奉爱甘露余篇
Prakāśa 5: On the Faults of Poetry5.9吉瓦·哥斯瓦米
195 / 253
Linux
翻页
奉爱甘露余篇 · 5.9
॥
天城文

त्यागः प्रसिद्धेर् अस्थाने न्यासः पदसमासयोः ।सङ्कीर्णता गर्भितता दोषाः स्युर् वाक्यमात्रगाः ॥9॥वर्णानां रसानुगुण्यविपरीतत्वं प्रतिकूलत्वं, यथा—कष्टं स्पष्टं सदाप्य् ओष्ठं स्वं दष्टं कुरुतेऽबला ।विष्टरश्रवसाविष्टा न या त्वत्प्रेष्ठतां गता ॥“गता निशा इमा राधे ।” अत्र लुप्ता विसर्गा ।आहता ओत्वं प्राप्ता विसर्गा यत्र । यथा—"धीरो वीरो नरो जिष्णुः ।"अधिकपदत्वम्“तथा विद्युते राधिका तत्र बिम्बतुल्यारुणाधरा ।” अत्र तुल्यपदम् अधिकम् ।"यदि मय्य् अर्पिता दृष्टिः किं न राधे तद् आरचि ।" अत्र त्वयेति न्यूनम् ।"रतिलीलाश्रमजेत्री मरुल्लीलेयम् अच्युत ।" अत्र लीलाशब्दः पुनरुक्तः ।हतवृत्तं लकणानुसरणेऽप्य् अश्रव्यम् । रसान् अनुगुणम् अप्राप्तगुरुलघुभावान्तलघु च । क्रमेण, यथा—"कृष्ण सततम् एतस्या हृदयं भिन्ते मनोभवः कुपितः ।" अत्र कृष्णम् एत्य् अत्र यतिदोषः ।"हरिम् अनुपरिहर मानिनि मानम् ।" इदं वृत्तं हास्यरसस्यैवानुकूलम् ।"विकसितसहकारसारहारिपरिमल एष हरे मधुर् विभाति ।" यत्पदान्ते लघोर् अपि गुरुभाव उक्तस्, तत् सर्वत्र द्वितीयचतुर्थपादं विषयम् । प्रथमतृतीयपदविषयं तु वसन्ततिलकादाव् एवेति । "प्रमुदितसौरभ एष हरे वसन्त” इति तु पाठो युक्तः ।अन्यास् ता गुणरत्नरोहणभुवो धन्या मृदन्यैव साजातो यत्र महाहरिन्मणितनुः सोऽयं महापुरुषः ।यत्तेजः पतिताः सुरारि निकरा बाढं सुरस्त्रीगणाधर्तुं न प्रभवन्त्य् अनुक्रमगतान्य् अस्त्राणि वस्त्राणि च ॥अत्र “वस्त्राणि च” इति श्लथत्वश्रुतिः । वस्त्राण्य् अपीति पाठे तु बन्धदार्ढ्यं स्यात् । इदम् अप्य् अप्राप्तगुरुलघुभावोऽन्तलघ्व् इति काव्यप्रकाशकारः ।प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छटः ।श्वासक्षिप्तकुलक्ष्माभृत् पातु वो नरकेशरी ॥अत्र क्रमेणानुप्रासप्रकर्षः पतितः ।"दलिते अम्बुजे एते अक्षिभ्यां सुरवैरिणः ।" एवंविधः सन्धिविश्लेषस्यासकृत् प्रयोग एव दोषः । अनुशासनम् उल्लङ्घ्य वृत्तभङ्गभयमात्रेण सन्धिविश्लेषस्य तु सकृद् अपि । यथा—"हरिर् वृन्दावने भाति इन्दिरावृन्दसङ्गतः ।""चुक्रोध स तदा कंसश् चलण्डामरचेष्टितः ।" अत्र सन्धौ जुगुप्साव्यञ्जितम् अश्लीलत्वम् ।"दैत्यजित्य् उदयत्य् उच्चैस् त्वयात्य् आर्तिः किम् इत्य् अभूत् ।" अत्र सन्धौ कष्टत्वम् ।अर्धान्तरैकपदताम् आह—इन्दुर् विभाति कर्पूरगौरैर् धवलयन् करैः ।जगन् मा कुरु तन्वङ्गि मानं काकूकरे हरौ ॥अत्र जगद् इति पदं प्रथमार्धे पठितुम् उचितम् ।नाशयन्तो घनध्वान्तं तापयन्तो वियोगिनीः ।विलसन्ति कराश् चान्द्राः पूरयन्तः स्मरं हरौ ॥अत्र तृतीयचरणे वाक्ये समाप्तेऽपि चतुर्थचरणे तद्विशेषणं पुनर् आत्तम् ।अभवन्मतसम्बन्धो, यथा—या जयश्रीर् मनोजस्य यया जगदलङ्कृतम् ।यामेणाक्षीं विना प्राणा विफला मे हरेः क्व सा ॥अत्र यच्छब्दनिर्दिष्टानां वाक्यानां परस्परनिरपेक्षात्वाद् एकान्तःपातिना त्व् एणाक्षीशब्देनान्येषां सम्बन्धः कवेर् अभिमतोऽपि नोपपद्यत एव । “यां विनाहं वृथा कृष्णः स्याम् एणाक्षी क्व स मम” इति तच्छब्दनिर्दिष्टवाक्यान्तःपाते तु सर्वैर् अपि यच्छब्दनिर्दिष्टवाक्यैः सम्बन्धो घटते ।यथा वा—ईक्षते यत् कटाक्षेण कृष्णस् तर्हि कुलस्त्रियः ।सर्वतृष्णां परित्यज्य तत्तृष्णाम् एव बिभ्रति ॥अत्र “यद्” इत्य् अनेन “तद्” इत्य् अस्य सम्बन्धो न घटते । ईक्षते चेद् इति तु पाठो युक्तः ।तथा—ज्योत्स्नाचयः पयःपूरस् तारकाः कैरवाणि च ।विधुस् तु व्योमकासारहंसः कृष्ण समीक्ष्यताम् ॥अत्र कासारशब्दस्य समासे गुणीभावान् न तदर्थस्य सर्वैः संयोगः तस्माद् व्योमकासार इति सप्तम्यन्तम् एव पदं वक्तव्यम् । विधेयाविमर्शे यद् एवाविमृष्टं तद् एव दुष्टम् । इह तु प्रधानस्य कासारपदार्थस्य प्राधान्येऽप्रतीतेः सर्वोऽपि पयःपूरादिपदार्थस् तदङ्गतया न प्रतीयते इति सर्ववाक्यार्थतिरोभाव इत्य् उभयोर् भेदः ।अक्रमता, यथा—हरिभक्तिः परं श्रेयः प्रवदन्तीति साधवः ।अत्र परामृश्यमानवाक्यानन्तरम् एव इतिशब्दप्रयोगो युक्तः । न तु प्रवदन्तीत्य् अनन्तरम् । एवं—द्वयं गतं सम्प्रति शोचनीयतांसमागमप्रार्थनया कपालिनः ।कला च सा कान्तिमती कलावतस्त्वम् अस्य लोकस्य च नेत्रकौमुदी ॥अत्र त्वम् इत्य् अनन्तरम् एव चकारो युक्तः ।अमतपरार्थता, यथा—राममन्मथशरेण ताडितादुःसहेन हृदये निशाचरी ।गन्धवद्रुधिरचन्दनोक्षिताजीवितेशवसतिं जगाम सा ॥अत्र शृङ्गाररसव्यञ्जको द्वितीयोऽर्थः गन्धवद् रुधिरेत्य् आदि सूचितबीभत्सरसविरुद्धत्वाद् अनिष्टम् ।वाच्यानभिधानं, यथा—"व्यतिक्रमलवं कं मे वीक्ष्य गोपि प्रकुप्यसि ।"अत्र व्यतिक्रमस्य लवम् अपीत्य् अपिर् अवश्यं वक्तव्यो नोक्तः । न्यूनपदत्वे वाचकपदस्यैव न्यूनता विवक्षिता । अपेस् तु द्योतकत्वान् न तथात्वम् इति भेदः ।अप्राकृतस्य चरितातिशयैश् च दृष्टैर्अत्यद्भुतैर् अपहृतस्य तथापि नास्था ।तत्रापहृतोऽस्मीति विधिर् वाच्यः । स च षष्ठ्या गुणीभूतः । तस्माद् अत्रैव न्यूनपदता वाच्यानभिधानयोर् भेदः स्पष्टः । अविमृष्टविधेयांशतावाच्यानभिधानयोर् विधेयस्यास्थानपतितत्वेन वाच्याभावेन भेदो ज्ञेयः । तत् तु विधेयम् अनूद्यापेक्षम् । वाच्यं तु स्वतन्त्रम् इति विधेयवाच्ययोर् भेदः ।भग्नप्रक्रमता, यथा—एवम् उक्तो मित्रवर्गै रावणः प्रत्यभाषत ।अत्र वचिना प्रक्रान्तप्रतिवचनम् अपि तेनैवोचितम् । तेन रावणः प्रत्यवोचतेति युक्तम् । एवं च सति न कथितपदत्वं दोषः । तस्योद्देश्य प्रतिनिर्देश्येतरविषयत्वात् । इह हि वचनप्रतिवचनयोर् उद्देश्यप्रतिनिर्देश्यत्वम् । यथा—उत्थन् हरिदिशि रागी गच्छन्न् अस्तं च रोचते रागी ।तां रुचिमदं तम् अन्तर्विभवं विघ्नं बिभर्ति मार्तण्डः ॥अत्र हि रागीत्य् अत्र पदान्तरेण यदि स एवार्थः प्रतिपाद्यते । तदान्योऽर्थ इव भासमानः प्रतीतिं स्थगयति ।यथा वा—ते हिमालयम् आमन्त्र्यपुनः प्रेक्ष्य च शूलिनम् ।सिद्धं चास्मै निवेद्यार्थंतद् विसृष्टाः खम् उद्ययुः ॥अत्र “अस्मै” इतीदमा प्रक्रान्तस्य तेनैव तत्समानाभ्याम् एतद् अदःशब्दाभ्यां वा परामर्शो युक्तो, न तच्छब्देन ।यथा वा—“उदन्वच्छिन्ना भूर् व्यवहितिकरीत्य् आननशतपतिर् वाराम् आस्ते जनकदुहिता तत्परदिशि ।” अत्र “त्वयि प्रेमैव वाञ्छितम्” इति युक्तम् । अत्र आद्ययोः प्रकृतिविषयः प्रक्रमभेदः । तृतीये पर्यायविषयः । चतुर्थे प्रत्ययविषयः ।प्रसिद्धित्यागो, यथा—“मेघानां रववत् प्रोचे जरासन्धं मुरान्तकः ।” अत्र मेघानां गर्जितम् एव प्रसिद्धम् । यद् आहुः—मञ्जीरादिषु रणितप्रायं पक्षिषु कूजितप्रभृति ।स्वनितमणितादि सुरते मेघादिषु गर्जितमुखम् ॥ इत्य् आदि ।अस्थानपदता, यथा—गोवर्धनसमः क्वापि गिरिर् अस्ति सखे नहि ।यः स्वयं छत्रतां नीतश् छत्रता सर्वमूर्धनि ॥अत्र नहिर् अस्थानपतितः । अत्र पदमात्रस्यास्थाननिवेशेऽपि सर्वम् एव वाक्यं विवक्षितार्थप्रत्यायने मन्थरम् इति वाक्यदोषता । एवम् अन्यत्रापि ।इह केचिद् आहुः—“पदशब्देन वाचकम् एव प्रायो निगद्यते । नहि नञ्पर्यायस्य नहेर् वाचकता निर्विवादात् स्वातन्त्र्येणार्थबोधविरहात् इति । यथा “द्वयं गतम्” इत्य् आदौ त्वम् इत्य् अनन्तरं चकारानुपादानाद् अक्रमता तथेहापीति ।अस्थानस्थसमासता, यथा—अद्यापि स्तनशैलदुर्गविषमे कृष्णप्रियाणां हृदिस्थातुं वाञ्छति मान एष धिग् इति क्रोधाद् इवालोहितः ।उद्यन् दुरतरप्रसारितकरः कर्षत्य् असौ तत्क्षणात्फुल्लत् कैरवकोषनिःसरदलिश्रेणी कृपाणीं शशी ॥अत्र कोपिन उक्तौ समासो न कृतः । कवेर् उक्तौ तु कृतः ।वाक्यान्तरपदानां वाक्यान्तरेऽनुप्रवेशः सङ्कीर्णत्वम् । यथा—“मुञ्च चन्द्रं कृष्णकान्ते पश्य नभोऽङ्गने ।” अत्र चन्द्रं पश्य मानं मुञ्चेति युक्तम् । क्लिष्टं त्व् एकवाक्यविषयम् इत्य् असम्भिन्नम् ।वाक्यान्तरमध्ये वाक्यानतरानुप्रवेशो गर्भित्वम् । यथा—कृष्णे त्वच्चरणप्रान्ते दृष्ट्वा शश्वत् स्तुवत्य् अपि ।वदामि सखि ते तत्त्वं कदाचिन् नोचिताः क्रुधः ॥

转写 (IAST)

tyāgaḥ prasiddher asthāne nyāsaḥ pada-samāsayoḥ |saṅkīrṇatā garbhitatā doṣāḥ syur vākya-mātragāḥ ||9||varṇānāṁ rasānuguṇya-viparītatvaṁ pratikūlatvaṁ, yathā—kaṣṭaṁ spaṣṭaṁ sadāpy oṣṭhaṁ svaṁ daṣṭaṁ kurute’balā |viṣṭara-śravasāviṣṭā na yā tvat-preṣṭhatāṁ gatā ||“gatā niśā imā rādhe |” atra luptā visargā |āhatā o-tvaṁ prāptā visargā yatra | yathā—"dhīro vīro naro jiṣṇuḥ |"adhika-padatvam“tathā vidyute rādhikā tatra bimba-tulyāruṇādharā |” atra tulya-padam adhikam |"yadi mayy arpitā dṛṣṭiḥ kiṁ na rādhe tad āraci |" atra tvayeti nyūnam |"rati-līlā-śrama-jetrī marul-līleyam acyuta |" atra līlā-śabdaḥ punar-uktaḥ |hata-vṛttaṁ lakaṇānusaraṇe'py aśravyam | rasān anuguṇam aprāpta-guru-laghu-bhāvānta-laghu ca | krameṇa, yathā—"kṛṣṇa satatam etasyā hṛdayaṁ bhinte manobhavaḥ kupitaḥ |" atra kṛṣṇam ety atra yati-doṣaḥ |"harim anuparihara mānini mānam |" idaṁ vṛttaṁ hāsya-rasasyaivānukūlam |"vikasita-sahakāra-sāra-hāri-parimala eṣa hare madhur vibhāti |" yat-padānte laghor api guru-bhāva uktas, tat sarvatra dvitīya-caturtha-pādaṁ viṣayam | prathama-tṛtīya-pada-viṣayaṁ tu vasanta-tilakādāv eveti | "pramudita-saurabha eṣa hare vasanta” iti tu pāṭho yuktaḥ |anyās tā guṇa-ratna-rohaṇa-bhuvo dhanyā mṛd-anyaiva sājāto yatra mahā-harinmaṇi-tanuḥ so'yaṁ mahā-puruṣaḥ |yat-tejaḥ patitāḥ surāri nikarā bāḍhaṁ sura-strī-gaṇādhartuṁ na prabhavanty anukrama-gatāny astrāṇi vastrāṇi ca ||atra “vastrāṇi ca” iti ślathatva-śrutiḥ | vastrāṇy apīti pāṭhe tu bandha-dārḍhyaṁ syāt | idam apy aprāpta-guru-laghu-bhāvo'nta-laghv iti kāvya-prakāśa-kāraḥ |projjvalaj-jvalana-jvālā-vikaṭoru-saṭā-cchaṭaḥ |śvāsa-kṣipta-kula-kṣmā-bhṛt pātu vo nara-keśarī ||atra krameṇānuprāsa-prakarṣaḥ patitaḥ |"dalite ambuje ete akṣibhyāṁ sura-vairiṇaḥ |" evaṁ-vidhaḥ sandhi-viśleṣasyāsakṛt prayoga eva doṣaḥ | anuśāsanam ullaṅghya vṛtta-bhaṅga-bhaya-mātreṇa sandhi-viśleṣasya tu sakṛd api | yathā—"harir vṛndāvane bhāti indirā-vṛnda-saṅgataḥ |""cukrodha sa tadā kaṁsaś calaṇḍāmara-ceṣṭitaḥ |" atra sandhau jugupsā-vyañjitam aślīlatvam |"daitya-jity udayaty uccais tvayāty ārtiḥ kim ity abhūt |" atra sandhau kaṣṭatvam |ardhāntaraika-padatām āha—indur vibhāti karpūra-gaurair dhavalayan karaiḥ |jagan mā kuru tanvaṅgi mānaṁ kākū-kare harau ||atra jagad iti padaṁ prathamārdhe paṭhitum ucitam |nāśayanto ghana-dhvāntaṁ tāpayanto viyoginīḥ |vilasanti karāś cāndrāḥ pūrayantaḥ smaraṁ harau ||atra tṛtīya-caraṇe vākye samāpte'pi caturtha-caraṇe tad-viśeṣaṇaṁ punar āttam |abhavan-mata-sambandho, yathā—yā jaya-śrīr manojasya yayā jagad-alaṅkṛtam |yāmeṇākṣīṁ vinā prāṇā viphalā me hareḥ kva sā ||atra yac-chabda-nirdiṣṭānāṁ vākyānāṁ paraspara-nirapekṣātvād ekāntaḥ-pātinā tv eṇākṣī-śabdenānyeṣāṁ sambandhaḥ kaver abhimato'pi nopapadyata eva | “yāṁ vināhaṁ vṛthā kṛṣṇaḥ syām eṇākṣī kva sa mama” iti tac-chabda-nirdiṣṭa-vākyāntaḥ-pāte tu sarvair api yac-chabda-nirdiṣṭa-vākyaiḥ sambandho ghaṭate |yathā vā—īkṣate yat kaṭākṣeṇa kṛṣṇas tarhi kula-striyaḥ |sarva-tṛṣṇāṁ parityajya tat-tṛṣṇām eva bibhrati ||atra “yad” ity anena “tad” ity asya sambandho na ghaṭate | īkṣate ced iti tu pāṭho yuktaḥ |tathā—jyotsnā-cayaḥ payaḥ-pūras tārakāḥ kairavāṇi ca |vidhus tu vyoma-kāsāra-haṁsaḥ kṛṣṇa samīkṣyatām ||atra kāsāra-śabdasya samāse guṇī-bhāvān na tad-arthasya sarvaiḥ saṁyogaḥ tasmād vyoma-kāsāra iti saptamy-antam eva padaṁ vaktavyam | vidheyāvimarśe yad evāvimṛṣṭaṁ tad eva duṣṭam | iha tu pradhānasya kāsāra-padārthasya prādhānye'pratīteḥ sarvo'pi payaḥ-pūrādi-padārthas tad-aṅgatayā na pratīyate iti sarva-vākyārtha-tirobhāva ity ubhayor bhedaḥ |akramatā, yathā—hari-bhaktiḥ paraṁ śreyaḥ pravadantīti sādhavaḥ |atra parāmṛśyamāna-vākyānantaram eva iti-śabda-prayogo yuktaḥ | na tu pravadantīty anantaram | evaṁ—dvayaṁ gataṁ samprati śocanīyatāṁsamāgama-prārthanayā kapālinaḥ |kalā ca sā kāntimatī kalāvatastvam asya lokasya ca netra-kaumudī ||atra tvam ity anantaram eva ca-kāro yuktaḥ |amata-parārthatā, yathā—rāma-manmatha-śareṇa tāḍitāduḥsahena hṛdaye niśācarī |gandhavad-rudhira-candanokṣitājīviteśa-vasatiṁ jagāma sā ||atra śṛṅgāra-rasa-vyañjako dvitīyo'rthaḥ gandhavad rudhirety ādi sūcita-bībhatsa-rasa-viruddhatvād aniṣṭam |vācyānabhidhānaṁ, yathā—"vyatikrama-lavaṁ kaṁ me vīkṣya gopi prakupyasi |"atra vyatikramasya lavam apīty apir avaśyaṁ vaktavyo noktaḥ | nyūna-padatve vācaka-padasyaiva nyūnatā vivakṣitā | apes tu dyotakatvān na tathātvam iti bhedaḥ |aprākṛtasya caritātiśayaiś ca dṛṣṭairatyadbhutair apahṛtasya tathāpi nāsthā |tatrāpahṛto'smīti vidhir vācyaḥ | sa ca ṣaṣṭhyā guṇībhūtaḥ | tasmād atraiva nyūna-padatā vācyānabhidhānayor bhedaḥ spaṣṭaḥ | avimṛṣṭa-vidheyāṁśatā-vācyānabhidhānayor vidheyasyāsthāna-patitatvena vācyābhāvena bhedo jñeyaḥ | tat tu vidheyam anūdyāpekṣam | vācyaṁ tu svatantram iti vidheya-vācyayor bhedaḥ |bhagna-prakramatā, yathā—evam ukto mitra-vargai rāvaṇaḥ pratyabhāṣata |atra vacinā prakrānta-prativacanam api tenaivocitam | tena rāvaṇaḥ pratyavocateti yuktam | evaṁ ca sati na kathita-padatvaṁ doṣaḥ | tasyoddeśya pratinirdeśyetara-viṣayatvāt | iha hi vacana-prativacanayor uddeśya-pratinirdeśyatvam | yathā—utthan hari-diśi rāgī gacchann astaṁ ca rocate rāgī |tāṁ ruci-madaṁ tam antar-vibhavaṁ vighnaṁ bibharti mārtaṇḍaḥ ||atra hi rāgīty atra padāntareṇa yadi sa evārthaḥ pratipādyate | tadānyo'rtha iva bhāsamānaḥ pratītiṁ sthagayati |yathā vā—te himālayam āmantryapunaḥ prekṣya ca śūlinam |siddhaṁ cāsmai nivedyārthaṁtad visṛṣṭāḥ kham udyayuḥ ||atra “asmai” itīdamā prakrāntasya tenaiva tat-samānābhyām etad adaḥ-śabdābhyāṁ vā parāmarśo yukto, na tac-chabdena |yathā vā—“udanvacchinnā bhūr vyavahiti-karīty ānana-śata-patir vārām āste janaka-duhitā tat-para-diśi |” atra “tvayi premaiva vāñchitam” iti yuktam | atra ādyayoḥ prakṛti-viṣayaḥ prakrama-bhedaḥ | tṛtīye paryāya-viṣayaḥ | caturthe pratyaya-viṣayaḥ |prasiddhi-tyāgo, yathā—“meghānāṁ ravavat proce jarāsandhaṁ murāntakaḥ |” atra meghānāṁ garjitam eva prasiddham | yad āhuḥ—mañjīrādiṣu raṇita-prāyaṁ pakṣiṣu kūjita-prabhṛti |svanita-maṇitādi surate meghādiṣu garjita-mukham || ity ādi |asthāna-padatā, yathā—govardhana-samaḥ kvāpi girir asti sakhe nahi |yaḥ svayaṁ chatratāṁ nītaś chatratā sarva-mūrdhani ||atra nahir asthāna-patitaḥ | atra pada-mātrasyāsthāna-niveśe'pi sarvam eva vākyaṁ vivakṣitārtha-pratyāyane mantharam iti vākya-doṣatā | evam anyatrāpi |iha kecid āhuḥ—“pada-śabdena vācakam eva prāyo nigadyate | nahi nañ-paryāyasya naher vācakatā nirvivādāt svātantryeṇārtha-bodha-virahāt iti | yathā “dvayaṁ gatam” ity ādau tvam ity anantaraṁ ca-kārānupādānād akramatā tathehāpīti |asthānastha-samāsatā, yathā—adyāpi stana-śaila-durga-viṣame kṛṣṇa-priyāṇāṁ hṛdisthātuṁ vāñchati māna eṣa dhig iti krodhād ivālohitaḥ |udyan duratara-prasārita-karaḥ karṣaty asau tat-kṣaṇātphullat kairava-koṣa-niḥsarad-ali-śreṇī kṛpāṇīṁ śaśī ||atra kopina uktau samāso na kṛtaḥ | kaver uktau tu kṛtaḥ |vākyāntara-padānāṁ vākyāntare'nupraveśaḥ saṅkīrṇatvam | yathā—“muñca candraṁ kṛṣṇa-kānte paśya nabho’ṅgane |” atra candraṁ paśya mānaṁ muñceti yuktam | kliṣṭaṁ tv eka-vākya-viṣayam ity asambhinnam |vākyāntara-madhye vākyānatarānupraveśo garbhitvam | yathā—kṛṣṇe tvac-caraṇa-prānte dṛṣṭvā śaśvat stuvaty api |vadāmi sakhi te tattvaṁ kadācin nocitāḥ krudhaḥ ||

未能识别诗律

逐字释义
梵语IAST释义
त्यागःtyāgaḥоставление
प्रसिद्धेर्prasiddherобычая,
अस्थानेasthāneне на месте
न्यासःnyāsaḥпостановка
पद-समासयोःpada-samāsayoḥслова и сложения,
सङ्कीर्णताsaṅkīrṇatāперемешанность,
गर्भितताgarbhitatāвставленность —
दोषाःdoṣāḥпороки
स्युर्syurбудут
वाक्य-मात्रगाःvākya-mātragāḥлишь высказывания
译文

…оставление обычая, слово и сложение не на своём месте, перемешанность и вставленность — это пороки лишь высказывания. Несоответствие звуков — когда они противны вкусу, например: «Какая женщина, не ставшая Твоей милейшей, не одержимая Вишвакшравасом, та, увы, всегда явно кусает свою губу» — в «каштам спаштам… оштхам… даштам» жёсткие звуки противны любовному вкусу. «Гата ниша има радхе» — здесь висарги выпали. «Ударенная» висарга — когда она стала «о», например: «дхиро виро наро джишнух». Лишнее слово: «Так сияет там Радхика с алой губой, равной бимбе» — слово «равной» лишнее. «Если на меня обращён взгляд, отчего же, Радха, он не был…» — здесь недостаёт слова «тобою». «Ачьюта, эта игра ветра побеждает усталость от игр любви» — слово «игра» повторено. Сломанный размер — когда он и по правилам неприятен на слух, не подходит вкусу или когда конечный лёгкий слог не становится тяжёлым. По порядку, например: «Кришна, разгневанный Манобхава всё время пронзает её сердце» — здесь порок цезуры. «Харим анупарихара манини манам» — этот размер годится лишь для смешного. «Викасита-сахакара-сара-хари-паримала эша харе мадхур вибхати» — то, что лёгкий слог в конце стопы считается тяжёлым, относится везде ко второй и четвёртой стопам, а к первой и третьей — лишь в васантатилаке и подобных; правильно читать: «прамудита-саурабха эша харе васанта». «Иные — те блаженные женщины, рудники самоцветов-достоинств, иная — та земля, где родилась эта Великая Личность с телом из огромного изумруда, от мощи которого пали толпы демонов, а толпы жён богов не в силах удержать соскальзывающие одно за другим оружие и одежды» — в «вастрани ча» слышна вялость; при чтении «вастранй апи» строй был бы твёрд. И это, по словам автора «Кавья-пракаши», тоже конечный лёгкий слог, не ставший тяжёлым. «Да хранит вас Человеко-лев, чья огромная грива страшна языками пылающего огня, чьё дыхание разметало великие горы» — здесь сила созвучия постепенно падает. «Далите амбудже эте акшибхйам сура-вайринах» — порок в том, что зияние повторено много раз; а если сочетание разорвано вопреки правилу лишь из страха сломать размер, это порок и при одном разе, например: «харир вриндаване бхати индира-вринда-сангатах». «Тогда разгневался тот Камса, поступки его — как у чандалы» — здесь на стыке слов внушается отвращение: непристойность. «Дайтья-джитй удайатй уччаис тваятй артих ким итй абхут» — жёсткость на стыках. Слово, ушедшее в другую половину: «Луна сияет, белыми, как камфора, лучами убеляя — мир; не держи, тонкая, обиды на Хари, что льстит тебе». Здесь слово «мир» следовало поставить в первую половину. «Разгоняя густую тьму, мучая разлучённых, играют лучи луны, наполняя Хари любовью». Здесь высказывание закончено в третьей стопе, а в четвёртой снова подхвачено его определение. Несостоявшаяся задуманная связь — например: «Та, что — победная слава Любви, чем мир украшен, без которой — ланеокой — жизнь моя, Хари, бесплодна, — где она?» Здесь высказывания со словом «которая» независимы друг от друга, и связь остальных со словом «ланеокая», стоящим внутри одного из них, хоть и задумана поэтом, не получается. А если сказать: «без которой я, Кришна, напрасен, — где же та моя ланеокая?», — внутри высказывания с «та» связь со всеми высказываниями с «которая» получится. Или: «Что Кришна смотрит искоса — тогда знатные женщины, оставив всякую жажду, хранят жажду лишь к Нему». Здесь «что» не связывается с «тогда»; правильно читать: «если смотрит». Так же: «Смотри, Кришна: масса лунного света — поток воды, звёзды — лилии, а месяц — лебедь пруда-неба». Здесь «пруд» в сложении второстепенен, и его смысл не связывается со всеми; поэтому надо было сказать «в небе-пруду» — отдельным словом в местном падеже. При невыделенности утверждаемого порочно лишь невыделенное; а здесь главный смысл — пруд — не воспринимается главным, и поток воды и прочее не воспринимаются его частями, — весь смысл высказывания затемнён: в этом различие. Беспорядок — например: «Преданность Хари — высшее благо: так говорят святые». Здесь «так» надо ставить сразу после приводимых слов, а не после «говорят». Так же: «Двое теперь достойны жалости из-за желания соединиться с Носящим череп: тот прекрасный серп месяца — и ты, лунный свет для глаз этого мира». Здесь «и» надо было поставить сразу после «ты». Незадуманный иной смысл — например: «Поражённая в сердце нестерпимой стрелой Рамы-Манматхи, ночная бродяжка, умащённая пахучей кровью, как сандалом, ушла в обитель владыки своей жизни». Здесь второй смысл, внушающий любовный вкус, нежелателен: он противоречит вкусу отвращения, на который указывают «пахучая кровь» и прочее. Невысказанность того, что надо сказать, — например: «Какую крупицу моей вины ты увидела, пастушка, что гневаешься?» Здесь непременно надо было сказать «хоть крупицу», а «хоть» не сказано. При недостающем слове имеется в виду недостача слова, выражающего смысл; а «хоть» лишь указывает, поэтому это иное. «…и всё же, хоть увлечён виденными дивными деяниями Того, кто не от мира, — нет веры». Здесь надо высказать утверждение «я увлечён», а оно стало второстепенным из-за родительного падежа; поэтому здесь различие между недостающим словом и невысказанностью ясно. А невыделенность утверждаемого отличается от невысказанности тем, что там утверждаемое стоит не на месте, а здесь нужного вовсе нет; утверждаемое зависит от повторяемого, а нужное — самостоятельно. Нарушенный строй — например: «Так сказали друзья, и Равана им отвечал (пратйабхашата)». Ответ, начатый глаголом «вач», надо продолжать им же: правильно «пратйавочата». И это не порок повторённого слова: тот касается иного, чем упоминаемое и отсылаемое к нему, а здесь речь и ответ как раз упоминаемое и отсылаемое. Например: «Восходя на стороне Хари, солнце — „раги“, алое; уходя на закат, оно сияет „раги“…» Здесь, если бы тот же смысл был передан другим словом, он показался бы иным и затемнил бы понимание. Или: «Они простились с Гималаем, снова взглянули на Носящего трезубец, сообщили ему, что дело сделано, и, отпущенные им, взмыли в небо». Здесь начатое словом «ему» (идам) надо продолжать тем же словом или равными ему «этот», «оный», а не «тот». Или: «Земля, отрезанная океаном, — преграда; владыка вод сидит со своими ста ликами; дочь Джанаки — на той стороне…» — здесь правильно было бы: «к тебе — лишь любовь желанна». Из этих примеров в первых двух строй нарушен в основе, в третьем — в синониме, в четвёртом — в суффиксе. Оставление обычая — например: «Губитель Муры сказал Джарасандхе, звуча, как тучи» — для туч по обычаю говорят «гремя». Как говорят: «У браслетов на ногах — звон, у птиц — щебет и прочее, в любви — стоны, у туч — гром» и так далее. Слово не на месте — например: «Нигде, друг, нет горы, равной Говардхане, которая сама стала зонтом, — зонтом над всеми головами». Здесь «нет» (нахи) поставлено не на место. Хотя не на месте лишь одно слово, всё высказывание медлит передать задуманный смысл, поэтому это порок высказывания. Так и в прочих. Некоторые говорят здесь: «Словом „слово“ обычно называют лишь выражающее значение; а „нахи“, синоним отрицания, бесспорно не выражающее: само по себе оно смысла не передаёт; поэтому, как в „Двое…“, где „и“ не поставлено после „ты“, — беспорядок, так и здесь». Сложение не на месте — например: «Даже теперь эта гордость хочет остаться в сердцах любимых Кришны, неприступных, как крепость горных вершин груди, — позор! — и месяц, будто покрасневший от гнева, восходя, далеко протянув руку-луч, тотчас вытаскивает меч — ряд пчёл, вылетающих из раскрывшихся бутонов лилий». Здесь в словах гневного месяца сложения нет, а в словах поэта есть. Перемешанность — когда слова одного высказывания входят в другое, например: «Оставь месяц, милая Кришны, взгляни на гордость во дворе неба» — правильно: «взгляни на месяц, оставь гордость». Вымученность же касается одного высказывания, так что они не смешиваются. Вставленность — когда одно высказывание входит в середину другого, например: «Когда Кришна у края твоих стоп, даже видя, всё время хвалит тебя, — говорю тебе правду, подруга, — гнев никогда не уместен».

版本

91afae15a129 · 发布于 2026年9月24日 12:40:03 UTC

可用语言RU

用方向键翻颂