiḥ | tad-anvaya-vyatirekānuvidhāyitvaṁ hetuḥ | iha tu doṣasyājaghne iti pada-mātrānvaya-vyatirekānuvidhāyitvam | padāntara-parivartane'pi tasya tādavasthyād iti pada-doṣa eva | yathātmanepada-parivṛttāv api na pada-doṣas tathā hana-prakṛter apīti na padāṁśa-doṣaḥ | evaṁ padma ity atrāprayuktasya pada-gatatvaṁ boddhavyam | evaṁ prākṛta-vyākaraṇa-lakṣaṇa-hānāv api cyuta-saṁskāratvam ūhyam |iha śabdānāṁ sarvathā prayogābhāve tv asamarthatvaṁ, virala-prayoge nihatārthatvam anekārtha-śabda-viṣayam | apratītatvaṁ tu ekārthasyāpi śabdasya sārvatrika-prayoga-virahaḥ | aprayuktatvam ekārtha-śabda-viṣayam | asamarthatvam anekārtha-śabda-viṣayam | asamarthatve hanty-ādayo gamanārthe paṭhitāḥ | avācakatve tu dinādayaḥ śabdāḥ prakāśamayādy-arthe tu na tatheti paraspara-bhedaḥ |evaṁ pada-doṣa-sajātīya-vākya-doṣā uktāḥ | samprati tad-vijātīyā ucyante |
未能识别诗律
Некоторые из них бывают и в части слова; а в одном лишь слове — другие: бессмысленность, несостоятельность и грамматическая неправильность. Неблагозвучие — когда слово режет слух жёсткими звуками, например: «картартхйам прапа камсарих камсе маранам апите» — «Враг Камсы достиг цели, когда Камсу предали смерти». Непристойность трояка — она внушает стыд, отвращение или дурное предзнаменование. По порядку, например: «Вот великое средство для гибели плода у жён демонов», «медленно разнёсся ветер в собрании царя Камсы», «ночь за ночью, когда твой друг Камса погиб, пропадёт зрение». Здесь непристойны слова «средство», «ветер» и «погиб». «Герои Куру ушли на небо, став скотом на жертвоприношении битвы» — здесь слово «скот» выдаёт трусость: это неуместный смысл. Неупотребительность — когда слово, хоть и правильное, поэты не употребляют, например: «Сияет лотос в дочери Солнца», где «падма» поставлено в мужском роде; так же и слово «дучьявана» — само по себе неупотребительное. Грубость — например: «Когда Камса умер, у его женщин поясница окаменела»; здесь грубо слово «поясница». Непонятность — когда слово известно лишь в одном учении, например: «Очищенный преданностью Хари в ашае»; здесь «ашая» в смысле «отпечатки впечатлений» известна лишь в йоге. «Хари, прими к сердцу „вандьям“ мольбу и смилуйся» — здесь «вандьям» значит «пленённую» или «достойную почитания»? — двусмысленность. Натянутый смысл — когда без обычая и без цели, по бессилию, указывают на смысл, например: «Стопы Хари нанесли удар ногой лотосам» — здесь указывается, что лотосы побеждены. Убитый смысл — когда многозначное слово употреблено в редком значении, например: «Жёны убили мёртвого Камсу» — «хан» известно как «убивать», а в значении «идти» его смысл убит. В «Ямуна раскинула шамбару-небо» слово «шамбара» из-за соседства с Ямуной может уйти в значение имени демона. «Говинде ум приносит» — корень «да» с приставкой «а» не выражает значения «давать»: невыразительность. А в «эта ночь, хоть и окутана тьмой, для думающего о Кришне — день» подразумевание преизбытка света возможно через указание с целью, как в «деревенщина — бык». Вымученность — когда постижение смысла идёт окольно, например: «ясные родины обители Рождённой из Молочного океана»: Рождённая из Молочного — Лакшми, её обитель — лотос, его родина — воды; путь окольный. «Чту милую Супруга Ситы» — здесь слово «Супруг Ситы», говоря о другой милой у Шри Рамы, давшего обет единобрачия, внушает противный смысл. Невыделенность утверждаемого — когда то, что утверждается, не выставлено главным: «что толку от этих рук, напрасно раздувшихся от грабежа деревушки-неба?» Здесь надо было сказать: «раздувшихся напрасно, хоть и от грабежа деревушки-неба», ведь утверждается именно «напрасность», а в сложном слове она стала второстепенной и воспринимается как уже известное. Или: «Даже ракшасы не устоят передо мной, младшим братом Рамы» — здесь надо было сказать: «что уж о Раме — даже передо мной, рождённым после него». «Шриша, какая бы из женщин ни попалась под Твой взгляд, та считала его шестой стрелой Пятистрельного, Ачьюта» — здесь воображаемое — «будто шестая стрела». Или: «Сердце, океан блаженства, очень беспокойное, не оставляемое ни на миг, единственная обитель связи… та дума о вестях о Тебе, Ядавендра, томит нас теперь — позор нам!» Здесь в «не оставляемое» подобало бы утверждать — по правилу «частица „не“ — сильное отрицание». Как сказано: «Где предписание второстепенно, а отрицание главное и „не“ стоит при глаголе, — это сильное отрицание». Например: «Это сияет молния, а не Сам Носящий жёлтое». А в приведённом примере, так как в сложении «не» второстепенно, как исключающее, отрицание не воспринимается утверждаемым. Как говорят: «Где предписание главное, а отрицание второстепенное и „не“ связано со вторым словом, это исключение». Поэтому в «он укрыл себя без страха, прибегнул к Кришне без тревоги» — раз бесстрашие лишь повторяется как известное, утверждается укрытие себя и прочее, и второстепенность «не» как исключающего уместна. — Но ведь, как в «не едящий на поминках» или «царские жёны, не видящие солнца», и в «не оставляемое» будет сильное отрицание? — Нет. И там сильным отрицание можно назвать, лишь если «не» связано с действием — едой и прочим. А это не так: оно связано с главным в определении — с деятелем. Как говорят: «Здесь постигается деятель, привыкший есть на поминках, а не просто еда: суффикс „ини“ предписан для деятеля». А в «не оставляемое» связь с действием, и это порок. Вымученность и прочие из этих — пороки слова лишь в сложении. В высказывании неблагозвучие, например: «Слепой от муки любви, когда достигну я цели во встрече с Хари?» — ясно. Непристойность, например: «Поэты, пустившиеся на чужое дело, в собрании бесстыдного царя Камсы бесстыдно едят изрыгнутое» — слова «пустившиеся» и «изрыгнутое» внушают отвращение. Натянутый смысл — например: «Пастушки надели вечерний убор из алых лотосов, чтобы идти на свидание, но их лица в гневе стали „кривыми“» — слова «алость лотоса» и «кривые» не выражают «рубина» и «строптивых». Вымученность — например: «Кешава, у какой ланеокой, увидев в уборе волос небывалое искусство связи, сердце не прильнёт к красоте?» — связь «увидев красоту в уборе волос Кешавы» вымучена. Невыделенность утверждаемого — например: «Позор мне уже в том, что у меня есть враги» — здесь задумано утверждать «позор» — «именно это позор», а обратный порядок слов сделал его второстепенным; и так как порядок нарушен в обоих словах, это порок высказывания. В таких, как «Он радует твои глаза — тот, прекрасноглазая, пришёл», по правилу «„который“ и „тот“ всегда связаны» слова «этот», «тот», «оный», стоящие вместо «тот», чтобы начатое «который» не осталось без ответа, должны быть утверждаемыми. А здесь, стоя рядом с «который», они кажутся лишь повторением известного. И «тот» рядом с «который» лишь отсылает к известному, например: «Тот, кто радует твои глаза, прекрасноглазая, — он пришёл». Если же они отделены от «который», то ответ завершён, например: «Радует твои глаза тот, кто теперь пришёл». Так же и при словах «этот» и прочих. А где смысл «который» или «тот» ясен сам, там и одно из них завершает высказывание, и вреда нет. Ведь если «который» стоит во втором предложении, «тот» в первом подразумевается силой смысла, например: «Душа знает, какой грех…». Так и в стихе «Которого все горы сделали телёнком, когда Меру доила…». Если «тот» относится к начатому, известному или пережитому, подразумевается «который». По порядку, например: «Тот герой, убив Валина, на его месте, давно желанном, посадил Сугриву, как замену корня». «Тот, с серпом луны на голове, да будет вам в единение». «Её, прекрасноликую, как луна, я храню в сердце». А где «этот» и прочие рядом с «который» стоят в ином роде или падеже, там тоже ответ завершён. По порядку, например: «Сияет Радхика — та, что есть высшее украшение Кришны». «Хари играет — и тем радуется Гокула Нанды». Иногда оба не названы, но смысл обоих есть, например: «„Нет никого, кто облегчил бы мою ношу“, — не горюй так, Земля: в доме Нанды есть мальчик дивной силы». Здесь понимается: «кто есть — тот и облегчит ношу». И ещё: в поэме Магхи — «На какую робкоглазую ни взглядывал милый, та та опускала лицо», а в «Малати-Мадхаве» — «Какой ни какой грех — отведи его, владыка, от меня, склонившегося». Разберём их. В «на какую ни…» два «который» ждут ответа, и по правилу «словесное ожидание восполняется только словом» сказанное «та та» — правильно. А в «какой ни какой грех» словами «какой ни какой» названы частные случаи, а словом «его» — общее, то есть род; а род потом снова надо относить к частным — натянуто и трудно. А если сказать «его и его» — понимание отяжелеет. Поэтому прекрасно сказано в песне Бхагавана: «Всё, что исполнено величия, красоты или мощи, — знай, всё то рождено из доли Моего сияния». Так же и для других пороков надо находить примеры в высказывании. В части слова неблагозвучие — например, «тад гаччха сиддхйаи куру дева-карйам»; так же в «аламсанти чапалатват свапна-майопаматвад» — окончание «-твад». Далее: «Гора несёт „дхату-матта“, взгляни, Вождь пастухов» — здесь «матта» известно как «пьяный», и смысл убит. «Каков же Кришна, если побеждённый Им — Шанкара?» — «виджея» с суффиксом долженствования невыразительно: надо было сказать «побеждённый». «Сражённые Кришной герои стали „вачо-бана“» — если «гирвана», богов, передавать словом «вачах», «речь», вместо «гих», смысл натянут; так же и при чтении «гих-шара». Потому здесь ни одно из двух слов не терпит замены; а в «джаладхи» и прочих — терпит второе, в «вадаванала» и прочих — первое. Так же, по возможности, надо распознавать и прочие пороки части слова. А бессмысленность и два других встречаются лишь в слове. По порядку, например. Бессмысленность: «Оставь же гордость, гордая» — частица «хи», «же», лишь заполняет размер. Несостоятельность: «Тонкостанная „убивает“ беседку» — «хан» числится и в значении «идти», но в нём не употребляется. Неправильность: «Носитель Гандивы обеими руками ударил в грудь Трёхглазого, подобную золотой скале» — по правилам «а с ям и хан» и «при своей части тела как объекте» средний залог корня «хан» с приставкой «а» ограничен случаем, когда объект — часть собственного тела; здесь это нарушено, и, так как нарушены правила санскритской грамматики, это неправильность. — Но ведь «аджагхне» порочно не само по себе, а по отношению к другому слову, значит, это порок высказывания? — Нет. Достоинства, пороки и украшения распределяются по словам и смыслам, и основание — в том, от чего они зависят, присутствуя и отсутствуя. Здесь порок следует за одним словом «аджагхне»: замени другие слова — он останется. Значит, это порок слова. А так как при замене залога порок исчезает вместе со словом, как и при замене корня «хан», это не порок части слова. Так же неупотребительность в «падма» — порок слова. Так же неправильность надо видеть и при нарушении правил грамматики пракрита. Далее: когда слово вовсе не употребляется — это несостоятельность; при редком употреблении — убитый смысл, у многозначного слова. Непонятность — когда и однозначное слово не употребляется повсюду. Неупотребительность касается однозначных слов, несостоятельность — многозначных: при несостоятельности «хан» и прочие числятся в значении «идти», а при невыразительности слова «день» и прочие не значат «исполненный света», — в этом их различие. Так сказано о пороках высказывания, однородных с пороками слова. Теперь говорится о разнородных.
1384f431d836 · 发布于 2026年9月24日 12:40:03 UTC
可用语言RU用方向键翻颂
Глава о пороках — самая «ремесленная» в книге, и всё же почти все её примеры взяты из мира Кришны: поэт, неосторожно выбравший слово, делает смешным или неприличным то, что должно было трогать. Разбор «который — тот» и отрицания «не» — тонкости санскритского синтаксиса, передать которые по-русски можно лишь описательно. Показательно завершение: образцом правильной речи назван стих «Бхагавад-гиты» (10.41) — «всё, что исполнено величия, красоты или мощи, — знай, рождено из доли Моего сияния». Часть санскритских примеров о звуках и формах приведена в транслитерации, так как их порок — в самом звучании. Отдельные места объяснения в тексте повреждены; перевод их приблизителен.