ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम्
īśvaraḥ paramaḥ kṛṣṇaḥ saccidānanda-vigrahaḥ anādir ādir govindaḥ sarva-kāraṇa-kāraṇam
Кришна — верховный Владыка; Его облик — бытие, сознание и блаженство. Он безначален, Он начало всего; Он — Говинда, причина всех причин.
श्री-श्री-राधा-कृष्णाभ्यां नमः ।
सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः ।
श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥
श्री-कृष्ण-रूप-महिमा मम चित्ते महीयताम् ।
यस्य प्रसादाद् व्याकर्तुम् इच्छामि ब्रह्म-संहिताम् ॥
दुर्योजनापि युक्तार्था सुविचाराद् ऋषि-स्मृतिः ।
विचारे तु ममात्र स्याद् ऋषीणां स ऋषिर् गतिः ॥
यद्यप्य् अध्याय-शत-युक् संहिता सा तथाप्य् असौ ।
अध्यायः सूत्र-रूपत्वात् तस्याः सर्वाङ्गतां गतः ॥
श्रीमद्-भागवताद्येषु दृष्टः यन् मृष्ट-बुद्धिभिः ।
तद् एवात्र परामृष्टं ततो हृष्टं मनो मम ॥
यद् यच् छ्री-कृष्ण-सन्दर्भे विस्ताराद् विनिरूपितम् ।
अत्र तत् पुनर् आमृश्य व्याख्यातुं स्पृश्यते मया ॥
अथ श्रीमद्-भागवते यद् उक्तं एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् इति तद् एव प्रथमम् आह ईश्वर इति । अत्र कृष्ण इत्य् एव विशेष्य तन्-नामैव । कृष्णावतारोत्सवेत्य् आदौ श्री-शुकादि-महाजन-प्रसिद्ध्या । कृष्णाय वासुदेवाय देवकी-नन्दनाय इत्य् आदौ सामोपनिषदि च । प्रथम-प्रतीतत्वेन तन्-नाम-वर्गाविर्भाव-कृता गर्गेण प्रथमम् उद्दिष्टत्वेन तथा यं मन्त्रम् अधिकृत्य सोऽयम् आरम्भः तत्राग्रतः परिचितत्वेन मूल-रूपत्वात् । तद् उक्तं पद्म-पुराणे प्रभास-खण्डे नारद-कुशध्वज-संवादे श्री-भगवद्-उक्तौ - नाम्नां मुख्यतमं नाम कृष्णाख्यं मे परन्तप इति ।
अतैव ब्रह्माण्ड-पुराणे श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे -
सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् ।
एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥
इत्य् अत्र श्री-कृष्णस्येत्य् एवोक्तं यत् त्व् अग्रे गोविन्द-नाम्ना स्तोष्यते तत् खलु कृष्णत्वेऽपि तस्य गवेन्द्रत्व-वैशिष्ट्य-दर्शनार्थम् एव ।
तद् एवं रूढित्वेन प्राधान्यात् तस्य इश्वर इत्य् आदीनि विशेषणानि । अथ गुण-द्वारापि तद् दृश्यते । यथाह गर्गः -
आसन् वर्णास् त्रयो ह्य् अस्य गृह्णतो ऽनुयुगं तनूः ।
शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥
बहूनि सन्ति नामानि रूपाणि च सुतस्य ते ।
गुण-कर्मानुरूपाणि तान्य अहं वेद नो जनाः ॥
अनयोर् अर्थः । अस्य कृष्णत्वेन दृश्यमानस्य प्रति-युगं तनूर् नानावतारान् गृह्णतः प्रकाश्यतः शुक्लादयस् त्रयो आसन् प्रकाशम् अवापुः । स च स च शुक्लादिर् अवतार इदानीं साक्षाद् अस्यावतार-समये कृष्णाङ्गतः एतस्मिन्न् एवान्तर्भूतः । अतैव कृष्णे कर्तृत्वात् सर्वोत्कर्षकत्वात् कृष्ण इति मुख्यं नाम । तस्माद् अस्यैव तानि रूपाणीत्य् आह बहूनीति । तद् एवं गुण-द्वारा तन्-नाम्नि प्राध्यान्य-सूचकस्य कृष्णस्य तन्-नाम्नः प्राधान्ये लब्धे -
कृषिर् भू-वाचकः शब्दो णश् च निर्वृतिवाचकः ।
तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥
इति योग-वृत्तित्वे तस्य तादृशत्वं लभ्यते । न चेदं पद्यम् अन्य-परम् । तद्-उपासना-तन्त्र-गौतमीय-तन्त्रे अष्टादशाक्षर-व्याख्यायां तद् एतत् तुल्यं पद्यं दृश्यते -
कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः । सुख-रूपो भवेद् आत्मा भावानन्द-मयत्वतः ॥ इति ।
तस्माद् अयम् अर्थः - भवन्त्य् अस्मात् सर्वेऽर्था इति भूः धात्व्-अर्थ उच्यते भाव-शदवत् स चात्र कर्ष्तेर् एवार्थस् तस्यैव प्राप्तत्वात् । गौतमीये भू-शब्दस्य सत्ता-वाचकत्वेऽपि तद्-धात्व्-अर्थ-सत्तैवोच्यते । घटत्वं सत्ता-वाचकम् इत्य् उक्ते घट-सत्तैव गम्यते न तु पट-सत्ता न वा सामान्य-सत्तेति ।
अथ निवृत्तिर् आनन्दस् तयोर् ऐक्यं सामानाधिकरण्येन व्यक्तं यत् परं ब्रह्म सर्वतोऽपि सर्वस्यापि बृंहणं वस्तु तत् बृहत्तमं कृष्ण इत्य् अभिधीयते किन्तु कृषेर् आकर्ष-मात्रार्थत्वेन ण-शब्दस्य च प्रतिपाद्येनानन्देन सह सामानाधिकरण्यासम्भवाद् धेतु-मतोर् अभेदोपचारः कार्यः । तच् चाकर्ष-प्राचुर्यार्थम् आयुर् घृतम् इतिवत् । ब्रह्म-शब्दस्य तत्-तद्-अर्थत्वं च बृहत्त्वाद् बृंहणत्वाच् च तद् ब्रह्म परमं विदुर् इति विष्णु-पुराणात् ।
एवम् एवोक्तं बृहद्-गौतमीये -
कृषि-शब्दश् च सत्तार्थो णश् चानन्द-स्वरूपकः । सत्ता-स्वानन्दयोर् योगात् चित् परं ब्रह्म चोच्यते ॥ इति ।
अद्वय-वादिभिर् अपि सत्तानन्दयोर् ऐक्यं तथा मन्तव्यम् । शाब्दिकैर् भिन्नाभिधेयत्वेन प्रतीतेः । सत्ता-शब्देन चात्र सर्वेषां सतां प्रवृत्ति-हेतुर् यत् परमं स तद् एवोच्यते । सद् एव सौम्येदम् अग्र आसीद् इति श्रुतेः । अभिन्नाभिधेयत्वेऽपि वृक्षस् तरुर् इत्य्वद् विशेषण-विशेष्यत्वायोगाद् एकस्य वैयर्थ्याच् च । गौतमीयं पद्यं चैव व्याख्येयम् । पूर्वार्धे सर्वाकर्षण-शक्ति-विशिष्ट आनन्दः कृष्ण इत्य् अर्थः । उत्तरार्धे यस्माद् एवं सर्वाकर्षक-सुख-रूपोऽसौ तस्माद् आत्मा जीवश् च तत्र सुख-रूपो भवेत् । तत्र हेतु-भावः प्रेमा तन्मयानन्दत्वाद् इति ।
तद् एवं स्वरूप-गुणाभ्यां परम-बृहत्तमः सर्वाकर्षक आनन्दः कृष्ण-शब्द-वाच्य इति ज्ञेयम् । स च शब्दः श्री-देवकीनन्दन एव रूढः । अस्यैव सर्वानन्दकत्वं वासुदेवोपनिषदि दृष्टम् - देवकी-नन्दनो निखिलम् आनन्दयत् इति । आहुश् च नाम-कौमुदी-काराः - कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि श्री-यशोदा-स्तनन्धये पर-ब्रह्मणि रूढिः इति । ततश् चासौ शब्दो नान्यत्र सङ्क्रमणीयः । यथाह भट्टः -
लब्धात्मिका सती रूढिर् भवेद् योगापहारिणी ।
कल्पनीया तु लभन्ते नात्मानं योग-बाधतः ॥
इति पर-ब्रह्मत्वं च श्रीमद्-भागवते गूढं परं ब्रह्म मनुष्य-लिङ्गम् इति, यन्-मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् इति । श्री-विष्णु-पुराणे - यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति इति । श्री-गीतासु च ब्रह्मणो हि प्रतिष्ठाहम् इति । श्री-गोपाल-तापनीषु च योऽसौ परं ब्रह्म गोपालः इति ।
अथ मूलम् अनुसरामः । यस्माद् एव तादृक् कृष्ण-शब्द-वाच्यस् तस्माद् ईश्वरः सर्व-वशायिता । तद् इदम् उपलक्षितं बृहद्-गौतमीये कृष्ण-शब्दस्यैवार्थान्तरेण ।
अथवा कर्षयेत् सर्वं जगत् स्थावर-जङ्गमम् । काल-रूपेण भगवान् तेनायं कृष्ण उच्यते ॥ इति ।
कलयति नियमयति सर्वम् इति काल-शब्दार्थः । तथा च तृतीये तम् उद्दिशोद्धवस्य पूर्ण एव निर्णयः ।
स्वयं त्व् असाम्यातिशयस् त्र्यधीशः स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः । बलिं हरद्भिश् चिर-लोक-पालैः किरीट-कोट्य्-एडित-पाद-पीठः ॥ इति ।
श्री-गीतासु विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति । श्री-गोपाल-तापन्याम्-एको वशी सर्वगः कृष्ण ईड्यः इति । यस्माद् एव तादृग्-ईश्वरः, तस्मात् परमः । सर्वोत्कृष्टा मा लक्ष्मी-रूपाः शक्तयो यस्मिन् । तद् उक्तं श्री-भागवते --रेमे रमाभिर् निज-काम-सम्प्लुतः इति । नायं श्रियोऽङ्ग उ नितान्त-रतेः प्रसादः इत्यादि । तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः इति । ताभिर् विधूत-शोकाभिर् भगवान् अच्युतो वृतः । व्यरोचताधिकम् इति च । अत्रैवाग्रे वक्ष्यते - श्रियः कान्ताः कान्तः परम-पुरुषः इति । तापन्यां च -कृष्णो वै परमं दैवतम् इति । यस्माद् एव तादृक् परमस् तस्माद् आदिश् च । तद् उक्तं श्री-दशमे -
श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः । आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ इति ।
टीका च स्वामि-पादानाम् - आद्यो हरिः श्री-कृष्ण इत्य् एषा । एकादशे तु तस्य श्रेष्ठत्वम् आद्यत्वं च युगपद् आह । पुरुषम् ऋषभम् आद्यं कृष्ण-संज्ञं नतोऽस्मि इति ।
न चैतद् आदित्वं तद्-अवतारापेक्षं किन्तु अनादि न विद्यते आदिर् यस्य तादृशः । तापन्यां च -- एको वशी सर्वगः कृष्ण ईड्यः इत्य् उक्त्वाह नित्यो नित्यानाम् इति च यस्माद् एव तादृशतया आदिस् तस्मात् सर्व-कारण-कारणम् । तथा च दशमे तं प्रति देवकी-वाक्यम् -
यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः । भवन्ति किल विश्वात्मंस् तं त्वाद्याहं गतिं गता ॥ इति ।
टीका च - यस्यांशः पुरुषस् तस्यांशो माया तस्या अंशा गुणास् तेषां भागेन परमाणु-मात्र-लेशेन विश्वोत्पत्त्य्-आदयो भवन्ति । तं त्वा त्वां गतिं शरणं गतास्मि इत्य् एषा । तथा च ब्रह्म-स्तुतौ - नारायणोऽङ्ग नर-भू-जलायनात् इति ।
नराज् जातानि तत्त्वानि नाराणीति विदुर् बुधाः ।
तस्य तान्य् अयनं पूर्वं तेन नारायणः स्मृतः ॥
इत्य् अनेन लक्षितो यो नारायणः स तवाङ्गं त्वं पुनर् अङ्गीत्य् अर्थः । श्री-गीतासु विष्टभ्याहम् इदं कृत्स्नम् एकांशेन स्थितो जगत् इति । तद् एवं कृष्ण-शब्दस्य यौगिकार्थोऽपि साधितः ।
ये च तच्-छब्देन कृषिणाभ्यां परमानन्द-मात्रं वाचयन्ति तेऽपि ईश्वरादि-विशेषणैस् तत्र स्वाभाविकी शक्तिं मन्येरन् । तस्मिन् न द्वितीयत्वेन सर्व-कारणत्वेन च वस्त्व्-अन्तर-शक्तिं मन्येरन् । तस्मिन् न द्वितीयत्वेन सर्व-कारणत्वेन च वस्त्व्-अन्तर-शक्त्य्-आरोपायोगात् । तथा च श्रुतिः - आनन्दो ब्रह्म इति । को ह्य् एवान्यात् कः प्राण्याद् यद् एष आकाश आनन्दो न स्यात् । आनन्दाद् धीमानि भूतानि जायन्ते ।
न तस्य कार्यं करणं च विद्यते न तत्-समश् चाभ्यधिकश् च दृश्यते । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च ॥ इति ।
ननु स्व-मते योग-वृत्तौ च सर्वाकर्षकं परम-बृहत्तमानन्दः कृष्ण इत्य् अभिधानात् अविग्रह एव स इत्य् अवगम्यते आनन्दस्य विग्रहानवगमात् । सत्यम् । किन्त्व् अयं परमोऽपूर्वः पूर्व-सिद्धानन्द-विग्रहः इति । सच्-चिद्-आनन्द-लक्षणो यो विग्रहस् तद्-रूप एवेत्य् अर्थः । तथा च श्री-दशमे ब्रह्मणः स्तवे त्वय्य् एव नित्य-सुख-बोध-तनाव् इति । तापनी-हयशीर्षयोर् अपि - सच्-चिद्-आननद-रूपाय कृष्णायाक्लिष्ट-कारिणे इति । ब्रह्माण्डे च श्री-कृष्णाष्टोत्तर-शत-नाम-स्तोत्रे नन्द-व्रज-जनानन्दी सच्-चिद्-आनन्द-विग्रहः इति ।
एतद् उक्तं भवति । सत्त्वं खल्व् अव्यभिचारित्वम् उच्यते तद्-रूपत्वं च तस्य श्री-दशमे ब्रह्मादि-वाक्ये -
सत्ये प्रतिष्ठितः कृष्णः सत्यम् अत्र प्रतिष्ठितम् । सत्यात् सत्यं च गोविन्दस् तस्मात् सत्यो हि नामतः ॥ इति ।
श्री-देवकी-वाक्ये च --
नष्टे लोके द्वि-परार्धावसाने
महा-भूतेष्व् आदि-भूतं गतेषु ।
व्यक्ते ऽव्यक्तं काल-वेगेन याते
भवान् एकः शिष्यते ऽशेष-संज्ञः ॥
मर्त्यो मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयं नाद्यगच्छत् । तत्-पादाब्जं प्राप्य यदृच्छयाद्य स्वस्थः शेते मृत्युर् अस्माद् अपैति ॥ इत्य् आदि ।
एकोऽसि प्रथमम् इत्य् आदि श्री-ब्रह्मणो वाक्ये तद् अमितं ब्रह्माद्वयं शिष्यते इति । श्री-गीतासु ब्रह्मणो हि प्रतिष्ठाहम् इति ।
यस्मात् क्षरम् अतीतोऽहम् अक्षराद् अपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ इति ।
तापन्याम् -
जन्म-जराभ्यां भिन्नः स्थानुर् अयम् अच्छेद्योऽयं योऽसौ सौर्ये तिष्ठति । योऽसौ गोषु तिष्ठति, योऽसौ गाः पालयति, योऽसौ गोपेषु तिष्ठति गोविन्दान् मृत्युर् बिभेति ॥ इत्य् आदि च । तत्र पूर्वत्र सौर्य इति । सौरी यमुना, तद् अदूर-देशे वृन्दावने इत्य् अर्थः ।
अथ चिद्-रूपत्वं स्व-प्रकाशत्वेन पर-प्रकाशत्वम् । तच् चोक्तं श्री-दशमे ब्रह्मणा एकस् त्वम् आत्मा इत्य् आदौ स्वयं ज्योतीर् इति । तापन्यां -
यो ब्रह्माणं विदधाति पूर्वं यो विद्यास्तस्मै गोपायति स्म कृष्णः । तं ह दैवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमनुव्रजेत ॥ इति ।
न चक्षुषा पश्यति रूपम् अस्य यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा वृणुते तनुं स्वाम् ॥ इत्य् श्रुत्य्-अन्तरवत् ।
यथानन्द-स्वरूपत्वं सर्वांशेन निरुपाधि-परम-प्रेमास्पदत्वम् । तच् च श्री-दशमे ब्रह्म-स्तवान्ते - ब्रह्मन् परोद्भवे कृष्णे इत्य्-आदि-प्रश्नोत्तरयोर् व्यक्तम् । तथा चानुभूतम् आनकदुन्दुभिना --
विदितो ऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः केवलानुभवानन्द- स्वरूपः सर्व-बुद्धि-दृक् ॥ इति ।
आनन्दं ब्रह्मणो रूपं इति श्रुत्य्-अन्तरवत् ।
तद् एवं तस्य सच्-चिद्-आनन्द-विग्रह-रूपत्वे सिद्धे, विग्रह एवात्मा तथात्मैव विग्रह इति सिद्धम् । ततो जीववद् देहित्वं तस्य नेत्य् अपि सिद्धान्तितम् । यथोक्तं श्री-शुकेन -
कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् । जगद्-धिताय सोऽप्य् अत्र देहीवाभाति मायया ॥ इति ।
तथापि तस्य देहिवल्-लीला-कृपा-परवशतयैवेत्य् अर्थः । माया दम्भे कृपायां च इति विश्व-प्रकाशः । तद् एवम् अस्य तथा तथा-लक्षण-श्री-कृष्ण-रूप्तवे सिद्धे चोभय-लीलाभिनिविष्टत्वेन क्वचिद् वृष्णीन्द्रत्वं क्वचिद् गोविन्दत्वं च दृश्यते । तथाह द्वादशे श्री-सूतः --
श्री-कृष्ण-कृष्ण-सख-वृष्ण्य्-ऋषभावनि-ध्रुग्- राजन्य-वंश-दहनानपवर्ग्य-वीर्य । गोविन्द गोप-वनिता-व्रज-भृत्य-गीत- तीर्थ-श्रवः श्रवण-मङ्गल पाहि भृत्यान् ॥ इति ।
तद् एवम् अपि स्वाभीष्ट-रूप-लीला-परिकर-विशिष्टतया गोविन्दत्वम् एव स्वाराध्यत्वेन योजयति गोविन्द इति । यथा अत्रैवाग्रे स्तोष्यते चिन्तामणि-प्रकर-सद्मसु कल्प-वृक्ष इति । अभिषेकान्ते गोविन्द इति चाभ्यधात् इत्य् उक्त्वा तत् प्रकरणारम्भे श्री-शुक-प्रार्थना प्रीयान् न इन्द्रो गवाम् इति गवां सर्वाश्रयत्वाद् गवेन्द्रत्वेनैव सर्वेन्द्रत्व-सिद्धेः । न चेदं न्यूनं मन्तव्यम् । तथा हि गो-सूक्तम् -
गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः । गोभिर् वेदाः समुद्गीर्णाः षड्-अङ्ग-पदक-क्रमाः ॥ इति ।
अस्तु तावत् परम-गोलोकावतीर्णानां तासां गवाम् इन्द्रत्वम् इति तापनीषु च ब्रह्मणा तदीयम् एव स्वेनाराधनं प्रकाशितम् -- गोविन्दं सच्-चिद्-आनन्द-विग्रहं वृन्दावन-सुर-भूरुह-तलासीनं सततं समरुद्-गणोऽहं तोषयामि । इति ।
तथैव दशमे -- तद् भूरि भाग्यम् इह जन्म किम् अप्य् अटव्याम् इत्य् आदि, श्री-नन्द-नन्दनत्वेनैव च तं लब्धुं प्रार्थना । नौमीड्य तेऽभ्र-वपुषे तडिद्-अम्बराय इत्य् आदि पशुपाङ्गजाय इति । तद् एवं गोविन्द-शब्दस्य नाना-पारमैश्वर्य-मय्य् अन्यार्थतापि तेन नाभिमता । तथा चोक्तं - ईश्वरत्वे परमेश्वरत्वानुवाद-पूर्वक-तात्पर्यावसानतया गौतमीय-तन्त्रे श्रीमद्-दशाक्षर-मन्त्रार्थ-कथने -
गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः ।
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।
सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ॥
अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् ।
अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः ॥
कार्य-कारणयोर् ईशः श्रुतिभिस् तेन गीयते ॥
अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा ।
नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति.
प्रकृतिम् इति मायाख्यां जगत्-कारण-शक्तिम् इत्य् अर्थः तत्त्व-समूहको महद्-आदि-रूपः । अनयोर् आश्रयः सान्द्रानन्दं परं ज्योतिर् ईश्वरओ वल्लभ-शब्देन कथ्यते । ईश्वरत्वे हेतुर् व्याप्त्या कारणत्वेन चेति । प्रकृतिर् इति स्वरूप-भूता मायातीता वैकुण्ठादौ प्रकाशमाना महा-लक्ष्म्य्-आख्या शक्तिर् इत्य् अर्थः । अंश-मण्डलं सङ्कर्षणादि-रूपम् । अनेक-जन्म-सिद्धानाम् इत्य् अत्र । बहूनि मे व्यतीतानि जन्मानि तव चार्जुन इति श्री-भगवद्-गीता-वचनाम् अनादि-जन्म-परम्परायाम् एव तात्पर्यम् ।
तद् एवम् अत्रापि नन्द-नन्दनत्वम् एवाभिमतं श्री-गर्गेण च यथोक्तम् । प्राग् अयं वासुदेवस्य क्वचिज् जातस् तवात्मजः इति । आत्मजत्वं हि तस्य श्री-वसुदेवस्यापि मनस्य् आविर्भूतत्वम् एवाभिमतम् । आविवेशांश-भागेन मन आनकदुन्दुभेः इति । श्री-देवक्याम् अपि दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः इत्य् आदेः । श्री-व्रजेश्वरयोऽपि तथासीद् एव फलेन फल-कारणम् अनुमीयते । श्री-भगवत्-प्रादुर्भावस्य पूर्वाव्यवहित-कालं व्याप्य तथा तथा सर्वत्र दर्शनात् । किन्त्व् आत्मनि तस्याविर्भावे सत्य् अप्य् आत्मजत्वाय पितृ-भाव-मय-शुद्ध-महा-प्रेमैव प्रयोजकम् । ब्रह्मणः सकाशाद् वराह-देवस्याविर्भावेऽपि परस्परं तथा भाव-दर्शनाभावात् । तथा नृसिंह-देवः स्तम्भयोर् अपि । न च वक्तव्यम् उदर-प्रवेशे सति पुत्रत्वं स्यात् । परीक्षिद्-रक्षणार्थं तन्-मातुर् उदर-प्रविष्टे च तयोस् तादृश-व्यवहाराभावात् । तस्मात् वात्सल्याभिध-प्रेमैव पुत्रत्वे कारणम् । तादृश-शुद्ध-प्रेमा तु श्री-व्रजेश्वरयोर् एव श्री-वसुदेव-देवक्योस् तु परमैश्वर्य-ज्ञानं प्रतिबन्धकं इति साधूक्तं प्राग् अयं वसुदेवस्य इति ।
अथ श्री-शुकदेवेन तथैव निर्णीतं नायं सुखापो भगवान् देहिनां गोपिका-सुतः इति । आगम-विद्भिर् अपि सकल-लोक-मङ्गलो नन्द-गोप-तनयो देवता इति । अतः श्रीमद्-दशाक्षर-विनियोगेऽपि तन्-मय एव दृश्यते इति । अथ विशेषः श्री-वैष्णव-तोषण्यां नन्दस् त्व् आत्मज उत्पन्नः इत्य् आदौ द्रष्टव्यः ।
śrī-śrī-rādhā-kṛṣṇābhyāṃ namaḥ |
sanātana-samo yasya jyāyān śrīmān sanātanaḥ |
śrī-vallabho'nujaḥ so'sau śrī-rūpo jīva-sad-gatiḥ ||
śrī-kṛṣṇa-rūpa-mahimā mama citte mahīyatām |
yasya prasādād vyākartum icchāmi brahma-saṃhitām ||
duryojanāpi yuktārthā suvicārād ṛṣi-smṛtiḥ |
vicāre tu mamātra syād ṛṣīṇāṃ sa ṛṣir gatiḥ ||
yadyapy adhyāya-śata-yuk saṃhitā sā tathāpy asau |
adhyāyaḥ sūtra-rūpatvāt tasyāḥ sarvāṅgatāṃ gataḥ ||
śrīmad-bhāgavatādyeṣu dṛṣṭaḥ yan mṛṣṭa-buddhibhiḥ |
tad evātra parāmṛṣṭaṃ tato hṛṣṭaṃ mano mama ||
yad yac chrī-kṛṣṇa-sandarbhe vistārād vinirūpitam |
atra tat punar āmṛśya vyākhyātuṃ spṛśyate mayā ||
atha śrīmad-bhāgavate yad uktaṃ ete cāṃśa-kalāḥ puṃsaḥ kṛṣṇas tu bhagavān svayam iti tad eva prathamam āha īśvara iti | atra kṛṣṇa ity eva viśeṣya tan-nāmaiva | kṛṣṇāvatārotsavety ādau śrī-śukādi-mahājana-prasiddhyā | kṛṣṇāya vāsudevāya devakī-nandanāya ity ādau sāmopaniṣadi ca | prathama-pratītatvena tan-nāma-vargāvirbhāva-kṛtā gargeṇa prathamam uddiṣṭatvena tathā yaṃ mantram adhikṛtya so'yam ārambhaḥ tatrāgrataḥ paricitatvena mūla-rūpatvāt | tad uktaṃ padma-purāṇe prabhāsa-khaṇḍe nārada-kuśadhvaja-saṃvāde śrī-bhagavad-uktau - nāmnāṃ mukhyatamaṃ nāma kṛṣṇākhyaṃ me parantapa iti |
ataiva brahmāṇḍa-purāṇe śrī-kṛṣṇāṣṭottara-śata-nāma-stotre -
sahasra-nāmnāṃ puṇyānāṃ trir-āvṛttyā tu yat phalam |
ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tat prayacchati ||
ity atra śrī-kṛṣṇasyety evoktaṃ yat tv agre govinda-nāmnā stoṣyate tat khalu kṛṣṇatve'pi tasya gavendratva-vaiśiṣṭya-darśanārtham eva |
tad evaṃ rūḍhitvena prādhānyāt tasya iśvara ity ādīni viśeṣaṇāni | atha guṇa-dvārāpi tad dṛśyate | yathāha gargaḥ -
āsan varṇās trayo hy asya gṛhṇato 'nuyugaṃ tanūḥ |
śuklo raktas tathā pīta idānīṃ kṛṣṇatāṃ gataḥ ||
bahūni santi nāmāni rūpāṇi ca sutasya te |
guṇa-karmānurūpāṇi tānya ahaṃ veda no janāḥ ||
anayor arthaḥ | asya kṛṣṇatvena dṛśyamānasya prati-yugaṃ tanūr nānāvatārān gṛhṇataḥ prakāśyataḥ śuklādayas trayo āsan prakāśam avāpuḥ | sa ca sa ca śuklādir avatāra idānīṃ sākṣād asyāvatāra-samaye kṛṣṇāṅgataḥ etasminn evāntarbhūtaḥ | ataiva kṛṣṇe kartṛtvāt sarvotkarṣakatvāt kṛṣṇa iti mukhyaṃ nāma | tasmād asyaiva tāni rūpāṇīty āha bahūnīti | tad evaṃ guṇa-dvārā tan-nāmni prādhyānya-sūcakasya kṛṣṇasya tan-nāmnaḥ prādhānye labdhe -
kṛṣir bhū-vācakaḥ śabdo ṇaś ca nirvṛtivācakaḥ |
tayor aikyaṃ paraṃ brahma kṛṣṇa ity abhidhīyate ||
iti yoga-vṛttitve tasya tādṛśatvaṃ labhyate | na cedaṃ padyam anya-param | tad-upāsanā-tantra-gautamīya-tantre aṣṭādaśākṣara-vyākhyāyāṃ tad etat tulyaṃ padyaṃ dṛśyate -
kṛṣi-śabdaś ca sattārtho ṇaś cānanda-svarūpakaḥ | sukha-rūpo bhaved ātmā bhāvānanda-mayatvataḥ || iti |
tasmād ayam arthaḥ - bhavanty asmāt sarve'rthā iti bhūḥ dhātv-artha ucyate bhāva-śadavat sa cātra karṣter evārthas tasyaiva prāptatvāt | gautamīye bhū-śabdasya sattā-vācakatve'pi tad-dhātv-artha-sattaivocyate | ghaṭatvaṃ sattā-vācakam ity ukte ghaṭa-sattaiva gamyate na tu paṭa-sattā na vā sāmānya-satteti |
atha nivṛttir ānandas tayor aikyaṃ sāmānādhikaraṇyena vyaktaṃ yat paraṃ brahma sarvato'pi sarvasyāpi bṛṃhaṇaṃ vastu tat bṛhattamaṃ kṛṣṇa ity abhidhīyate kintu kṛṣer ākarṣa-mātrārthatvena ṇa-śabdasya ca pratipādyenānandena saha sāmānādhikaraṇyāsambhavād dhetu-mator abhedopacāraḥ kāryaḥ | tac cākarṣa-prācuryārtham āyur ghṛtam itivat | brahma-śabdasya tat-tad-arthatvaṃ ca bṛhattvād bṛṃhaṇatvāc ca tad brahma paramaṃ vidur iti viṣṇu-purāṇāt |
evam evoktaṃ bṛhad-gautamīye -
kṛṣi-śabdaś ca sattārtho ṇaś cānanda-svarūpakaḥ | sattā-svānandayor yogāt cit paraṃ brahma cocyate || iti |
advaya-vādibhir api sattānandayor aikyaṃ tathā mantavyam | śābdikair bhinnābhidheyatvena pratīteḥ | sattā-śabdena cātra sarveṣāṃ satāṃ pravṛtti-hetur yat paramaṃ sa tad evocyate | sad eva saumyedam agra āsīd iti śruteḥ | abhinnābhidheyatve'pi vṛkṣas tarur ityvad viśeṣaṇa-viśeṣyatvāyogād ekasya vaiyarthyāc ca | gautamīyaṃ padyaṃ caiva vyākhyeyam | pūrvārdhe sarvākarṣaṇa-śakti-viśiṣṭa ānandaḥ kṛṣṇa ity arthaḥ | uttarārdhe yasmād evaṃ sarvākarṣaka-sukha-rūpo'sau tasmād ātmā jīvaś ca tatra sukha-rūpo bhavet | tatra hetu-bhāvaḥ premā tanmayānandatvād iti |
tad evaṃ svarūpa-guṇābhyāṃ parama-bṛhattamaḥ sarvākarṣaka ānandaḥ kṛṣṇa-śabda-vācya iti jñeyam | sa ca śabdaḥ śrī-devakīnandana eva rūḍhaḥ | asyaiva sarvānandakatvaṃ vāsudevopaniṣadi dṛṣṭam - devakī-nandano nikhilam ānandayat iti | āhuś ca nāma-kaumudī-kārāḥ - kṛṣṇa-śabdasya tamāla-śyāmala-tviṣi śrī-yaśodā-stanandhaye para-brahmaṇi rūḍhiḥ iti | tataś cāsau śabdo nānyatra saṅkramaṇīyaḥ | yathāha bhaṭṭaḥ -
labdhātmikā satī rūḍhir bhaved yogāpahāriṇī |
kalpanīyā tu labhante nātmānaṃ yoga-bādhataḥ ||
iti para-brahmatvaṃ ca śrīmad-bhāgavate gūḍhaṃ paraṃ brahma manuṣya-liṅgam iti, yan-mitraṃ paramānandaṃ pūrṇaṃ brahma sanātanam iti | śrī-viṣṇu-purāṇe - yatrāvatīrṇaṃ kṛṣṇākhyaṃ paraṃ brahma narākṛti iti | śrī-gītāsu ca brahmaṇo hi pratiṣṭhāham iti | śrī-gopāla-tāpanīṣu ca yo'sau paraṃ brahma gopālaḥ iti |
atha mūlam anusarāmaḥ | yasmād eva tādṛk kṛṣṇa-śabda-vācyas tasmād īśvaraḥ sarva-vaśāyitā | tad idam upalakṣitaṃ bṛhad-gautamīye kṛṣṇa-śabdasyaivārthāntareṇa |
athavā karṣayet sarvaṃ jagat sthāvara-jaṅgamam | kāla-rūpeṇa bhagavān tenāyaṃ kṛṣṇa ucyate || iti |
kalayati niyamayati sarvam iti kāla-śabdārthaḥ | tathā ca tṛtīye tam uddiśoddhavasya pūrṇa eva nirṇayaḥ |
svayaṃ tv asāmyātiśayas tryadhīśaḥ svārājya-lakṣmy-āpta-samasta-kāmaḥ | baliṃ haradbhiś cira-loka-pālaiḥ kirīṭa-koṭy-eḍita-pāda-pīṭhaḥ || iti |
śrī-gītāsu viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti | śrī-gopāla-tāpanyām-eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ iti | yasmād eva tādṛg-īśvaraḥ, tasmāt paramaḥ | sarvotkṛṣṭā mā lakṣmī-rūpāḥ śaktayo yasmin | tad uktaṃ śrī-bhāgavate --reme ramābhir nija-kāma-samplutaḥ iti | nāyaṃ śriyo'ṅga u nitānta-rateḥ prasādaḥ ityādi | tatrātiśuśubhe tābhir bhagavān devakī-sutaḥ iti | tābhir vidhūta-śokābhir bhagavān acyuto vṛtaḥ | vyarocatādhikam iti ca | atraivāgre vakṣyate - śriyaḥ kāntāḥ kāntaḥ parama-puruṣaḥ iti | tāpanyāṃ ca -kṛṣṇo vai paramaṃ daivatam iti | yasmād eva tādṛk paramas tasmād ādiś ca | tad uktaṃ śrī-daśame -
śrutvājitaṃ jarāsandhaṃ nṛpater dhyāyato hariḥ | āhopāyaṃ tam evādya uddhavo yam uvāca ha || iti |
ṭīkā ca svāmi-pādānām - ādyo hariḥ śrī-kṛṣṇa ity eṣā | ekādaśe tu tasya śreṣṭhatvam ādyatvaṃ ca yugapad āha | puruṣam ṛṣabham ādyaṃ kṛṣṇa-saṃjñaṃ nato'smi iti |
na caitad āditvaṃ tad-avatārāpekṣaṃ kintu anādi na vidyate ādir yasya tādṛśaḥ | tāpanyāṃ ca -- eko vaśī sarvagaḥ kṛṣṇa īḍyaḥ ity uktvāha nityo nityānām iti ca yasmād eva tādṛśatayā ādis tasmāt sarva-kāraṇa-kāraṇam | tathā ca daśame taṃ prati devakī-vākyam -
yasyāṃśāṃśāṃśa-bhāgena viśvotpatti-layodayāḥ | bhavanti kila viśvātmaṃs taṃ tvādyāhaṃ gatiṃ gatā || iti |
ṭīkā ca - yasyāṃśaḥ puruṣas tasyāṃśo māyā tasyā aṃśā guṇās teṣāṃ bhāgena paramāṇu-mātra-leśena viśvotpatty-ādayo bhavanti | taṃ tvā tvāṃ gatiṃ śaraṇaṃ gatāsmi ity eṣā | tathā ca brahma-stutau - nārāyaṇo'ṅga nara-bhū-jalāyanāt iti |
narāj jātāni tattvāni nārāṇīti vidur budhāḥ |
tasya tāny ayanaṃ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ ||
ity anena lakṣito yo nārāyaṇaḥ sa tavāṅgaṃ tvaṃ punar aṅgīty arthaḥ | śrī-gītāsu viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat iti | tad evaṃ kṛṣṇa-śabdasya yaugikārtho'pi sādhitaḥ |
ye ca tac-chabdena kṛṣiṇābhyāṃ paramānanda-mātraṃ vācayanti te'pi īśvarādi-viśeṣaṇais tatra svābhāvikī śaktiṃ manyeran | tasmin na dvitīyatvena sarva-kāraṇatvena ca vastv-antara-śaktiṃ manyeran | tasmin na dvitīyatvena sarva-kāraṇatvena ca vastv-antara-śakty-āropāyogāt | tathā ca śrutiḥ - ānando brahma iti | ko hy evānyāt kaḥ prāṇyād yad eṣa ākāśa ānando na syāt | ānandād dhīmāni bhūtāni jāyante |
na tasya kāryaṃ karaṇaṃ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate | parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca || iti |
nanu sva-mate yoga-vṛttau ca sarvākarṣakaṃ parama-bṛhattamānandaḥ kṛṣṇa ity abhidhānāt avigraha eva sa ity avagamyate ānandasya vigrahānavagamāt | satyam | kintv ayaṃ paramo'pūrvaḥ pūrva-siddhānanda-vigrahaḥ iti | sac-cid-ānanda-lakṣaṇo yo vigrahas tad-rūpa evety arthaḥ | tathā ca śrī-daśame brahmaṇaḥ stave tvayy eva nitya-sukha-bodha-tanāv iti | tāpanī-hayaśīrṣayor api - sac-cid-ānanada-rūpāya kṛṣṇāyākliṣṭa-kāriṇe iti | brahmāṇḍe ca śrī-kṛṣṇāṣṭottara-śata-nāma-stotre nanda-vraja-janānandī sac-cid-ānanda-vigrahaḥ iti |
etad uktaṃ bhavati | sattvaṃ khalv avyabhicāritvam ucyate tad-rūpatvaṃ ca tasya śrī-daśame brahmādi-vākye -
satye pratiṣṭhitaḥ kṛṣṇaḥ satyam atra pratiṣṭhitam | satyāt satyaṃ ca govindas tasmāt satyo hi nāmataḥ || iti |
śrī-devakī-vākye ca --
naṣṭe loke dvi-parārdhāvasāne
mahā-bhūteṣv ādi-bhūtaṃ gateṣu |
vyakte 'vyaktaṃ kāla-vegena yāte
bhavān ekaḥ śiṣyate 'śeṣa-saṃjñaḥ ||
martyo mṛtyu-vyāla-bhītaḥ palāyan lokān sarvān nirbhayaṃ nādyagacchat | tat-pādābjaṃ prāpya yadṛcchayādya svasthaḥ śete mṛtyur asmād apaiti || ity ādi |
eko'si prathamam ity ādi śrī-brahmaṇo vākye tad amitaṃ brahmādvayaṃ śiṣyate iti | śrī-gītāsu brahmaṇo hi pratiṣṭhāham iti |
yasmāt kṣaram atīto'ham akṣarād api cottamaḥ | ato'smi loke vede ca prathitaḥ puruṣottamaḥ || iti |
tāpanyām -
janma-jarābhyāṃ bhinnaḥ sthānur ayam acchedyo'yaṃ yo'sau saurye tiṣṭhati | yo'sau goṣu tiṣṭhati, yo'sau gāḥ pālayati, yo'sau gopeṣu tiṣṭhati govindān mṛtyur bibheti || ity ādi ca | tatra pūrvatra saurya iti | saurī yamunā, tad adūra-deśe vṛndāvane ity arthaḥ |
atha cid-rūpatvaṃ sva-prakāśatvena para-prakāśatvam | tac coktaṃ śrī-daśame brahmaṇā ekas tvam ātmā ity ādau svayaṃ jyotīr iti | tāpanyāṃ -
yo brahmāṇaṃ vidadhāti pūrvaṃ yo vidyāstasmai gopāyati sma kṛṣṇaḥ | taṃ ha daivamātmabuddhiprakāśaṃ mumukṣurvai śaraṇamanuvrajeta || iti |
na cakṣuṣā paśyati rūpam asya yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vṛṇute tanuṃ svām || ity śruty-antaravat |
yathānanda-svarūpatvaṃ sarvāṃśena nirupādhi-parama-premāspadatvam | tac ca śrī-daśame brahma-stavānte - brahman parodbhave kṛṣṇe ity-ādi-praśnottarayor vyaktam | tathā cānubhūtam ānakadundubhinā --
vidito 'si bhavān sākṣāt puruṣaḥ prakṛteḥ paraḥ kevalānubhavānanda- svarūpaḥ sarva-buddhi-dṛk || iti |
ānandaṃ brahmaṇo rūpaṃ iti śruty-antaravat |
tad evaṃ tasya sac-cid-ānanda-vigraha-rūpatve siddhe, vigraha evātmā tathātmaiva vigraha iti siddham | tato jīvavad dehitvaṃ tasya nety api siddhāntitam | yathoktaṃ śrī-śukena -
kṛṣṇam enam avehi tvam ātmānam akhilātmanām | jagad-dhitāya so'py atra dehīvābhāti māyayā || iti |
tathāpi tasya dehival-līlā-kṛpā-paravaśatayaivety arthaḥ | māyā dambhe kṛpāyāṃ ca iti viśva-prakāśaḥ | tad evam asya tathā tathā-lakṣaṇa-śrī-kṛṣṇa-rūptave siddhe cobhaya-līlābhiniviṣṭatvena kvacid vṛṣṇīndratvaṃ kvacid govindatvaṃ ca dṛśyate | tathāha dvādaśe śrī-sūtaḥ --
śrī-kṛṣṇa-kṛṣṇa-sakha-vṛṣṇy-ṛṣabhāvani-dhrug- rājanya-vaṃśa-dahanānapavargya-vīrya | govinda gopa-vanitā-vraja-bhṛtya-gīta- tīrtha-śravaḥ śravaṇa-maṅgala pāhi bhṛtyān || iti |
tad evam api svābhīṣṭa-rūpa-līlā-parikara-viśiṣṭatayā govindatvam eva svārādhyatvena yojayati govinda iti | yathā atraivāgre stoṣyate cintāmaṇi-prakara-sadmasu kalpa-vṛkṣa iti | abhiṣekānte govinda iti cābhyadhāt ity uktvā tat prakaraṇārambhe śrī-śuka-prārthanā prīyān na indro gavām iti gavāṃ sarvāśrayatvād gavendratvenaiva sarvendratva-siddheḥ | na cedaṃ nyūnaṃ mantavyam | tathā hi go-sūktam -
gobhyo yajñāḥ pravartante gobhyo devāḥ samutthitāḥ | gobhir vedāḥ samudgīrṇāḥ ṣaḍ-aṅga-padaka-kramāḥ || iti |
astu tāvat parama-golokāvatīrṇānāṃ tāsāṃ gavām indratvam iti tāpanīṣu ca brahmaṇā tadīyam eva svenārādhanaṃ prakāśitam -- govindaṃ sac-cid-ānanda-vigrahaṃ vṛndāvana-sura-bhūruha-talāsīnaṃ satataṃ samarud-gaṇo'haṃ toṣayāmi | iti |
tathaiva daśame -- tad bhūri bhāgyam iha janma kim apy aṭavyām ity ādi, śrī-nanda-nandanatvenaiva ca taṃ labdhuṃ prārthanā | naumīḍya te'bhra-vapuṣe taḍid-ambarāya ity ādi paśupāṅgajāya iti | tad evaṃ govinda-śabdasya nānā-pāramaiśvarya-mayy anyārthatāpi tena nābhimatā | tathā coktaṃ - īśvaratve parameśvaratvānuvāda-pūrvaka-tātparyāvasānatayā gautamīya-tantre śrīmad-daśākṣara-mantrārtha-kathane -
gopīti prakṛtiṃ vidyāj janas tattva-samūhakaḥ |
anayor āśrayo vyāptyā kāraṇatvena ceśvaraḥ |
sāndrānandaṃ paraṃ jyotir vallabhatvena kathyate ||
athavā gopī prakṛtir janas tad-aṃśa-maṇḍalam |
anayor vallabhaḥ proktaḥ svāmī kṛṣṇākhya īśvaraḥ ||
kārya-kāraṇayor īśaḥ śrutibhis tena gīyate ||
aneka-janma-siddhānāṃ gopīnāṃ patir eva vā |
nanda-nandana ity uktas trailokyānanda-vardhanaḥ || iti.
prakṛtim iti māyākhyāṃ jagat-kāraṇa-śaktim ity arthaḥ tattva-samūhako mahad-ādi-rūpaḥ | anayor āśrayaḥ sāndrānandaṃ paraṃ jyotir īśvarao vallabha-śabdena kathyate | īśvaratve hetur vyāptyā kāraṇatvena ceti | prakṛtir iti svarūpa-bhūtā māyātītā vaikuṇṭhādau prakāśamānā mahā-lakṣmy-ākhyā śaktir ity arthaḥ | aṃśa-maṇḍalaṃ saṅkarṣaṇādi-rūpam | aneka-janma-siddhānām ity atra | bahūni me vyatītāni janmāni tava cārjuna iti śrī-bhagavad-gītā-vacanām anādi-janma-paramparāyām eva tātparyam |
tad evam atrāpi nanda-nandanatvam evābhimataṃ śrī-gargeṇa ca yathoktam | prāg ayaṃ vāsudevasya kvacij jātas tavātmajaḥ iti | ātmajatvaṃ hi tasya śrī-vasudevasyāpi manasy āvirbhūtatvam evābhimatam | āviveśāṃśa-bhāgena mana ānakadundubheḥ iti | śrī-devakyām api dadhāra sarvātmakam ātma-bhūtaṃ kāṣṭhā yathānanda-karaṃ manastaḥ ity ādeḥ | śrī-vrajeśvarayo'pi tathāsīd eva phalena phala-kāraṇam anumīyate | śrī-bhagavat-prādurbhāvasya pūrvāvyavahita-kālaṃ vyāpya tathā tathā sarvatra darśanāt | kintv ātmani tasyāvirbhāve saty apy ātmajatvāya pitṛ-bhāva-maya-śuddha-mahā-premaiva prayojakam | brahmaṇaḥ sakāśād varāha-devasyāvirbhāve'pi parasparaṃ tathā bhāva-darśanābhāvāt | tathā nṛsiṃha-devaḥ stambhayor api | na ca vaktavyam udara-praveśe sati putratvaṃ syāt | parīkṣid-rakṣaṇārthaṃ tan-mātur udara-praviṣṭe ca tayos tādṛśa-vyavahārābhāvāt | tasmāt vātsalyābhidha-premaiva putratve kāraṇam | tādṛśa-śuddha-premā tu śrī-vrajeśvarayor eva śrī-vasudeva-devakyos tu paramaiśvarya-jñānaṃ pratibandhakaṃ iti sādhūktaṃ prāg ayaṃ vasudevasya iti |
atha śrī-śukadevena tathaiva nirṇītaṃ nāyaṃ sukhāpo bhagavān dehināṃ gopikā-sutaḥ iti | āgama-vidbhir api sakala-loka-maṅgalo nanda-gopa-tanayo devatā iti | ataḥ śrīmad-daśākṣara-viniyoge'pi tan-maya eva dṛśyate iti | atha viśeṣaḥ śrī-vaiṣṇava-toṣaṇyāṃ nandas tv ātmaja utpannaḥ ity ādau draṣṭavyaḥ |
2cedd43dfbe1 · опубликовано 29 июл. 2026 г., 17:34:18 UTC
Доступно наRUЛистайте стихи клавишами
Поклон Шри Шри Радхе и Кришне.
Тот Шри Рупа, чей старший брат — достославный Санатана, ему равный, а младший брат — Шри Валлабха, да будет благим прибежищем Дживы.
Да возвеличится в сердце моём величие облика Шри Кришны, по чьей милости желаю я истолковать «Брахма-самхиту».
Предание риши, хотя и трудно связуемое, при добром разборе оказывается складным; в моём же здешнем разборе да будет мне прибежищем тот риши среди риши.
Хотя самхита эта снабжена сотней глав, всё же эта одна глава, имея облик сутры, вобрала в себя все её части.
То самое, что усмотрено чистыми разумом в «Шримад-Бхагаватам» и прочих книгах, затронуто и здесь, — оттого радуется ум мой.
Всё, что подробно установлено мною в «Кришна-сандарбхе», того я здесь, вновь обдумав, касаюсь ради истолкования.
И вот: то, что сказано в «Шримад-Бхагаватам» — «все они суть части и доли Пуруши, Кришна же — Сам Бхагаван», — он и высказывает первым, словом «ишвара».
Здесь определяемое — именно «Кришна», и это Его собственное имя: по общему употреблению Шри Шуки и великих в местах вроде «праздник нисхождения Кришны», и в «Кришне, Васудеве, сыну Деваки» и далее в Сама-упанишаде; потому что узнаётся оно первым; потому что Гарга, явивший разряд Его имён, назвал его первым; и потому что в той мантре, ради которой начато всё это, оно известно прежде прочего, будучи коренною формой.
О том сказано в «Падма-пуране», в Прабхаса-кханде, в беседе Нарады и Кушадхваджи, в речи Самого Господа: «Главнейшее из имён — имя Моё „Кришна“, о карающий врагов».
Потому же в «Брахманда-пуране», в гимне ста восьми имён Шри Кришны: «Какой плод от троекратного повторения тысячи святых имён, тот дарует одно имя Кришны». Здесь сказано именно «Шри Кришны». А что далее Он будет воспет именем «Говинда», то, при всей Его «кришновости», — лишь чтобы показать особость Его владычества над коровами.
Итак, первенство установлено по закреплённости имени, и определения Его — «ишвара» и прочие. Но то же усматривается и через качество, как говорит Гарга:
«Три цвета были у Него, принимающего тела из века в век: белый, красный, а также жёлтый; ныне же Он пришёл к черноте.
Много есть имён и обликов у сына твоего, сообразных качествам и делам; их знаю я, а люди — нет».
Смысл этих двух стихов таков. У Него, зримого как Кришна, принимающего — то есть являющего — из века в век тела, разные нисхождения, были, то есть обрели проявление, трое: белый и прочие. И то, и это нисхождение — белое и прочие — ныне, во время Его собственного нисхождения, вошли в тело Кришны, заключены именно в Нём. Потому, поскольку деятельность — в Кришне и поскольку Он превосходит всех, «Кришна» — имя главное; и потому облики эти — Его же, как и говорит Гарга словами «много есть имён».
Итак, первенство этого имени Кришны установлено и через качество, на него указывающее. Далее — производное значение:
«Слог кṛṣ означает бытие, а ṇa означает отраду; единство их — высший Брахман, что именуется „Кришна“».
Так и при производном значении получается, что Он таков. И стих этот не о чём-то ином: в «Гаутамия-тантре», тантре Его почитания, в толковании восемнадцатисложной мантры усматривается стих, равный этому:
«Слово кṛṣi имеет смысл бытия, а ṇa есть сама природа блаженства; и душа делается образом счастья оттого, что состоит из блаженства бытия».
Потому смысл таков. «От него бывает всё» — таково bhū, названное значением корня, как в слове «бхава» и подобных; и здесь это значение корня karṣ, поскольку именно он здесь наличен. В «Гаутамии» же у слова bhū, хотя оно и означает бытие, разумеется именно бытие того корня: когда сказано «горшковость означает бытие», разумеется именно бытие горшка, а не бытие ткани и не бытие вообще.
Далее: nivṛtti есть блаженство. Единство их двух выражено приложением к одному предмету: то, что есть высший Брахман — сущее, что растит всё и во всём, то величайшее, — именуется «Кришна». Но поскольку кṛṣ значит лишь «влечь», а слог ṇa — вместе с означаемым им блаженством, и приложение обоих к одному предмету невозможно, надлежит принять неразличение причины и обладателя причины; и это ради полноты привлечения, как в речении «жизнь есть топлёное масло». А что слово «брахман» имеет эти значения — по величию и по взращиванию — видно из «Вишну-пураны»: «то знают как высший Брахман».
Так же сказано и в «Брихад-гаутамии»: «Слово кṛṣi имеет смысл бытия, а ṇa есть природа блаженства; от соединения бытия и своего блаженства зовётся Он сознанием и высшим Брахманом».
И держащимся недвойственности должно мыслить единство бытия и блаженства так же, ибо грамматики видят у них разные означаемые. И словом «бытие» здесь разумеется то высшее, что есть причина деятельности всего сущего, — по слову шрути: «Сущее одно было вначале, милый». Хотя означаемое и не различно — как в «древо есть дерево», — иначе не выходит ни определяющего, ни определяемого, и одно из двух было бы лишним.
И стих «Гаутамии» надлежит истолковать так. В первой половине смысл: блаженство, наделённое силой всепривлечения, и есть «Кришна». Во второй: поскольку Он есть всепривлекающий образ счастья, постольку и душа, то есть джива, делается там образом счастья; причиною же тому — према, ибо она состоит из того же блаженства.
Итак, надлежит знать: и по природе, и по качеству величайший из великих, всепривлекающее блаженство и есть означаемое словом «Кришна». И слово это закреплено именно за сыном Деваки. Что Он и есть всерадующий, усматривается в «Васудева-упанишаде»: «Сын Деваки обрадовал всё». И говорят составители «Нама-каумуди»: «У слова „Кришна“ — закреплённость в том, чей блеск тёмен, как дерево тамала, в сосавшем грудь Шри Яшоды, в высшем Брахмане». И потому слово это не должно переноситься на иное, как говорит Бхатта:
«Закреплённость, обретшая собственное существо, отнимает силу у производного значения; а лишь измышляемые не обретают себя, ибо производное им препятствует».
А что Он есть высший Брахман, — в «Шримад-Бхагаватам»: «сокрытый высший Брахман в человеческом облике»; «чей друг — высшее блаженство, полный, вечный Брахман». В «Шри Вишну-пуране»: «где нисшёл именуемый Кришной высший Брахман в человеческом виде». В «Шри Гите»: «ибо Я — основание Брахмана». В «Шри Гопала-тапани»: «тот высший Брахман есть Гопала».
Теперь последуем самому тексту. Поскольку Он именно таков, означаемый словом «Кришна», постольку Он — «ишвара», тот, кому всё подвластно. На это указано в «Брихад-гаутамии» иным значением того же слова «Кришна»:
«Или же: Он влечёт всё мироздание, недвижное и движущееся, — Господь в облике времени; потому и зовётся Он Кришной».
«Исчисляет, то есть правит всем» — таково значение слова «кала». И так в третьей песни об Нём у Уддхавы дано полное определение:
«Сам же, не имеющий ни равного, ни высшего, владыка трёх, чьи желания все исполнены богатством собственного царства, чья подножная скамья почитаема мириадами венцов вечных хранителей миров, приносящих дань».
В «Шри Гите»: «пронизав всё это, одною частью стою Я — мир». В «Шри Гопала-тапани»: «един, властвующий, вездесущий Кришна, достойный хвалы».
Поскольку Он именно таков как владыка, постольку Он «парама» — тот, в ком пребывают превосходнейшие «ма», силы в образе Лакшми. О том сказано в «Шри Бхагаватам»: «наслаждался с Рамами, полный собственного желания»; «не таков, о милый, дар Шри, безмерно привязанной» и далее; «там воссиял Он с ними, Господь, сын Деваки»; и ещё: «окружённый ими, чья скорбь рассеяна, Господь Ачьюта воссиял ещё более». И здесь же далее будет сказано: «возлюбленные — Шри, возлюбленный — верховный Пуруша». И в «Тапани»: «Кришна поистине — высшее божество».
Поскольку Он именно таков как высший, постольку Он и «ади», начало. О том сказано в Десятой песни: «Услышав о непобеждённом Джарасандхе, у размышлявшего царя Хари, Изначальный, назвал то самое средство, которое высказал Уддхава». И толкование стоп Свами таково: «Изначальный Хари — это Шри Кришна». В Одиннадцатой же Его превосходство и первенство высказаны разом: «Пуруше, быку среди мужей, изначальному, именуемому Кришной, я поклонился».
И первенство это — не в отношении Его же нисхождений; но Он — «анади», безначальный: таков, у кого нет начала. И в «Тапани», сказав «един, властвующий, вездесущий Кришна, достойный хвалы», говорит и «вечный среди вечных».
Поскольку Он именно так есть начало, постольку Он — причина всех причин. И так в Десятой песни слово Деваки, к Нему обращённое: «Частью части части части кого бывают творение, гибель и восход мира, — к Тебе, Изначальному, о душа вселенной, я пришла как к прибежищу». И толкование: «чья часть — Пуруша, его часть — майя, её части — гуны; их долею, малостью с одну лишь частицу, бывают творение мира и прочее; к Тебе я пришла как к прибежищу».
И так в славословии Брахмы: «Нараяна, о милый, ибо воды рождены от нары». «От нары рождённые начала мудрые знают как „нара“; они изначально — Его пристанище, потому и зовётся Он Нараяной». Тот Нараяна, что этим означен, — он Твоё тело, Ты же — обладатель тела; таков смысл. В «Шри Гите»: «пронизав всё это, одною частью стою Я — мир».
Итак, у слова «Кришна» установлено и производное значение.
А те, кто этим словом, через кṛṣ и ṇa, заставляют обозначать одно лишь высшее блаженство, — и те по определениям «ишвара» и прочим должны признать в Нём собственную силу: ибо в Нём нет второго и Он причина всего, и потому силу иной вещи вложить в Него нельзя. И так говорит шрути: «Блаженство есть Брахман». «Кто бы дышал, кто бы жил, если бы этот простор не был блаженством? Из блаженства рождаются эти существа». «Нет у Него ни дела, ни орудия, и не видно ни равного Ему, ни высшего; о высшей силе Его слышно как о многообразной, прирождённой — знанием, мощью и действием».
— Но ведь и по твоему взгляду, и при производном значении, поскольку всепривлекающее, высшее, величайшее блаженство зовётся «Кришна», выходит, что Он бестелесен: у блаженства ведь тела не усматривают.
— Верно. Но Он — высший и небывалый, прежде утверждённый как «облик блаженства»: тот облик, чей признак — бытие, сознание и блаженство, Он и есть тот самый образ; таков смысл. И так в Десятой песни, в славословии Брахмы: «в Тебе, чьё тело — вечные счастье и сознание». И в «Тапани», и в «Хаяширше»: «имеющему образ бытия, сознания и блаженства, Кришне, действующему без труда». И в «Брахманде», в гимне ста восьми имён Шри Кришны: «радующий людей Враджи Нанды, чей облик — бытие, сознание, блаженство».
Этим сказано вот что. «Бытием» зовётся неизменность, и что Он есть её образ — в Десятой песни, в речи Брахмы и прочих: «В истине утверждён Кришна, и истина утверждена в Нём; истина истины — Говинда, потому и зовётся Он Сатьей».
И в речи Шри Деваки: «Когда мир гибнет на исходе двух парардх, когда великие стихии уходят в первостихию, когда явленное силою времени уходит в неявленное, — Ты один остаёшься, именуемый Бесконечным. Смертный, в страхе бегущий от змея смерти, обошёл все миры и бесстрашия не нашёл; ныне же, волею случая обретя Твои лотосные стопы, он спит спокойно, и смерть от него отступает» — и далее.
«Ты один был вначале» и далее — в речи Шри Брахмы: «остаётся тот безмерный недвойственный Брахман». В «Шри Гите»: «ибо Я — основание Брахмана»; «Поскольку Я превзошёл тленное и выше нетленного, потому в мире и в Веде прославлен Я как Пурушоттама».
В «Тапани»: «Отделён от рождения и старости, недвижен Он, нерассекаем Он — тот, кто пребывает у Сурьевой, тот, кто пребывает среди коров, тот, кто пасёт коров, тот, кто пребывает среди пастухов; Говинды страшится смерть» — и далее. Там, ранее, сказано «у Сурьевой»: Сурьева — это Ямуна, то есть в недалёком от неё Вриндаване; таков смысл.
Далее — что Он есть образ сознания: самосветящийся и освещающий иное. И это сказано Брахмою в Десятой песни, в словах «Ты — единая Душа» и далее, речением «сам себе свет». В «Тапани»: «Кто вначале сотворил Брахму, кто хранил для него знания — Кришна; к тому божеству, свету разума души, пусть ищущий свободы идёт как к прибежищу». «Не видит глаз облика Его; кого Он избирает, тем и обретаем, тому эта Душа открывает Своё тело» — как и в другом речении шрути.
А что Он есть сама природа блаженства — это значит быть всецело вместилищем безусловной высшей премы. И это явлено в Десятой песни, в конце славословия Брахмы, в вопросе и ответе: «о брахман, к Кришне, рождённому свыше» и далее. И так испытано Анакадундубхи: «Ты познан как Сам Пуруша, что выше пракрити, чья природа — чистое блаженство переживания, зрящий все умы». «Блаженство есть облик Брахмана» — как и в другом речении шрути.
Итак, поскольку у Него установлен образ бытия, сознания и блаженства, установлено и то, что тело и есть Он Сам, и Он Сам и есть тело; и потому телесность Его, как у дживы, отвергнута выводом. Как сказано Шри Шукой: «Знай, что этот Кришна есть Душа всех душ, и ради блага мира Он здесь по милости кажется имеющим тело». И всё же игра Его, подобная телесной, — лишь по подвластности милосердию; таков смысл. «Майя — в значении притворства и милости», — так в словаре «Вишва-пракаша».
Итак, поскольку установлен у Него облик Шри Кришны с такими признаками и поскольку Он погружён в обе игры, где-то усматривается владычество над Вришни, а где-то — «говиндовость». Так говорит Шри Сута в Двенадцатой песни: «О Шри Кришна, о друг Кришны, о бык среди Вришни, о сжигающий царские роды, врагов земли, чья доблесть не иссякает; о Говинда, чья слава воспета пастушками, Враджей и слугами, чей слух свят, чьё слушание благо, — защити слуг Своих».
И всё же именно «говиндовость» — как отличённую желанным Ему обликом, игрой и окружением — он полагает предметом своего поклонения, словом «говинда». Как здесь же далее будет воспето: «в чертогах из груд чинтамани, среди древ желаний»; и «по окончании омовения нарёк Его Говиндой». Сказав так, в начале того раздела он приводит молитву Шри Шуки: «Да будет милостив к нам владыка коров», — ибо коровы суть опора всего, и владычеством над ними установлено владычество над всем.
И не должно счесть это умалением, ибо так гласит «Го-сукта»: «От коров исходят жертвоприношения, от коров восстали боги, коровами изречены Веды с шестью частями, падой и крамой».
Пусть даже будет у Него владычество лишь над теми коровами, что нисшли с высшей Голоки, — и в «Тапани» Брахмою явлено собственное его поклонение именно Ему: «Говинду, чей облик — бытие, сознание, блаженство, сидящего под небесным древом Вриндавана, я вместе с сонмом Марутов непрестанно радую».
Так же и в Десятой: «Великая то удача — рождение здесь, хоть бы и в лесу» и далее; и молитва об обретении Его — именно как сына Шри Нанды: «Славлю Тебя, достохвальный, чьё тело как туча, чьё одеяние — молния» и далее, «сыну пастуха».
Итак, иное значение слова «Говинда», полное разных высших величий, им не принято. И так сказано — с предварительным повторением о верховном владычестве и с завершением в главном смысле — в «Гаутамия-тантре», при изложении смысла десятисложной мантры:
«Под „гопи“ да разумеют пракрити, „джана“ — совокупность начал; прибежище тех двух — по проникновению и по причинности — Ишвара, густое блаженство, высший свет, назван словом „валлабха“.
Или же: гопи — пракрити, джана — круг её частей; возлюбленным тех двух назван владыка, Ишвара по имени Кришна; владыкой следствия и причины потому и воспет Он в шрути.
Или же — просто супруг гопи, достигших через многие рождения; назван Он сыном Нанды, умножающим блаженство трёх миров».
«Пракрити» — то есть именуемую майей, силу, что есть причина мира; таков смысл. «Совокупность начал» — в виде махат и прочего. Прибежище этих двух — густое блаженство, высший свет, Ишвара — назван словом «валлабха»; основание же владычества — «по проникновению и по причинности». Во втором стихе «пракрити» — та, что принадлежит Его собственной природе, превыше майи, сияющая на Вайкунтхе и далее, сила, именуемая Маха-Лакшми; таков смысл. «Круг частей» — в виде Санкаршаны и прочих. В словах «достигших через многие рождения» главный смысл — в безначальной череде рождений, по речению «Шри Бхагавад-гиты»: «Много у Меня прошло рождений, и у тебя, Арджуна».
Итак, и здесь принято именно то, что Он — сын Нанды, как сказано и Шри Гаргой: «Прежде Он был у Васудевы, где-то рождался как сын твой». Ибо сыновство Его и у Шри Васудевы принято как явление в уме: «вошёл частью Своей доли в ум Анакадундубхи». И о Шри Деваки: «Она понесла Всеобщего, ставшего её же душою, из ума, как восток — дарующего радость» и далее. И у владык Враджи было именно так: по плоду заключают о причине плода, охватывая время, непосредственно предшествующее явлению Господа, — поскольку так видно повсюду.
Но даже при явлении Его в душе движущей причиной сыновства служит лишь чистая великая према отцовства: ибо хотя Вараха-дева и явился от Брахмы, такого взаимного чувства меж ними не наблюдается; так же и Нрисимха-дева — из столба. И нельзя сказать, будто сыновство бывает от вхождения в чрево: ведь войдя в чрево матери Парикшита ради его защиты, Он не вступил с нею в такое отношение. Потому лишь према, именуемая ватсальей, есть причина сыновства. А такая чистая према — лишь у владык Враджи; у Шри Васудевы же и Деваки знание о высшем величии служит помехой. Потому и сказано верно: «Прежде Он был у Васудевы».
Далее, Шри Шукадевой решено точно так же: «Не легко обретаем этот Господь для воплощённых — сын пастушки». И знатоками агам: «Божество — сын пастуха Нанды, благо для всех миров». Потому и в применении десятисложной мантры усматривается именно Он. Подробности же следует смотреть в «Шри Вайшнава-тошани», к словам «а у Нанды родился сын» и далее.