दिग्दर्शनी टीका
Dig-darśinī ṭīkā, Chapter Five5.5
5 / 62
दिग्दर्शनी टीका · 5.5
देवनागरी

चतुर्-अस्रं तत्-परितः श्वेतद्वीपाख्यम् अद्भुतम् चतुर्-अस्रं चतुर्-मूर्तेश् चतुर्-धाम चतुष्-कृतम् चतुर्भिः पुरुषार्थैश् च चतुर्भिर् हेतुभिर् वृतम् शूलैर् दशभिर् आनद्धम् ऊर्ध्वाधो दिग्-विदिक्ष्व् अपि अष्टभिर् निधिभिर् जुष्टम् अष्टभिः सिद्धिभिस् तथा मनु-रूपैश् च दशभिर् दिक्-पालैः परितो वृतम् श्यामैर् गौरैश् च रक्तैश् च शुक्लैश् च पार्षदर्षभैः शोभितं शक्तिभिस् ताभिर् अद्भुताभिः समन्ततः

लिप्यंतरण (IAST)

catur-asraṃ tat-paritaḥ śvetadvīpākhyam adbhutam catur-asraṃ catur-mūrteś catur-dhāma catuṣ-kṛtam caturbhiḥ puruṣārthaiś ca caturbhir hetubhir vṛtam śūlair daśabhir ānaddham ūrdhvādho dig-vidikṣv api aṣṭabhir nidhibhir juṣṭam aṣṭabhiḥ siddhibhis tathā manu-rūpaiś ca daśabhir dik-pālaiḥ parito vṛtam śyāmair gauraiś ca raktaiś ca śuklaiś ca pārṣadarṣabhaiḥ śobhitaṃ śaktibhis tābhir adbhutābhiḥ samantataḥ

शब्दशः अर्थ
संस्कृतIASTअर्थ
चतुर्-अस्रं तत्-परितःcatur-asraṃ tat-paritaḥчетырёхугольное вокруг него; квадратное окрест
श्वेतद्वीपाख्यम् अद्भुतम्śvetadvīpākhyam adbhutamдивное, именуемое Шветадвипой; чудесное, носящее имя Белого острова
चतुर्-अस्रं चतुर्-मूर्तेश्catur-asraṃ catur-mūrteśчетырёхугольное, четырёхобразного; квадратное, принадлежащее Четверообразному
चतुर्-धाम चतुष्-कृतम्catur-dhāma catuṣ-kṛtamчетыре обители, вчетверо устроенное; четырёхчастное жилище, сделанное четырежды
चतुर्भिः पुरुषार्थैश् चcaturbhiḥ puruṣārthaiś caи четырьмя целями человека; и четырьмя пурушартхами
चतुर्भिर् हेतुभिर् वृतम्caturbhir hetubhir vṛtamокружённое четырьмя основаниями; обнесённое четырьмя причинами
शूलैर् दशभिर् आनद्धम्śūlair daśabhir ānaddhamобнесённое десятью трезубцами; укреплённое десятью копьями
ऊर्ध्वाधो दिग्-विदिक्ष्व् अपिūrdhvādho dig-vidikṣv apiвверху, внизу, по сторонам и промежуткам; горе́, долу и по всем направлениям
अष्टभिर् निधिभिर् जुष्टम्aṣṭabhir nidhibhir juṣṭamнаделённое восемью сокровищами; снабжённое восемью кладами
अष्टभिः सिद्धिभिस् तथाaṣṭabhiḥ siddhibhis tathāи восемью совершенствами; равно как восемью сиддхи
मनु-रूपैश् च दशभिर्manu-rūpaiś ca daśabhirи десятью в облике мантр; и десятью, имеющими вид манов
दिक्-पालैः परितो वृतम्dik-pālaiḥ parito vṛtamокружённое хранителями сторон света; обнесённое кругом стражами направлений
श्यामैर् गौरैश् चśyāmair gauraiś caтёмными и златыми; смуглыми и светлыми
रक्तैश् च शुक्लैश् चraktaiś ca śuklaiś caкрасными и белыми; алыми и белоснежными
पार्षदर्षभैःpārṣadarṣabhaiḥлучшими из спутников; быками среди приближённых
शोभितं शक्तिभिस् ताभिर्śobhitaṃ śaktibhis tābhirукрашенное теми шакти; блистающее теми силами
अद्भुताभिः समन्ततःadbhutābhiḥ samantataḥдивными, со всех сторон; чудесными, повсюду
अनुवाद

Вокруг него — дивная четырёхугольная область, именуемая Шветадвипой: четырёхугольная, принадлежащая Четверообразному, вчетверо устроенная как четыре обители, окружённая четырьмя целями человека и четырьмя основаниями, обнесённая десятью трезубцами вверху, внизу и по всем сторонам, наделённая восемью сокровищами и восемью совершенствами и кругом обставленная десятью хранителями сторон света в облике мантр; и всё это украшено лучшими из спутников — тёмными, златыми, красными и белыми — и теми дивными шакти со всех сторон.

Dig-darśinī ṭīkā of Jīva Gosvāmī
देवनागरी

अथ गोकुलावरणान्य् आह चतुरस्रम् इति चतुर्भिः । तस्य गोकुलस्य बहिः सर्वतश् चतुरस्रं चतुष्कोणात्मकं स्थानं श्वेतद्वीपाख्यम् । तद् एतद् उपलक्षणं गोलोकाख्यं चेत्य् अर्थः । यद्यपि गोकुले श्वेतद्वीपत्वम् अस्त्य् एव तद्-अवान्तर-भूमिमयत्वात् । तथापि विशेष-नाम्नोक्तत्वात् तेनैव तत् प्रतीयते इति तथोक्तम् । किन्तु चतुरस्रेऽप्य् अन्तर्-मण्डलं श्री-वृन्दावनाख्यं ज्ञेयम् । तथा च स्वायम्भुवागमे - ध्यायेत् तत्र-विशुद्धात्मा इदं सर्वं क्रमेण च इत्य् आदिकम् उक्त्वा तन्-मध्ये वृन्दावनं कुसुमितं नाना-वृक्ष-विहङ्गमं संस्मरेत् इत्य् उक्तम् । तथा च बृहद्-वामने श्रुतीनां प्रार्थना पूर्वकाणि पद्यानि

आनन्द-मात्रम् इति यद् वदन्ति हि पुराविदः ।

तद्-रूपे दर्शयास्माकं यदि देयो वरो हि नः ॥

श्रुत्वैतद् दर्शयामास स्वं लोकं प्रकृतेः परम् ।

केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥

यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः । मनोरम-निकुञ्जाढ्यं सर्वर्तु-सुख-संयुतम् ॥ इत्य् आदि तच् च चतुरस्रम् ।

चतुर्-मूर्तेश् चतुर्-व्यूहस्य वासुदेवादि-चतुष्टयस्य । चतुष्कृतं चतुर्धा विभक्तम् चतुर्-धाम । किन्तु देव-लीलत्वात् तद्-उपरि-व्योम-यान-स्था एव ज्ञेया हेतुभिः । तत्-पुरुषार्थ-साधनैः । मनु-रूपैः स्व-स्व-मन्त्रात्मकैः । दिक्-पालैः इन्द्रादिभिः । श्यामादयः चत्वारो वेदाः तैर् इत्य् अर्थः । कृष्णं च तत्र छन्दोभिः स्तूयमानं सुविस्मिताः इति दशमात् । शक्तिभिः विमलादिभिः ।

तद् एवं गोलोक-नामा अयं लोकः श्री-भागवते साधितः ।

नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोक-पाल-महोदयम् ।

कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् ॥

ते चौत्सुक्य-धियो राजन् मत्वा गोपास् तम् ईश्वरम् ।

अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरम् ॥

इति स्वानां स भगवान् विज्ञायाखिल-दृक् स्वयम् ।

सङ्कल्प-सिद्धये तेषां कृपयैतद् अचिन्तयत् ॥

जनो वै लोक एतस्मिन्न् अविद्या-काम-कर्मभिः ।

उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥

इति सञ्चिन्त्य भगवान् महा-कारुणिको हरिः ।

दर्शयामास लोकं स्वं गोपानां तमसः परम् ॥

सत्यं ज्ञानम् अनन्तं यत् ब्रह्म ज्योतिः सनातनम् ।

यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥

ते तु ब्रह्म-ह्रदं नीता मग्नाः कृष्णेन चोद्धृताः ।

ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा ॥

नन्दादयस् तु तं दृष्ट्वा परमानन्द-निर्वृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ इति ।

अतीन्द्रियम् अदृष्ट-पूर्वम् । स्व-गतिं स्व-धाम । सूक्ष्मां दुर्ज्ञेयाम् । उपाधास्यन् उपधास्यति । अस्मान् प्रापयिष्यतीत्य् अर्थः । इति सङ्कल्पितवन्त इति शेषः । जनोऽसौ व्रज-वासी मम स्वजनः । सालोक्य-सार्ष्टि- इत्य् आदि पद्ये जना इतिवद् उभयत्राप्य् अन्य-जनत्वम् अप्रस्तुततम् इति । व्रज-जनस्य तु तदीय-स्वजनतमत्वं तेन स्वयम् एव विभावितम् -

तस्मान् मच्-छरणं गोष्ठं मन्-नाथं मत्-परिग्रहम् । गोपाये स्वात्म-योगेन सोऽयं मे व्रत आहितः ॥ इत्य् अनेन ।

स एतस्मिन् प्रापञ्चिके लोके अविद्याभिर् या उच्चावचा देव-तिर्यग्-आदि-रूपा गतयस् तासु स्वां गतिं भ्रमन् तन्-मिश्रतयाभिव्यक्तेः तन्-निर्विशेषतया जानन्, ताम् एव स्वां गतिं भवेद् इत्य् अर्थः मदीय-लौकिक-लीलावेशेन ज्ञानांश-तिरोधानाद् इति भावः ।

इति नन्दादयो गोपाः कृष्ण-राम-कथां मुदा ।

कुर्वन्तो रममाणाश् च नाविन्दन् भव-वेदनाम् ॥

इति श्री-दशमोक्तेर् अविद्या-काम-कर्मणां तत्रासामर्थ्यात् । गोपीनां स्वां लोकं गोलोकम् इति । अर्थात् तान् प्रत्य् एव सन्दर्शयामास । तमसः प्रकृतेः परम् स्वरूप-शक्त्याभिव्यक्तत्वात् । अतैव सच्चिदानन्द-रूप एवासौ लोक इत्य् आह सत्यम् इति ।

अथ श्री-वृन्दावने तादृश-दर्शनं कतम-देश-स्थितानां तेषाम् इत्य् अत आह ते त्व् इति । ब्रह्म-ह्रदं अक्रूर-तीर्थं कृष्णेन नीता पुनश् च तेनैव मग्नाः मज्जिताः पुनश् च तस्मात् तेनैवोद्धृताः । उद्धृत्य पुनः स्व-स्थान-प्रापिताः सन्तो, ब्रह्मणः परम-बृहत्तमस्य तस्यैव लोकं गोलोकाख्यं ददृशुः । मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनं इति द्वितीये । वैकुण्ठान्तरस्यापि तत् तयाख्यातेः ।

कोऽसौ ब्रह्म-ह्रदः ? तत्राह यत्रेति । पुरेत्य् एतत्-प्रसङ्गाद् भावि-काल इत्य् अर्थः । पुरा पुराणे निकटे प्रबन्धातीत-भाविषु इति कोष-काराः । सेयं च परिपाटी तत् तीर्थं महिमानं लक्ष्यम् एव विधातुम् इति भावः । तत्र स्वां गतिम् इति तदीयता-निर्देशो गोपानां स्वं लोकम् इति षष्ठी-स्व-शब्दयोर् निर्देशः । कृष्णम् इति साक्षान्-निर्देशश् च वैकुण्ठान्तरं व्यवच्छिद्य श्री-गोलोकम् एव स्थापितवान् इति ।

तथा च हरिवंशे शक्र-वचनम् -

स्वर्गाद् ऊर्ध्वं ब्रह्म-लोको ब्रह्मर्षि-गण-सेवितः ।

तत्र सोम-गतिश् चैव ज्योतिषां च महात्मनाम् ॥

तस्योपरि गवां लोकः साध्यास् तं पालयन्ति हि ।

स हि सर्व-गतः कृष्ण महाकाश-गतो महान् ॥

उपर्य् उपरि तत्रापि गतिस् तव तपोमयी ।

यां न विद्मो वयं सर्वे पृच्छन्तोऽपि पितामहम् ।

गतिः शम-दमाढ्यानां स्वर्गः सुकृत-कर्मणाम् ॥

ब्राह्म्ये तपसि युक्तानां ब्रह्म-लोकः परा गतिः ।

गवाम् एव तु यो लोको दुरारोहो हि सा गतिः ॥

स तु लोकस् त्वया कृष्ण सीदमानः कृतात्मना । धृतो धृतिमता वीर निघन्तोप्दद्रवान् गवाम् ॥ इति ।

तत्रापात-प्रतीतार्थान्तरे स्वर्गाद् ऊर्ध्वं ब्रह्मणो लोक इत्य् अयुक्तं स्यात् लोक-त्रयम् अतिक्रम्योक्तेः । तत्र सोम-गतिश् चैवेत्य् अपि न सम्भवति चन्द्रस्यान्येषाम् अपि ज्योतिषां ध्रुव-लोकाधस्ताद् एव गतेः । तत्र साध्यास् तं पालयन्तीत्य् अपि नोपपद्यते । देव-योनि-रूपाणां तेषां स्वर्ग-लोकस्यापि पालनम् असम्भव्यम् । किम् उत तद्-उपरि गोलोकस्य । तथा तस्य लोकस्य सुरभि-लोकत्वे सति सर्व-गत इत्य् अनुपपन्नं स्यात् । श्री-भगवद्-विग्रह-लोकयोर् अचिन्त्य-शक्तित्वेन विभुत्वं घटते न पुनर् अस्येति । अतैव सर्वातीतत्वात् तत्रापि तव गतिर् इत्य् अपि शब्दो विस्मये प्रयुक्तः । यां न विद्मो वयं सर्वे इत्य्-आदिकं चोक्तम् ।

तस्मात् प्राकृत-गोलोकाद् अन्य एवासौ गोलोक इति सिद्धम् । तथा च मोक्ष-धर्मे नारायणीयोपाख्याने श्री-भगवद्-वाक्यं -

एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् । ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ इति ।

तस्माद् अयम् अर्थः स्वर्ग-शब्देन --

भूर्-लोकः कल्पितः पद्भ्यां भुवर्-लोको ऽस्य नाभितः ।

हृदा स्वर्-लोक उरसा महर्-लोको महात्मनः ॥

इति द्वितीयानुसारेण स्वर्-लोकम् आरभ्य सत्य-लोक-पर्यन्तं लोक-पञ्चकम् उच्यते । तस्माद् ऊर्ध्वम् उपरि ब्रह्म-लोको ब्रह्मात्मको लोको ब्रह्म-लोकः सच्-चिद्-आनन्द-रूपत्वात् । ब्रह्मणो भगवतो लोक इति वा । मूर्धभिः सत्य-लोकस् तु ब्रह्म-लोकः सनातनः इति द्वितीयात् । तथा च टीका -ब्रह्म-लोको वैकुण्ठाख्यः । सनातनो नित्यः । न तु सृज्यः प्रपञ्चान्तर्वर्ती । इत्य् एषा । श्रुतिश् च एष ब्रह्म-लोकः । एष आत्म-लोकः । इति ।

स च ब्रह्मर्षि-गण-सेवितः । ब्रह्माणि मूर्तिमन्तो वेदाः । ऋषयश् च श्री-नारदादयः । गणाश् च श्री-गरुड-विष्वक्सेनादयः । तैः सेवितः । एवं नित्याश्रितान् उक्त्वा तद्-गमनाधिकारिण आह । तत्र ब्रह्म-लोके उमया सह वर्तत इति सोमः श्री-शिवस् तस्य गतिः ।

स्व-धर्म-निष्ठः शत-जन्मभिः पुमान्

विरिञ्चताम् एति ततः परं हि माम् ।

अव्याकृतं भागवतो ऽथ वैष्णवं

पदं यथाहं विबुधाः कलात्यये ॥ इति चतुर्थे

श्री-रुद्र-गीतम् ।

सोमेति सुपां सुलुग् इत्य् आदिना षष्ठ्या लुक् छान्दसः । तत उत्तरत्रापि गतिर् इत्य् अस्यान्वयः । ज्योतिर् ब्रह्म तद्-ऐकात्म्य-भावानां मुक्तानाम् इत्य् अर्थः ।

ननु तादृशाम् अपि सर्वेषां किन्तु महात्मनां महाशयानां मोक्षानादरतया भजतां श्री-सनकादि-तुल्यानाम् इत्य् अर्थः ।

मुक्तानाम् अपि सिद्धानां नारायण-परायणः सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ इति षष्ठात् ।

योगिनाम् अपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ इति

गीताभ्यश् च ।

तेष्व् एव महत्त्व-पर्यवसनात् । तस्य च ब्रह्म-लोकस्योपरि सर्वोर्ध्व-प्रदेशे गवां लोकः श्री-गोलोक इत्य् अर्थः । तं च गोलोकं साध्याः प्रापञ्चिक-देवानां प्रसाधनीया मूल-रूपा नित्य-तदीय-देव-गणाः पालयन्ति दिक्-पालतया वर्तन्ते ते ह नाकं महिमानः सचन्तः यत्र पूर्वे साध्याः सन्ति देवाः इति श्रुतेः ।

तत्र पूर्वे ये च साध्या विश्वे देवाः सनातनाः ।

ते ह नाकं महिमानः सचन्तः शुभ-दर्शनाः ॥ इति

महा-वैकुण्ठ-वर्णने पाद्मोत्तर-खण्डाच् च ।

यद् वा तद् भूरि-भाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुलेऽपि इति श्री-ब्रह्म-स्तवानुसारेण तद्-विध-परम-भक्तानाम् अपि साध्यास् तादृश-सिद्धि-प्राप्तये प्रासाधनीयाः श्री-गोपी-प्रभृतयस् तं पालयन्ति ।

तद् एवं सर्वोपरि-गतत्वेऽपि । हि प्रसिद्धौ । स श्री-गोलोकः सर्व-गतः श्री-नारायण इव प्रापञ्चिकाप्रापञ्चिक-वस्तु-व्यापकः । कैश्चित् क्रम-मुक्ति-व्यवस्थया तथा प्राप्यमानोऽप्य् असौ द्वितीय-स्कन्ध-वर्णित-कमलासन-दृष्ट-वैकुण्ठवत् श्री-व्रज-वासिन्भिर् अत्रापि यस्माद् दृष्ट इति भावः ।

अतैव महान् भगवद्-रूप एव । महान्तं विभुम् आत्मानम्

इति श्रुतेः । तत्र हेतुः । महाकाशः परम-व्योमाख्यः ब्रह्म-विशेषण-लाभाद् आकाशस् तल्-लिङ्गाद् इति न्याय-प्रसिद्धेश् च । तद्-गत-ब्रह्माकारोदयान्तरम् एव वैकुण्ठ-प्राप्तेः यथाजामिलस्य । तद् एवम् उपर्य् उपरि सर्वोपर्य् अपि विराजमाने तत्र श्री-गोलोकेऽपि तव गतिः । श्री-गोविन्द-रूपेण क्रीडा वर्तत इत्य् अर्थः ।

अतैव सा च गतिः साधारणी न भवति किन्तु तपोमयी । तपोऽत्रानवच्छिन्नैश्वर्यं सहस्र-नाम-भाष्येऽपि परमं यो महत् तपः इत्य् अत्र तत्र व्याख्यातम् । स तपोऽतप्यत इति परमेश्वर-विषयक-श्रुतेः । ऐश्वर्यं प्राकाशयद् इति तत्रार्थः । अतैव ब्रह्मादि-दुर्वितर्क्यत्वम् अप्य् आह याम् इति । अधुना तस्य श्री-गोलोक इत्य् आख्या बीजम् अभिव्यञ्जयति गतिर् इति । ब्राह्म्ये ब्रह्म-लोक-प्रापके तपसि विष्णु-विषयक-मनः-प्रणिधाने युक्तानां यत-चित्तानां तत्-प्रेम-भक्तानाम् इत्य् अर्थः । यस्य ज्ञान-मयं तपः इति श्रुतेः । ब्रह्म-लोको वैकुण्ठ-लोकः । परा प्रकृत्यतीता । गवां व्रज-वासि-मात्राणां मोचयन् व्रज-गवां दिन-तापम् इत्य्-उक्तानुसारेण अत्रैव निघ्नतोपद्रवान् गवाम् इत्य् उक्त्या च गोलोक-वासि-मात्राणां स्वतस् तद्-भाव-भावितानां च साधन-वशाद् इत्य् अर्थः । अतस् तद्-भावस्य दुर्लभत्वाद् दुरारोहा । तद् एवं गोलोकं वर्णयित्वा तस्य गोकुलेन सहाभेदम् आह स त्व् इति । स एव तु स लोको धृतो रक्षितः श्री-गोवर्धनोद्धरणेनेति । एवम् एव मोक्ष-धर्म-श्री-नारायणीयोपाख्याने श्री-भगवद्-वाक्यम् -

एवं बहु-विधै रूपैश् चरामीह वसुन्धराम् । ब्रह्म-लोकं च कौन्तेय गोलोकं च सनातनम् ॥ इति ।

तथा च मृत्यु-सञ्जय-तन्त्रे --

एकदा सान्तरीक्षाच् च वैकुण्ठं स्वेच्छया भुवि । गोकुलत्वेन संस्थाप्य गोपीमय-महोत्सवा । भक्ति-रूपां सतां भक्तिम् उत्पादितवती भृशम् ॥ इति ।

एवं नारद-पञ्चरात्रे विजयाख्याने -

तत् सर्वोपरि गोलोके श्री-गोविन्दः सदा स्वयम् । विहरेत् परमानन्दी गोपी-गोकुल-नायकः ॥ इति ।

तथा ऋक्षु चायम् एव प्रदिष्टः -

तां वां वास्तून्य् उश्मसि गमध्यै यत्र गावो भूरि-शृङ्गा अयासः । अत्राह तद् उरुगायस्य वृष्णः परमं पदम् अवभाति भूरि ॥ इति । व्याख्यातं च - तां तानि वां युवयोः कृष्ण-रामयोर् वास्तूनि लीला-स्थानानि गमध्यै प्राप्तुं उश्मसि कामयामहे । तानि किं विशिष्टानि ? यत्र येषु भूरि-शृङ्गा महा-शृङ्ग्यो गावो बहु-शुभ-लक्षणा इति वा । अयासः शुभाः । अयः शुभावहो विधिर् इत्य् अमरः । देवास इतिवत् जसन्तं पदम् । अत्र भूमौ तल्-लोके वेदे च प्रसिद्धं श्री-गोलोकाख्यं उरुगायस्य स्वयं भगवतो तच्-चरणारविन्दस्य परमं प्रपञ्चातीतं पदं स्थानं भूरि बहुधा अवभातीत्य् आह वेद इति ।

यजुःसु - माध्यन्दिनीया स्तूयते धामान्य् उश्मसि इत्य् आदौ । विष्णोः परमं पदम् अवभातीति भूरीति चात्र प्रकारान्तरं पठन्ति शेषं समानम् ॥5॥

लिप्यंतरण (IAST)

atha gokulāvaraṇāny āha caturasram iti caturbhiḥ | tasya gokulasya bahiḥ sarvataś caturasraṃ catuṣkoṇātmakaṃ sthānaṃ śvetadvīpākhyam | tad etad upalakṣaṇaṃ golokākhyaṃ cety arthaḥ | yadyapi gokule śvetadvīpatvam asty eva tad-avāntara-bhūmimayatvāt | tathāpi viśeṣa-nāmnoktatvāt tenaiva tat pratīyate iti tathoktam | kintu caturasre'py antar-maṇḍalaṃ śrī-vṛndāvanākhyaṃ jñeyam | tathā ca svāyambhuvāgame - dhyāyet tatra-viśuddhātmā idaṃ sarvaṃ krameṇa ca ity ādikam uktvā tan-madhye vṛndāvanaṃ kusumitaṃ nānā-vṛkṣa-vihaṅgamaṃ saṃsmaret ity uktam | tathā ca bṛhad-vāmane śrutīnāṃ prārthanā pūrvakāṇi padyāni

ānanda-mātram iti yad vadanti hi purāvidaḥ |

tad-rūpe darśayāsmākaṃ yadi deyo varo hi naḥ ||

śrutvaitad darśayāmāsa svaṃ lokaṃ prakṛteḥ param |

kevalānubhavānanda-mātram akṣaram avyayam ||

yatra vṛndāvanaṃ nāma vanaṃ kāma-dughair drumaiḥ | manorama-nikuñjāḍhyaṃ sarvartu-sukha-saṃyutam || ity ādi tac ca caturasram |

catur-mūrteś catur-vyūhasya vāsudevādi-catuṣṭayasya | catuṣkṛtaṃ caturdhā vibhaktam catur-dhāma | kintu deva-līlatvāt tad-upari-vyoma-yāna-sthā eva jñeyā hetubhiḥ | tat-puruṣārtha-sādhanaiḥ | manu-rūpaiḥ sva-sva-mantrātmakaiḥ | dik-pālaiḥ indrādibhiḥ | śyāmādayaḥ catvāro vedāḥ tair ity arthaḥ | kṛṣṇaṃ ca tatra chandobhiḥ stūyamānaṃ suvismitāḥ iti daśamāt | śaktibhiḥ vimalādibhiḥ |

tad evaṃ goloka-nāmā ayaṃ lokaḥ śrī-bhāgavate sādhitaḥ |

nandas tv atīndriyaṃ dṛṣṭvā loka-pāla-mahodayam |

kṛṣṇe ca sannatiṃ teṣāṃ jñātibhyo vismito 'bravīt ||

te cautsukya-dhiyo rājan matvā gopās tam īśvaram |

api naḥ svagatiṃ sūkṣmām upādhāsyad adhīśvaram ||

iti svānāṃ sa bhagavān vijñāyākhila-dṛk svayam |

saṅkalpa-siddhaye teṣāṃ kṛpayaitad acintayat ||

jano vai loka etasminn avidyā-kāma-karmabhiḥ |

uccāvacāsu gatiṣu na veda svāṃ gatiṃ bhraman ||

iti sañcintya bhagavān mahā-kāruṇiko hariḥ |

darśayāmāsa lokaṃ svaṃ gopānāṃ tamasaḥ param ||

satyaṃ jñānam anantaṃ yat brahma jyotiḥ sanātanam |

yad dhi paśyanti munayo guṇāpāye samāhitāḥ ||

te tu brahma-hradaṃ nītā magnāḥ kṛṣṇena coddhṛtāḥ |

dadṛśur brahmaṇo lokaṃ yatrākrūro 'dhyagāt purā ||

nandādayas tu taṃ dṛṣṭvā paramānanda-nirvṛtāḥ | kṛṣṇaṃ ca tatra cchandobhiḥ stūyamānaṃ suvismitāḥ || iti |

atīndriyam adṛṣṭa-pūrvam | sva-gatiṃ sva-dhāma | sūkṣmāṃ durjñeyām | upādhāsyan upadhāsyati | asmān prāpayiṣyatīty arthaḥ | iti saṅkalpitavanta iti śeṣaḥ | jano'sau vraja-vāsī mama svajanaḥ | sālokya-sārṣṭi- ity ādi padye janā itivad ubhayatrāpy anya-janatvam aprastutatam iti | vraja-janasya tu tadīya-svajanatamatvaṃ tena svayam eva vibhāvitam -

tasmān mac-charaṇaṃ goṣṭhaṃ man-nāthaṃ mat-parigraham | gopāye svātma-yogena so'yaṃ me vrata āhitaḥ || ity anena |

sa etasmin prāpañcike loke avidyābhir yā uccāvacā deva-tiryag-ādi-rūpā gatayas tāsu svāṃ gatiṃ bhraman tan-miśratayābhivyakteḥ tan-nirviśeṣatayā jānan, tām eva svāṃ gatiṃ bhaved ity arthaḥ madīya-laukika-līlāveśena jñānāṃśa-tirodhānād iti bhāvaḥ |

iti nandādayo gopāḥ kṛṣṇa-rāma-kathāṃ mudā |

kurvanto ramamāṇāś ca nāvindan bhava-vedanām ||

iti śrī-daśamokter avidyā-kāma-karmaṇāṃ tatrāsāmarthyāt | gopīnāṃ svāṃ lokaṃ golokam iti | arthāt tān praty eva sandarśayāmāsa | tamasaḥ prakṛteḥ param svarūpa-śaktyābhivyaktatvāt | ataiva saccidānanda-rūpa evāsau loka ity āha satyam iti |

atha śrī-vṛndāvane tādṛśa-darśanaṃ katama-deśa-sthitānāṃ teṣām ity ata āha te tv iti | brahma-hradaṃ akrūra-tīrthaṃ kṛṣṇena nītā punaś ca tenaiva magnāḥ majjitāḥ punaś ca tasmāt tenaivoddhṛtāḥ | uddhṛtya punaḥ sva-sthāna-prāpitāḥ santo, brahmaṇaḥ parama-bṛhattamasya tasyaiva lokaṃ golokākhyaṃ dadṛśuḥ | mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaṃ iti dvitīye | vaikuṇṭhāntarasyāpi tat tayākhyāteḥ |

ko'sau brahma-hradaḥ ? tatrāha yatreti | purety etat-prasaṅgād bhāvi-kāla ity arthaḥ | purā purāṇe nikaṭe prabandhātīta-bhāviṣu iti koṣa-kārāḥ | seyaṃ ca paripāṭī tat tīrthaṃ mahimānaṃ lakṣyam eva vidhātum iti bhāvaḥ | tatra svāṃ gatim iti tadīyatā-nirdeśo gopānāṃ svaṃ lokam iti ṣaṣṭhī-sva-śabdayor nirdeśaḥ | kṛṣṇam iti sākṣān-nirdeśaś ca vaikuṇṭhāntaraṃ vyavacchidya śrī-golokam eva sthāpitavān iti |

tathā ca harivaṃśe śakra-vacanam -

svargād ūrdhvaṃ brahma-loko brahmarṣi-gaṇa-sevitaḥ |

tatra soma-gatiś caiva jyotiṣāṃ ca mahātmanām ||

tasyopari gavāṃ lokaḥ sādhyās taṃ pālayanti hi |

sa hi sarva-gataḥ kṛṣṇa mahākāśa-gato mahān ||

upary upari tatrāpi gatis tava tapomayī |

yāṃ na vidmo vayaṃ sarve pṛcchanto'pi pitāmaham |

gatiḥ śama-damāḍhyānāṃ svargaḥ sukṛta-karmaṇām ||

brāhmye tapasi yuktānāṃ brahma-lokaḥ parā gatiḥ |

gavām eva tu yo loko durāroho hi sā gatiḥ ||

sa tu lokas tvayā kṛṣṇa sīdamānaḥ kṛtātmanā | dhṛto dhṛtimatā vīra nighantopdadravān gavām || iti |

tatrāpāta-pratītārthāntare svargād ūrdhvaṃ brahmaṇo loka ity ayuktaṃ syāt loka-trayam atikramyokteḥ | tatra soma-gatiś caivety api na sambhavati candrasyānyeṣām api jyotiṣāṃ dhruva-lokādhastād eva gateḥ | tatra sādhyās taṃ pālayantīty api nopapadyate | deva-yoni-rūpāṇāṃ teṣāṃ svarga-lokasyāpi pālanam asambhavyam | kim uta tad-upari golokasya | tathā tasya lokasya surabhi-lokatve sati sarva-gata ity anupapannaṃ syāt | śrī-bhagavad-vigraha-lokayor acintya-śaktitvena vibhutvaṃ ghaṭate na punar asyeti | ataiva sarvātītatvāt tatrāpi tava gatir ity api śabdo vismaye prayuktaḥ | yāṃ na vidmo vayaṃ sarve ity-ādikaṃ coktam |

tasmāt prākṛta-golokād anya evāsau goloka iti siddham | tathā ca mokṣa-dharme nārāyaṇīyopākhyāne śrī-bhagavad-vākyaṃ -

evaṃ bahu-vidhai rūpaiś carāmīha vasundharām | brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || iti |

tasmād ayam arthaḥ svarga-śabdena --

bhūr-lokaḥ kalpitaḥ padbhyāṃ bhuvar-loko 'sya nābhitaḥ |

hṛdā svar-loka urasā mahar-loko mahātmanaḥ ||

iti dvitīyānusāreṇa svar-lokam ārabhya satya-loka-paryantaṃ loka-pañcakam ucyate | tasmād ūrdhvam upari brahma-loko brahmātmako loko brahma-lokaḥ sac-cid-ānanda-rūpatvāt | brahmaṇo bhagavato loka iti vā | mūrdhabhiḥ satya-lokas tu brahma-lokaḥ sanātanaḥ iti dvitīyāt | tathā ca ṭīkā -brahma-loko vaikuṇṭhākhyaḥ | sanātano nityaḥ | na tu sṛjyaḥ prapañcāntarvartī | ity eṣā | śrutiś ca eṣa brahma-lokaḥ | eṣa ātma-lokaḥ | iti |

sa ca brahmarṣi-gaṇa-sevitaḥ | brahmāṇi mūrtimanto vedāḥ | ṛṣayaś ca śrī-nāradādayaḥ | gaṇāś ca śrī-garuḍa-viṣvaksenādayaḥ | taiḥ sevitaḥ | evaṃ nityāśritān uktvā tad-gamanādhikāriṇa āha | tatra brahma-loke umayā saha vartata iti somaḥ śrī-śivas tasya gatiḥ |

sva-dharma-niṣṭhaḥ śata-janmabhiḥ pumān

viriñcatām eti tataḥ paraṃ hi mām |

avyākṛtaṃ bhāgavato 'tha vaiṣṇavaṃ

padaṃ yathāhaṃ vibudhāḥ kalātyaye || iti caturthe

śrī-rudra-gītam |

someti supāṃ sulug ity ādinā ṣaṣṭhyā luk chāndasaḥ | tata uttaratrāpi gatir ity asyānvayaḥ | jyotir brahma tad-aikātmya-bhāvānāṃ muktānām ity arthaḥ |

nanu tādṛśām api sarveṣāṃ kintu mahātmanāṃ mahāśayānāṃ mokṣānādaratayā bhajatāṃ śrī-sanakādi-tulyānām ity arthaḥ |

muktānām api siddhānāṃ nārāyaṇa-parāyaṇaḥ sudurlabhaḥ praśāntātmā koṭiṣv api mahā-mune || iti ṣaṣṭhāt |

yoginām api sarveṣāṃ madgatenāntarātmanā |

śraddhāvān bhajate yo māṃ sa me yuktatamo mataḥ || iti

gītābhyaś ca |

teṣv eva mahattva-paryavasanāt | tasya ca brahma-lokasyopari sarvordhva-pradeśe gavāṃ lokaḥ śrī-goloka ity arthaḥ | taṃ ca golokaṃ sādhyāḥ prāpañcika-devānāṃ prasādhanīyā mūla-rūpā nitya-tadīya-deva-gaṇāḥ pālayanti dik-pālatayā vartante te ha nākaṃ mahimānaḥ sacantaḥ yatra pūrve sādhyāḥ santi devāḥ iti śruteḥ |

tatra pūrve ye ca sādhyā viśve devāḥ sanātanāḥ |

te ha nākaṃ mahimānaḥ sacantaḥ śubha-darśanāḥ || iti

mahā-vaikuṇṭha-varṇane pādmottara-khaṇḍāc ca |

yad vā tad bhūri-bhāgyam iha janma kim apy aṭavyāṃ yad gokule'pi iti śrī-brahma-stavānusāreṇa tad-vidha-parama-bhaktānām api sādhyās tādṛśa-siddhi-prāptaye prāsādhanīyāḥ śrī-gopī-prabhṛtayas taṃ pālayanti |

tad evaṃ sarvopari-gatatve'pi | hi prasiddhau | sa śrī-golokaḥ sarva-gataḥ śrī-nārāyaṇa iva prāpañcikāprāpañcika-vastu-vyāpakaḥ | kaiścit krama-mukti-vyavasthayā tathā prāpyamāno'py asau dvitīya-skandha-varṇita-kamalāsana-dṛṣṭa-vaikuṇṭhavat śrī-vraja-vāsinbhir atrāpi yasmād dṛṣṭa iti bhāvaḥ |

ataiva mahān bhagavad-rūpa eva | mahāntaṃ vibhum ātmānam

iti śruteḥ | tatra hetuḥ | mahākāśaḥ parama-vyomākhyaḥ brahma-viśeṣaṇa-lābhād ākāśas tal-liṅgād iti nyāya-prasiddheś ca | tad-gata-brahmākārodayāntaram eva vaikuṇṭha-prāpteḥ yathājāmilasya | tad evam upary upari sarvopary api virājamāne tatra śrī-goloke'pi tava gatiḥ | śrī-govinda-rūpeṇa krīḍā vartata ity arthaḥ |

ataiva sā ca gatiḥ sādhāraṇī na bhavati kintu tapomayī | tapo'trānavacchinnaiśvaryaṃ sahasra-nāma-bhāṣye'pi paramaṃ yo mahat tapaḥ ity atra tatra vyākhyātam | sa tapo'tapyata iti parameśvara-viṣayaka-śruteḥ | aiśvaryaṃ prākāśayad iti tatrārthaḥ | ataiva brahmādi-durvitarkyatvam apy āha yām iti | adhunā tasya śrī-goloka ity ākhyā bījam abhivyañjayati gatir iti | brāhmye brahma-loka-prāpake tapasi viṣṇu-viṣayaka-manaḥ-praṇidhāne yuktānāṃ yata-cittānāṃ tat-prema-bhaktānām ity arthaḥ | yasya jñāna-mayaṃ tapaḥ iti śruteḥ | brahma-loko vaikuṇṭha-lokaḥ | parā prakṛtyatītā | gavāṃ vraja-vāsi-mātrāṇāṃ mocayan vraja-gavāṃ dina-tāpam ity-uktānusāreṇa atraiva nighnatopadravān gavām ity uktyā ca goloka-vāsi-mātrāṇāṃ svatas tad-bhāva-bhāvitānāṃ ca sādhana-vaśād ity arthaḥ | atas tad-bhāvasya durlabhatvād durārohā | tad evaṃ golokaṃ varṇayitvā tasya gokulena sahābhedam āha sa tv iti | sa eva tu sa loko dhṛto rakṣitaḥ śrī-govardhanoddharaṇeneti | evam eva mokṣa-dharma-śrī-nārāyaṇīyopākhyāne śrī-bhagavad-vākyam -

evaṃ bahu-vidhai rūpaiś carāmīha vasundharām | brahma-lokaṃ ca kaunteya golokaṃ ca sanātanam || iti |

tathā ca mṛtyu-sañjaya-tantre --

ekadā sāntarīkṣāc ca vaikuṇṭhaṃ svecchayā bhuvi | gokulatvena saṃsthāpya gopīmaya-mahotsavā | bhakti-rūpāṃ satāṃ bhaktim utpāditavatī bhṛśam || iti |

evaṃ nārada-pañcarātre vijayākhyāne -

tat sarvopari goloke śrī-govindaḥ sadā svayam | viharet paramānandī gopī-gokula-nāyakaḥ || iti |

tathā ṛkṣu cāyam eva pradiṣṭaḥ -

tāṃ vāṃ vāstūny uśmasi gamadhyai yatra gāvo bhūri-śṛṅgā ayāsaḥ | atrāha tad urugāyasya vṛṣṇaḥ paramaṃ padam avabhāti bhūri || iti | vyākhyātaṃ ca - tāṃ tāni vāṃ yuvayoḥ kṛṣṇa-rāmayor vāstūni līlā-sthānāni gamadhyai prāptuṃ uśmasi kāmayāmahe | tāni kiṃ viśiṣṭāni ? yatra yeṣu bhūri-śṛṅgā mahā-śṛṅgyo gāvo bahu-śubha-lakṣaṇā iti vā | ayāsaḥ śubhāḥ | ayaḥ śubhāvaho vidhir ity amaraḥ | devāsa itivat jasantaṃ padam | atra bhūmau tal-loke vede ca prasiddhaṃ śrī-golokākhyaṃ urugāyasya svayaṃ bhagavato tac-caraṇāravindasya paramaṃ prapañcātītaṃ padaṃ sthānaṃ bhūri bahudhā avabhātīty āha veda iti |

yajuḥsu - mādhyandinīyā stūyate dhāmāny uśmasi ity ādau | viṣṇoḥ paramaṃ padam avabhātīti bhūrīti cātra prakārāntaraṃ paṭhanti śeṣaṃ samānam ||5||

शब्दशः अर्थ
संस्कृतIASTअर्थ
अथ गोकुलावरणान्य् आहatha gokulāvaraṇāny āhaдалее он говорит об оградах Гокулы
चतुरस्रम् इति चतुर्भिःcaturasram iti caturbhiḥчетырьмя словами, начиная с «чатурасрам»
तस्य गोकुलस्य बहिःtasya gokulasya bahiḥвне той Гокулы
सर्वतश् चतुरस्रंsarvataś caturasraṃсо всех сторон четырёхугольное
चतुष्कोणात्मकं स्थानंcatuṣkoṇātmakaṃ sthānaṃместо о четырёх углах
श्वेतद्वीपाख्यम्śvetadvīpākhyamименуемое Шветадвипой
तद् एतद् उपलक्षणंtad etad upalakṣaṇaṃи это указание
गोलोकाख्यं चेत्य् अर्थःgolokākhyaṃ cety arthaḥотносится и к именуемому Голокой; таков смысл
यद्यपि गोकुलेyadyapi gokuleхотя в Гокуле
श्वेतद्वीपत्वम् अस्त्य् एवśvetadvīpatvam asty eva«шветадвипность» и есть
तद्-अवान्तर-भूमिमयत्वात्tad-avāntara-bhūmimayatvātпоскольку она состои́т из внутренних её земель
तथापि विशेष-नाम्नोक्तत्वात्tathāpi viśeṣa-nāmnoktatvātвсё же, поскольку названо особым именем
तेनैव तत् प्रतीयते इति तथोक्तम्tenaiva tat pratīyate iti tathoktamим оно и разумеется — потому так и сказано
किन्तु चतुरस्रेऽप्य्kintu caturasre'pyно и в четырёхугольнике
अन्तर्-मण्डलंantar-maṇḍalaṃвнутренний круг
श्री-वृन्दावनाख्यं ज्ञेयम्śrī-vṛndāvanākhyaṃ jñeyamдолжно знать как именуемый Шри Вриндаваном
तथा च स्वायम्भुवागमेtathā ca svāyambhuvāgameи так в «Сваямбхува-агаме»
ध्यायेत् तत्र-विशुद्धात्माdhyāyet tatra-viśuddhātmā«да созерцает там чистый душою»
इदं सर्वं क्रमेण चidaṃ sarvaṃ krameṇa ca«всё это по порядку»
इत्य् आदिकम् उक्त्वाity ādikam uktvāсказав это и далее
तन्-मध्ये वृन्दावनं कुसुमितंtan-madhye vṛndāvanaṃ kusumitaṃ«посреди него цветущий Вриндаван»
नाना-वृक्ष-विहङ्गमं संस्मरेत्nānā-vṛkṣa-vihaṅgamaṃ saṃsmaret«с разными деревьями и птицами да помянет»
इत्य् उक्तम्ity uktamтак сказано
तथा च बृहद्-वामनेtathā ca bṛhad-vāmaneи так в «Брихад-вамане»
श्रुतीनां प्रार्थना पूर्वकाणि पद्यानिśrutīnāṃ prārthanā pūrvakāṇi padyāniстихи, начинающиеся с мольбы шрути
आनन्द-मात्रम् इति यद्ānanda-mātram iti yad«то, что зовут одним лишь блаженством»
वदन्ति हि पुराविदःvadanti hi purāvidaḥ«как говорят знатоки древности»
तद्-रूपे दर्शयास्माकंtad-rūpe darśayāsmākaṃ«яви нам в том облике»
यदि देयो वरो हि नःyadi deyo varo hi naḥ«если нам надлежит дать дар»
श्रुत्वैतद् दर्शयामासśrutvaitad darśayāmāsa«услышав это, Он явил»
स्वं लोकं प्रकृतेः परम्svaṃ lokaṃ prakṛteḥ param«Свой мир, что выше пракрити»
केवलानुभवानन्द-मात्रम्kevalānubhavānanda-mātram«одно лишь чистое блаженство переживания»
अक्षरम् अव्ययम्akṣaram avyayam«нетленное, неизменное»
यत्र वृन्दावनं नामyatra vṛndāvanaṃ nāma«где лес по имени Вриндаван»
वनं काम-दुघैर् द्रुमैःvanaṃ kāma-dughair drumaiḥ«с древами, доящими желания»
मनोरम-निकुञ्जाढ्यंmanorama-nikuñjāḍhyaṃ«богатый прелестными кущами»
सर्वर्तु-सुख-संयुतम्sarvartu-sukha-saṃyutam«соединённый со счастьем всех времён года»
इत्य् आदिity ādiи так далее
तच् च चतुरस्रम्tac ca caturasramи оно-то и есть четырёхугольное
चतुर्-मूर्तेश् चतुर्-व्यूहस्यcatur-mūrteś catur-vyūhasyaу четырёхобразного, то есть у чатур-вьюхи
वासुदेवादि-चतुष्टयस्यvāsudevādi-catuṣṭayasyaу четверицы Васудевы и прочих
चतुष्कृतं चतुर्धा विभक्तम्catuṣkṛtaṃ caturdhā vibhaktam«счетверённое» — разделённое на четыре
चतुर्-धामcatur-dhāmaчетыре обители
किन्तु देव-लीलत्वात्kintu deva-līlatvātно поскольку это игра божеств
तद्-उपरि-व्योम-यान-स्था एवtad-upari-vyoma-yāna-sthā evaих надо знать стоящими на воздушных колесницах над нею
ज्ञेयाjñeyāтак они и знаемы
हेतुभिःhetubhiḥ«хетубхих» —
तत्-पुरुषार्थ-साधनैःtat-puruṣārtha-sādhanaiḥсредствами к достижению той цели человека
मनु-रूपैःmanu-rūpaiḥ«ману-рупаих» —
स्व-स्व-मन्त्रात्मकैःsva-sva-mantrātmakaiḥсостоящими каждый из своей мантры
दिक्-पालैः इन्द्रादिभिःdik-pālaiḥ indrādibhiḥ«дик-палаих» — Индрой и прочими
श्यामादयः चत्वारो वेदाःśyāmādayaḥ catvāro vedāḥШьяма и прочие — четыре Веды
तैर् इत्य् अर्थःtair ity arthaḥими; таков смысл
कृष्णं च तत्र छन्दोभिःkṛṣṇaṃ ca tatra chandobhiḥ«и Кришну там размерами Вед»
स्तूयमानं सुविस्मिताःstūyamānaṃ suvismitāḥ«восхваляемого — изумлённые»
इति दशमात्iti daśamātтак из Десятой песни
शक्तिभिः विमलादिभिःśaktibhiḥ vimalādibhiḥ«шактибхих» — Вималой и прочими
तद् एवं गोलोक-नामाtad evaṃ goloka-nāmāитак, этот мир по имени Голока
अयं लोकःayaṃ lokaḥэтот мир
श्री-भागवते साधितःśrī-bhāgavate sādhitaḥутверждён в «Шри Бхагаватам»
नन्दस् त्व् अतीन्द्रियं दृष्ट्वाnandas tv atīndriyaṃ dṛṣṭvā«Нанда же, увидев сверхчувственное»
लोक-पाल-महोदयम्loka-pāla-mahodayam«великое величие хранителей миров»
कृष्णे च सन्नतिं तेषांkṛṣṇe ca sannatiṃ teṣāṃ«и поклон их Кришне»
ज्ञातिभ्यो विस्मितो ऽब्रवीत्jñātibhyo vismito 'bravīt«изумлённый, сказал родичам»
ते चौत्सुक्य-धियो राजन्te cautsukya-dhiyo rājan«и они, с умом, полным нетерпения, о царь»
मत्वा गोपास् तम् ईश्वरम्matvā gopās tam īśvaram«пастухи, сочтя Его владыкой»
अपि नः स्वगतिं सूक्ष्माम्api naḥ svagatiṃ sūkṣmām«ужели нас к Своей тонкой обители»
उपाधास्यद् अधीश्वरम्upādhāsyad adhīśvaram«приведёт Он, верховный владыка»
इति स्वानां स भगवान्iti svānāṃ sa bhagavān«так о Своих Он, Господь»
विज्ञायाखिल-दृक् स्वयम्vijñāyākhila-dṛk svayam«узнав, всевидящий, Сам»
सङ्कल्प-सिद्धये तेषांsaṅkalpa-siddhaye teṣāṃ«ради исполнения их намерения»
कृपयैतद् अचिन्तयत्kṛpayaitad acintayat«по милости помыслил вот что»
जनो वै लोक एतस्मिन्न्jano vai loka etasminn«человек в этом мире»
अविद्या-काम-कर्मभिःavidyā-kāma-karmabhiḥ«неведением, желанием и делами»
उच्चावचासु गतिषुuccāvacāsu gatiṣu«среди высоких и низких участей»
न वेद स्वां गतिं भ्रमन्na veda svāṃ gatiṃ bhraman«блуждая, не знает своей участи»
इति सञ्चिन्त्य भगवान्iti sañcintya bhagavān«так помыслив, Господь»
महा-कारुणिको हरिःmahā-kāruṇiko hariḥ«многомилостивый Хари»
दर्शयामास लोकं स्वंdarśayāmāsa lokaṃ svaṃ«явил Свой мир»
गोपानां तमसः परम्gopānāṃ tamasaḥ param«пастухам — тот, что выше тьмы»
सत्यं ज्ञानम् अनन्तं यत्satyaṃ jñānam anantaṃ yat«что есть истина, знание, бесконечность»
ब्रह्म ज्योतिः सनातनम्brahma jyotiḥ sanātanam«Брахман, свет, вечное»
यद् धि पश्यन्ति मुनयोyad dhi paśyanti munayo«что и видят молчальники»
गुणापाये समाहिताःguṇāpāye samāhitāḥ«сосредоточенные, по устранении гун»
ते तु ब्रह्म-ह्रदं नीताte tu brahma-hradaṃ nītā«они же, приведённые к Брахма-храде»
मग्नाः कृष्णेन चोद्धृताःmagnāḥ kṛṣṇena coddhṛtāḥ«погружённые и Кришною извлечённые»
ददृशुर् ब्रह्मणो लोकंdadṛśur brahmaṇo lokaṃ«узрели мир Брахмана»
यत्राक्रूरो ऽध्यगात् पुराyatrākrūro 'dhyagāt purā«где прежде побывал Акрура»
नन्दादयस् तु तं दृष्ट्वाnandādayas tu taṃ dṛṣṭvā«Нанда же и прочие, увидев его»
परमानन्द-निर्वृताःparamānanda-nirvṛtāḥ«упокоенные высшим блаженством»
कृष्णं च तत्र च्छन्दोभिःkṛṣṇaṃ ca tatra cchandobhiḥ«и Кришну там размерами Вед»
स्तूयमानं सुविस्मिताःstūyamānaṃ suvismitāḥ«восхваляемого — изумлённые»
इतिitiтак
अतीन्द्रियम् अदृष्ट-पूर्वम्atīndriyam adṛṣṭa-pūrvam«сверхчувственное» — прежде невиданное
स्व-गतिं स्व-धामsva-gatiṃ sva-dhāma«свою участь» — свою обитель
सूक्ष्मां दुर्ज्ञेयाम्sūkṣmāṃ durjñeyām«тонкую» — труднопознаваемую
उपाधास्यन् उपधास्यतिupādhāsyan upadhāsyati«упадхасьян» — приведёт
अस्मान् प्रापयिष्यतीत्य् अर्थःasmān prāpayiṣyatīty arthaḥто есть «доставит нас туда»; таков смысл
इति सङ्कल्पितवन्त इति शेषःiti saṅkalpitavanta iti śeṣaḥ«так они возымели намерение» — подразумевается
जनोऽसौ व्रज-वासीjano'sau vraja-vāsī«джана» — тот житель Враджи
मम स्वजनःmama svajanaḥМой близкий
सालोक्य-सार्ष्टि- इत्य् आदि पद्येsālokya-sārṣṭi- ity ādi padyeв стихе «салокья, саршти» и далее
जना इतिवद्janā itivadкак там «джанах»
उभयत्राप्य् अन्य-जनत्वम्ubhayatrāpy anya-janatvamи там, и здесь речь не о посторонних
अप्रस्तुततम् इतिaprastutatam itiэто вовсе не к делу
व्रज-जनस्य तुvraja-janasya tuа что народ Враджи
तदीय-स्वजनतमत्वंtadīya-svajanatamatvaṃесть Его самые близкие
तेन स्वयम् एव विभावितम्tena svayam eva vibhāvitamИм Самим и явлено
तस्मान् मच्-छरणं गोष्ठंtasmān mac-charaṇaṃ goṣṭhaṃ«потому селение, что нашло прибежище во Мне»
मन्-नाथं मत्-परिग्रहम्man-nāthaṃ mat-parigraham«чей владыка Я, чьё достояние Я»
गोपाये स्वात्म-योगेनgopāye svātma-yogena«храню Я силою Себя Самого»
सोऽयं मे व्रत आहितःso'yaṃ me vrata āhitaḥ«таков принятый Мною обет»
इत्य् अनेनity anenaэтими словами
स एतस्मिन् प्रापञ्चिके लोकेsa etasmin prāpañcike lokeон в этом сотворённом мире
अविद्याभिर् या उच्चावचाavidyābhir yā uccāvacāневедением — какие высокие и низкие
देव-तिर्यग्-आदि-रूपा गतयस्deva-tiryag-ādi-rūpā gatayasучасти в виде богов, животных и прочего
तासु स्वां गतिं भ्रमन्tāsu svāṃ gatiṃ bhramanсреди них, блуждая, свою участь
तन्-मिश्रतयाभिव्यक्तेःtan-miśratayābhivyakteḥпоскольку она являет себя смешанной с ними
तन्-निर्विशेषतया जानन्tan-nirviśeṣatayā jānanпознавая как неотличную от них
ताम् एव स्वां गतिंtām eva svāṃ gatiṃеё-то — своею участью
भवेद् इत्य् अर्थःbhaved ity arthaḥи считает; таков смысл
मदीय-लौकिक-लीलावेशेनmadīya-laukika-līlāveśenaиз-за погружения в Мою земную игру
ज्ञानांश-तिरोधानाद् इति भावःjñānāṃśa-tirodhānād iti bhāvaḥоттого что доля знания скрыта; таков смысл
इति नन्दादयो गोपाःiti nandādayo gopāḥ«так Нанда и прочие пастухи»
कृष्ण-राम-कथां मुदाkṛṣṇa-rāma-kathāṃ mudā«беседу о Кришне и Раме с радостью»
कुर्वन्तो रममाणाश् चkurvanto ramamāṇāś ca«ведя и наслаждаясь»
नाविन्दन् भव-वेदनाम्nāvindan bhava-vedanām«не ведали мук бытия»
इति श्री-दशमोक्तेर्iti śrī-daśamokterпо речению Десятой песни
अविद्या-काम-कर्मणां तत्रासामर्थ्यात्avidyā-kāma-karmaṇāṃ tatrāsāmarthyātпоскольку неведение, желание и дела там бессильны
गोपीनां स्वां लोकं गोलोकम् इतिgopīnāṃ svāṃ lokaṃ golokam iti«пастухам Свой мир» — то есть Голоку
अर्थात् तान् प्रत्य् एव सन्दर्शयामासarthāt tān praty eva sandarśayāmāsaто есть именно им и явил
तमसः प्रकृतेः परम्tamasaḥ prakṛteḥ param«выше тьмы» — выше пракрити
स्वरूप-शक्त्याभिव्यक्तत्वात्svarūpa-śaktyābhivyaktatvātпоскольку он явлен внутренней силой
अतैव सच्चिदानन्द-रूप एवासौataiva saccidānanda-rūpa evāsauпотому и мир этот есть бытие, сознание, блаженство
लोक इत्य् आह सत्यम् इतिloka ity āha satyam itiи это он говорит словом «сатьям»
अथ श्री-वृन्दावनेatha śrī-vṛndāvaneдалее: во Шри Вриндаване
तादृश-दर्शनंtādṛśa-darśanaṃтакое видение
कतम-देश-स्थितानां तेषाम्katama-deśa-sthitānāṃ teṣāmу них, стоявших в каком именно месте
इत्य् अत आहity ata āhaна это он говорит
ते त्व् इतिte tv itiсловами «те ту»
ब्रह्म-ह्रदं अक्रूर-तीर्थंbrahma-hradaṃ akrūra-tīrthaṃ«Брахма-храда» — Акрура-тиртха
कृष्णेन नीताkṛṣṇena nītāКришною приведённые
पुनश् च तेनैव मग्नाः मज्जिताःpunaś ca tenaiva magnāḥ majjitāḥи Им же погружённые, то есть окунутые
पुनश् च तस्मात् तेनैवोद्धृताःpunaś ca tasmāt tenaivoddhṛtāḥи Им же оттуда извлечённые
उद्धृत्य पुनः स्व-स्थान-प्रापिताः सन्तोuddhṛtya punaḥ sva-sthāna-prāpitāḥ santoизвлечённые и вновь возвращённые на своё место
ब्रह्मणः परम-बृहत्तमस्यbrahmaṇaḥ parama-bṛhattamasya«Брахмана» — Его же, величайшего из великих
तस्यैव लोकं गोलोकाख्यं ददृशुःtasyaiva lokaṃ golokākhyaṃ dadṛśuḥименно Его мир, именуемый Голокой, они узрели
मूर्धभिः सत्य-लोकस् तुmūrdhabhiḥ satya-lokas tu«главами же — Сатья-лока»
ब्रह्म-लोकः सनातनं इति द्वितीयेbrahma-lokaḥ sanātanaṃ iti dvitīye«вечная Брахма-лока» — так во Второй песни
वैकुण्ठान्तरस्यापिvaikuṇṭhāntarasyāpiибо и об иной Вайкунтхе
तत् तयाख्यातेःtat tayākhyāteḥговорится тем же именем
कोऽसौ ब्रह्म-ह्रदःko'sau brahma-hradaḥчто же это за Брахма-храда?
तत्राह यत्रेतिtatrāha yatretiна это он говорит «ятра»
पुरेत्य् एतत्-प्रसङ्गाद्purety etat-prasaṅgād«пура» — по связи с этим случаем
भावि-काल इत्य् अर्थःbhāvi-kāla ity arthaḥозначает будущее время; таков смысл
पुरा पुराणे निकटेpurā purāṇe nikaṭe«пура» — в древности, вблизи
प्रबन्धातीत-भाविषु इति कोष-काराःprabandhātīta-bhāviṣu iti koṣa-kārāḥв прошлом и в будущем — так у составителей словарей
सेयं च परिपाटीseyaṃ ca paripāṭīи порядок этот
तत् तीर्थं महिमानंtat tīrthaṃ mahimānaṃвеличие той тиртхи
लक्ष्यम् एव विधातुम् इति भावःlakṣyam eva vidhātum iti bhāvaḥлишь чтобы сделать явным; таков смысл
तत्र स्वां गतिम् इतिtatra svāṃ gatim itiтам «свою участь»
तदीयता-निर्देशोtadīyatā-nirdeśoуказание на принадлежность Ему
गोपानां स्वं लोकम् इतिgopānāṃ svaṃ lokam iti«пастухам Свой мир»
षष्ठी-स्व-शब्दयोर् निर्देशःṣaṣṭhī-sva-śabdayor nirdeśaḥуказание родительным падежом и словом «свой»
कृष्णम् इति साक्षान्-निर्देशश् चkṛṣṇam iti sākṣān-nirdeśaś caи прямое указание словом «Кришну»
वैकुण्ठान्तरं व्यवच्छिद्यvaikuṇṭhāntaraṃ vyavacchidyaотсекая иную Вайкунтху
श्री-गोलोकम् एव स्थापितवान् इतिśrī-golokam eva sthāpitavān itiон установил именно Шри Голоку
तथा च हरिवंशे शक्र-वचनम्tathā ca harivaṃśe śakra-vacanamи так в «Хариванше» слово Шакры
स्वर्गाद् ऊर्ध्वं ब्रह्म-लोकोsvargād ūrdhvaṃ brahma-loko«выше рая — Брахма-лока»
ब्रह्मर्षि-गण-सेवितःbrahmarṣi-gaṇa-sevitaḥ«чтимая сонмами брахма-риши»
तत्र सोम-गतिश् चैवtatra soma-gatiś caiva«там же участь Сомы»
ज्योतिषां च महात्मनाम्jyotiṣāṃ ca mahātmanām«и светил, и великих душ»
तस्योपरि गवां लोकःtasyopari gavāṃ lokaḥ«над нею — мир коров»
साध्यास् तं पालयन्ति हिsādhyās taṃ pālayanti hi«его-то и хранят садхьи»
स हि सर्व-गतः कृष्णsa hi sarva-gataḥ kṛṣṇa«ибо он всепроникающ, о Кришна»
महाकाश-गतो महान्mahākāśa-gato mahān«великий, пребывающий в великом просторе»
उपर्य् उपरि तत्रापिupary upari tatrāpi«выше и выше, и там ещё»
गतिस् तव तपोमयीgatis tava tapomayī«участь Твоя, полная тапаса»
यां न विद्मो वयं सर्वेyāṃ na vidmo vayaṃ sarve«которой не знаем мы все»
पृच्छन्तोऽपि पितामहम्pṛcchanto'pi pitāmaham«хоть и спрашивали Прародителя»
गतिः शम-दमाढ्यानांgatiḥ śama-damāḍhyānāṃ«участь богатых покоем и обузданием»
स्वर्गः सुकृत-कर्मणाम्svargaḥ sukṛta-karmaṇām«рай — у творящих благие дела»
ब्राह्म्ये तपसि युक्तानांbrāhmye tapasi yuktānāṃ«у преданных брахманскому подвижничеству»
ब्रह्म-लोकः परा गतिःbrahma-lokaḥ parā gatiḥ«Брахма-лока — высшая участь»
गवाम् एव तु यो लोकःgavām eva tu yo lokaḥ«а тот мир, что принадлежит коровам»
दुरारोहो हि सा गतिःdurāroho hi sā gatiḥ«та участь труднодостижима»
स तु लोकस् त्वया कृष्णsa tu lokas tvayā kṛṣṇa«и мир тот Тобою, о Кришна»
सीदमानः कृतात्मनाsīdamānaḥ kṛtātmanā«изнемогавший, — совершенным душою»
धृतो धृतिमता वीरdhṛto dhṛtimatā vīra«удержан, о стойкий герой»
निघन्तोप्दद्रवान् गवाम्nighantopdadravān gavām«сокрушающим бедствия коров»
इतिitiтак
तत्रापात-प्रतीतार्थान्तरेtatrāpāta-pratītārthāntareпри ином смысле, что видится с первого взгляда
स्वर्गाद् ऊर्ध्वं ब्रह्मणो लोकsvargād ūrdhvaṃ brahmaṇo loka«выше рая — мир Брахмы»
इत्य् अयुक्तं स्यात्ity ayuktaṃ syātбыло бы несообразно
लोक-त्रयम् अतिक्रम्योक्तेःloka-trayam atikramyokteḥпоскольку сказано с пропуском трёх миров
तत्र सोम-गतिश् चैवेत्य् अपिtatra soma-gatiś caivety apiи «там же участь Сомы»
न सम्भवतिna sambhavatiневозможно
चन्द्रस्यान्येषाम् अपि ज्योतिषांcandrasyānyeṣām api jyotiṣāṃибо у луны и прочих светил
ध्रुव-लोकाधस्ताद् एव गतेःdhruva-lokādhastād eva gateḥучасть их — ниже Дхрува-локи
तत्र साध्यास् तं पालयन्तीत्य् अपिtatra sādhyās taṃ pālayantīty apiи «садхьи хранят его»
नोपपद्यतेnopapadyateне выходит
देव-योनि-रूपाणां तेषांdeva-yoni-rūpāṇāṃ teṣāṃибо им, чей род божеский
स्वर्ग-लोकस्यापि पालनम् असम्भव्यम्svarga-lokasyāpi pālanam asambhavyamневозможно хранить и самый рай
किम् उत तद्-उपरि गोलोकस्यkim uta tad-upari golokasyaтем паче Голоку, что выше него
तथा तस्य लोकस्य सुरभि-लोकत्वे सतिtathā tasya lokasya surabhi-lokatve satiи если бы мир тот был миром земных коров
सर्व-गत इत्य् अनुपपन्नं स्यात्sarva-gata ity anupapannaṃ syāt«всепроникающ» вышло бы несообразным
श्री-भगवद्-विग्रह-लोकयोर्śrī-bhagavad-vigraha-lokayorу облика Господа и у Его мира
अचिन्त्य-शक्तित्वेन विभुत्वं घटतेacintya-śaktitvena vibhutvaṃ ghaṭateвездесущность возможна по непостижимой силе
न पुनर् अस्येतिna punar asyetiно не у этого; так вот
अतैव सर्वातीतत्वात्ataiva sarvātītatvātпотому же, ибо Он превыше всего
तत्रापि तव गतिर् इत्य्tatrāpi tava gatir ity«и там ещё — участь Твоя»
अपि शब्दो विस्मये प्रयुक्तःapi śabdo vismaye prayuktaḥслово «апи» употреблено в значении изумления
यां न विद्मो वयं सर्वेyāṃ na vidmo vayaṃ sarve«которой не знаем мы все»
इत्य्-आदिकं चोक्तम्ity-ādikaṃ coktamи так далее сказано
तस्मात् प्राकृत-गोलोकाद्tasmāt prākṛta-golokādпотому от мирской голоки
अन्य एवासौ गोलोक इति सिद्धम्anya evāsau goloka iti siddhamэта Голока отлична — так установлено
तथा च मोक्ष-धर्मेtathā ca mokṣa-dharmeи так в «Мокша-дхарме»
नारायणीयोपाख्यानेnārāyaṇīyopākhyāneв «Нараяния-упакхьяне»
श्री-भगवद्-वाक्यंśrī-bhagavad-vākyaṃслово Шри Бхагавана
एवं बहु-विधै रूपैश्evaṃ bahu-vidhai rūpaiś«так, многовидными обликами»
चरामीह वसुन्धराम्carāmīha vasundharām«хожу Я здесь по земле»
ब्रह्म-लोकं च कौन्तेयbrahma-lokaṃ ca kaunteya«и по Брахма-локе, о сын Кунти»
गोलोकं च सनातनम्golokaṃ ca sanātanam«и по вечной Голоке»
इतिitiтак
तस्माद् अयम् अर्थःtasmād ayam arthaḥпотому смысл таков
स्वर्ग-शब्देनsvarga-śabdenaсловом «сварга»
भूर्-लोकः कल्पितः पद्भ्यांbhūr-lokaḥ kalpitaḥ padbhyāṃ«Бхур-лока измыслена от стоп»
भुवर्-लोको ऽस्य नाभितःbhuvar-loko 'sya nābhitaḥ«Бхувар-лока — от пупа Его»
हृदा स्वर्-लोक उरसाhṛdā svar-loka urasā«сердцем — Свар-лока, грудью»
महर्-लोको महात्मनःmahar-loko mahātmanaḥ«Махар-лока — у Великого душою»
इति द्वितीयानुसारेणiti dvitīyānusāreṇaсогласно Второй песни
स्वर्-लोकम् आरभ्यsvar-lokam ārabhyaначиная со Свар-локи
सत्य-लोक-पर्यन्तंsatya-loka-paryantaṃи до Сатья-локи
लोक-पञ्चकम् उच्यतेloka-pañcakam ucyateразумеется пятерица миров
तस्माद् ऊर्ध्वम् उपरिtasmād ūrdhvam upariвыше того, над ним
ब्रह्म-लोको ब्रह्मात्मको लोकःbrahma-loko brahmātmako lokaḥБрахма-лока — мир, состоящий из Брахмана
ब्रह्म-लोकः सच्-चिद्-आनन्द-रूपत्वात्brahma-lokaḥ sac-cid-ānanda-rūpatvātБрахма-лока — поскольку он бытие, сознание, блаженство
ब्रह्मणो भगवतो लोक इति वाbrahmaṇo bhagavato loka iti vāили же: мир Брахмана, то есть Бхагавана
मूर्धभिः सत्य-लोकस् तुmūrdhabhiḥ satya-lokas tu«главами же — Сатья-лока»
ब्रह्म-लोकः सनातनःbrahma-lokaḥ sanātanaḥ«вечная Брахма-лока»
इति द्वितीयात्iti dvitīyātтак из Второй песни
तथा च टीकाtathā ca ṭīkāи так толкование
ब्रह्म-लोको वैकुण्ठाख्यःbrahma-loko vaikuṇṭhākhyaḥ«Брахма-лока — именуемая Вайкунтхой»
सनातनो नित्यःsanātano nityaḥ«вечная — то есть непреходящая»
न तु सृज्यः प्रपञ्चान्तर्वर्तीna tu sṛjyaḥ prapañcāntarvartī«а не сотворённая, внутри мироздания»
इत्य् एषाity eṣāтаково оно
श्रुतिश् च एष ब्रह्म-लोकःśrutiś ca eṣa brahma-lokaḥи шрути: «это Брахма-лока»
एष आत्म-लोकःeṣa ātma-lokaḥ«это мир Души»
इतिitiтак
स च ब्रह्मर्षि-गण-सेवितःsa ca brahmarṣi-gaṇa-sevitaḥи она чтима сонмами брахма-риши
ब्रह्माणि मूर्तिमन्तो वेदाःbrahmāṇi mūrtimanto vedāḥ«брахма» — воплощённые Веды
ऋषयश् च श्री-नारदादयःṛṣayaś ca śrī-nāradādayaḥ«риши» — Шри Нарада и прочие
गणाश् च श्री-गरुड-विष्वक्सेनादयःgaṇāś ca śrī-garuḍa-viṣvaksenādayaḥ«ганы» — Шри Гаруда, Вишваксена и прочие
तैः सेवितःtaiḥ sevitaḥими она и чтима
एवं नित्याश्रितान् उक्त्वाevaṃ nityāśritān uktvāсказав так о вечных её обитателях
तद्-गमनाधिकारिण आहtad-gamanādhikāriṇa āhaон называет имеющих право туда идти
तत्र ब्रह्म-लोकेtatra brahma-lokeтам, в Брахма-локе
उमया सह वर्तत इति सोमःumayā saha vartata iti somaḥ«пребывающий с Умой» — таков Сома
श्री-शिवस् तस्य गतिःśrī-śivas tasya gatiḥто есть Шри Шива; это его участь
स्व-धर्म-निष्ठः शत-जन्मभिःsva-dharma-niṣṭhaḥ śata-janmabhiḥ«верный своему долгу за сто рождений»
पुमान् विरिञ्चताम् एतिpumān viriñcatām eti«человек достигает сана Виринчи»
ततः परं हि माम्tataḥ paraṃ hi mām«а выше того — Меня»
अव्याकृतं भागवतो ऽथavyākṛtaṃ bhāgavato 'tha«неявленного; затем же преданный»
वैष्णवं पदं यथाहंvaiṣṇavaṃ padaṃ yathāhaṃ«вайшнавской обители, как я»
विबुधाः कलात्ययेvibudhāḥ kalātyaye«о мудрые, по исходе времени»
इति चतुर्थे श्री-रुद्र-गीतम्iti caturthe śrī-rudra-gītamтак в Четвёртой песни — песнь Шри Рудры
सोमेति सुपां सुलुग्someti supāṃ sulug«сома» — по правилу «супам сулук»
इत्य् आदिना षष्ठ्या लुक् छान्दसःity ādinā ṣaṣṭhyā luk chāndasaḥи прочим — ведийское выпадение родительного падежа
तत उत्तरत्रापिtata uttaratrāpiи далее, ниже
गतिर् इत्य् अस्यान्वयःgatir ity asyānvayaḥслово «участь» связывается так же
ज्योतिर् ब्रह्मjyotir brahma«джьотих» — Брахман
तद्-ऐकात्म्य-भावानां मुक्तानाम् इत्य् अर्थःtad-aikātmya-bhāvānāṃ muktānām ity arthaḥто есть освобождённых, слившихся с ним; таков смысл
ननु तादृशाम् अपि सर्वेषांnanu tādṛśām api sarveṣāṃно ведь и у всех таковых —
किन्तु महात्मनां महाशयानांkintu mahātmanāṃ mahāśayānāṃнет, «великих душою», великих помыслом
मोक्षानादरतया भजतांmokṣānādaratayā bhajatāṃпоклоняющихся, не радея о мокше
श्री-सनकादि-तुल्यानाम् इत्य् अर्थःśrī-sanakādi-tulyānām ity arthaḥравных Шри Санаке и прочим; таков смысл
मुक्तानाम् अपि सिद्धानांmuktānām api siddhānāṃ«и среди освобождённых, среди совершенных»
नारायण-परायणःnārāyaṇa-parāyaṇaḥ«преданный Нараяне»
सुदुर्लभः प्रशान्तात्माsudurlabhaḥ praśāntātmā«весьма редок, умиротворённый душою»
कोटिष्व् अपि महा-मुनेkoṭiṣv api mahā-mune«даже среди мириад, о великий молчальник»
इति षष्ठात्iti ṣaṣṭhātтак из Шестой песни
योगिनाम् अपि सर्वेषांyoginām api sarveṣāṃ«и среди всех йогинов»
मद्गतेनान्तरात्मनाmadgatenāntarātmanā«тот, чья внутренняя душа ушла в Меня»
श्रद्धावान् भजते यो मांśraddhāvān bhajate yo māṃ«кто с верою Мне поклоняется»
स मे युक्ततमो मतःsa me yuktatamo mataḥ«тот Мною признан наивысшим»
इति गीताभ्यश् चiti gītābhyaś caи так из «Гиты»
तेष्व् एव महत्त्व-पर्यवसनात्teṣv eva mahattva-paryavasanātпоскольку величие завершается именно в них
तस्य च ब्रह्म-लोकस्योपरिtasya ca brahma-lokasyopariи над той Брахма-локой
सर्वोर्ध्व-प्रदेशेsarvordhva-pradeśeв наивысшей области
गवां लोकः श्री-गोलोक इत्य् अर्थःgavāṃ lokaḥ śrī-goloka ity arthaḥмир коров, то есть Шри Голока; таков смысл
तं च गोलोकं साध्याःtaṃ ca golokaṃ sādhyāḥи ту Голоку садхьи
प्रापञ्चिक-देवानां प्रसाधनीयाprāpañcika-devānāṃ prasādhanīyāте, кого должны умилостивлять мирские боги
मूल-रूपा नित्य-तदीय-देव-गणाःmūla-rūpā nitya-tadīya-deva-gaṇāḥкоренные, вечные Его божественные сонмы
पालयन्ति दिक्-पालतया वर्तन्तेpālayanti dik-pālatayā vartanteхранят, то есть стоят как хранители сторон света
ते ह नाकं महिमानः सचन्तःte ha nākaṃ mahimānaḥ sacantaḥ«они, величавые, достигают небес»
यत्र पूर्वे साध्याः सन्ति देवाःyatra pūrve sādhyāḥ santi devāḥ«где прежние садхьи — боги»
इति श्रुतेःiti śruteḥпо слову шрути
तत्र पूर्वे ये च साध्याtatra pūrve ye ca sādhyā«там прежние, что суть садхьи»
विश्वे देवाः सनातनाःviśve devāḥ sanātanāḥ«вишведевы вечные»
ते ह नाकं महिमानःte ha nākaṃ mahimānaḥ«они, величавые, к небесам»
सचन्तः शुभ-दर्शनाःsacantaḥ śubha-darśanāḥ«приобщаются, благовидные»
इति महा-वैकुण्ठ-वर्णनेiti mahā-vaikuṇṭha-varṇaneтак в описании Маха-Вайкунтхи
पाद्मोत्तर-खण्डाच् चpādmottara-khaṇḍāc caи из Уттара-кханды «Падма-пураны»
यद् वा तद् भूरि-भाग्यम्yad vā tad bhūri-bhāgyamили же: «великая та удача»
इह जन्म किम् अप्य् अटव्यांiha janma kim apy aṭavyāṃ«рождение здесь, хоть бы и в лесу»
यद् गोकुलेऽपि इतिyad gokule'pi iti«да ещё и в Гокуле»
श्री-ब्रह्म-स्तवानुसारेणśrī-brahma-stavānusāreṇaсогласно славословию Шри Брахмы
तद्-विध-परम-भक्तानाम् अपिtad-vidha-parama-bhaktānām apiи у таковых высших преданных
साध्यास् तादृश-सिद्धि-प्राप्तयेsādhyās tādṛśa-siddhi-prāptayeсадхьи — ради обретения такого совершенства
प्रासाधनीयाःprāsādhanīyāḥте, кого надлежит умилостивить
श्री-गोपी-प्रभृतयस् तं पालयन्तिśrī-gopī-prabhṛtayas taṃ pālayantiШри гопи и прочие — они и хранят её
तद् एवं सर्वोपरि-गतत्वेऽपिtad evaṃ sarvopari-gatatve'piитак, хотя она и превыше всего
हि प्रसिद्धौhi prasiddhau«хи» — в значении известности
स श्री-गोलोकः सर्व-गतःsa śrī-golokaḥ sarva-gataḥта Шри Голока всепроникающа
श्री-नारायण इवśrī-nārāyaṇa ivaподобно Шри Нараяне
प्रापञ्चिकाप्रापञ्चिक-वस्तु-व्यापकःprāpañcikāprāpañcika-vastu-vyāpakaḥобъемлющая вещи мирские и немирские
कैश्चित् क्रम-मुक्ति-व्यवस्थयाkaiścit krama-mukti-vyavasthayāиными по чину постепенного освобождения
तथा प्राप्यमानोऽप्य् असौtathā prāpyamāno'py asauхоть и достигаемая так, она
द्वितीय-स्कन्ध-वर्णित-dvitīya-skandha-varṇita-как описанная во Второй песни
कमलासन-दृष्ट-वैकुण्ठवत्kamalāsana-dṛṣṭa-vaikuṇṭhavatВайкунтха, увиденная Сидящим на лотосе
श्री-व्रज-वासिन्भिर् अत्रापिśrī-vraja-vāsinbhir atrāpiжителями Шри Враджи и здесь
यस्माद् दृष्ट इति भावःyasmād dṛṣṭa iti bhāvaḥпоскольку была увидена; таков смысл
अतैव महान् भगवद्-रूप एवataiva mahān bhagavad-rūpa evaпотому «великий» — то есть сам облик Господа
महान्तं विभुम् आत्मानम्mahāntaṃ vibhum ātmānam«великую, вездесущую Душу»
इति श्रुतेःiti śruteḥпо слову шрути
तत्र हेतुःtatra hetuḥоснование тому
महाकाशः परम-व्योमाख्यःmahākāśaḥ parama-vyomākhyaḥ«махакаша» — именуемая высшим небом
ब्रह्म-विशेषण-लाभाद्brahma-viśeṣaṇa-lābhādпоскольку получает определение «Брахман»
आकाशस् तल्-लिङ्गाद् इतिākāśas tal-liṅgād iti«простор — по его признаку»
न्याय-प्रसिद्धेश् चnyāya-prasiddheś caи по известному правилу
तद्-गत-ब्रह्माकारोदयान्तरम् एवtad-gata-brahmākārodayāntaram evaлишь по восходе в нём образа Брахмана
वैकुण्ठ-प्राप्तेःvaikuṇṭha-prāpteḥбывает достижение Вайкунтхи
यथाजामिलस्यyathājāmilasyaкак у Аджамилы
तद् एवम् उपर्य् उपरिtad evam upary upariитак, выше и выше
सर्वोपर्य् अपि विराजमानेsarvopary api virājamāneсияющей превыше всего
तत्र श्री-गोलोकेऽपिtatra śrī-goloke'piтам, в самой Шри Голоке
तव गतिःtava gatiḥ«участь Твоя»
श्री-गोविन्द-रूपेण क्रीडा वर्तत इत्य् अर्थःśrī-govinda-rūpeṇa krīḍā vartata ity arthaḥто есть игра в облике Шри Говинды; таков смысл
अतैव सा च गतिःataiva sā ca gatiḥпотому и участь та
साधारणी न भवतिsādhāraṇī na bhavatiне бывает обыкновенной
किन्तु तपोमयीkintu tapomayīно «полная тапаса»
तपोऽत्रानवच्छिन्नैश्वर्यंtapo'trānavacchinnaiśvaryaṃ«тапас» здесь — неограниченное величие
सहस्र-नाम-भाष्येऽपिsahasra-nāma-bhāṣye'piи в толковании на тысячу имён
परमं यो महत् तपःparamaṃ yo mahat tapaḥ«кто есть высший, великий тапас»
इत्य् अत्र तत्र व्याख्यातम्ity atra tatra vyākhyātamздесь оно там же и истолковано
स तपोऽतप्यत इतिsa tapo'tapyata iti«Он совершил тапас»
परमेश्वर-विषयक-श्रुतेःparameśvara-viṣayaka-śruteḥпо слову шрути о Верховном Владыке
ऐश्वर्यं प्राकाशयद् इति तत्रार्थःaiśvaryaṃ prākāśayad iti tatrārthaḥ«явил величие» — таков там смысл
अतैव ब्रह्मादि-दुर्वितर्क्यत्वम् अप्य् आहataiva brahmādi-durvitarkyatvam apy āhaпотому он говорит и о недомыслимости её для Брахмы и прочих
याम् इतिyām itiсловом «ям»
अधुना तस्य श्री-गोलोकadhunā tasya śrī-golokaтеперь же её имени «Шри Голока»
इत्य् आख्या बीजम् अभिव्यञ्जयतिity ākhyā bījam abhivyañjayatiон являет корень
गतिर् इतिgatir itiсловом «гатих»
ब्राह्म्ये ब्रह्म-लोक-प्रापकेbrāhmye brahma-loka-prāpake«брахманском» — ведущем к Брахма-локе
तपसि विष्णु-विषयक-मनः-प्रणिधानेtapasi viṣṇu-viṣayaka-manaḥ-praṇidhāneв подвижничестве, в сосредоточении ума на Вишну
युक्तानां यत-चित्तानांyuktānāṃ yata-cittānāṃу преданных ему, у обуздавших ум
तत्-प्रेम-भक्तानाम् इत्य् अर्थःtat-prema-bhaktānām ity arthaḥто есть у любящих Его преданных; таков смысл
यस्य ज्ञान-मयं तपःyasya jñāna-mayaṃ tapaḥ«чей тапас состои́т из знания»
इति श्रुतेःiti śruteḥпо слову шрути
ब्रह्म-लोको वैकुण्ठ-लोकःbrahma-loko vaikuṇṭha-lokaḥ«Брахма-лока» — мир Вайкунтхи
परा प्रकृत्यतीताparā prakṛtyatītā«высшая» — превзошедшая пракрити
गवां व्रज-वासि-मात्राणांgavāṃ vraja-vāsi-mātrāṇāṃ«коров» — всех без изъятия жителей Враджи
मोचयन् व्रज-गवां दिन-तापम्mocayan vraja-gavāṃ dina-tāpam«избавляя коров Враджи от дневного зноя»
इत्य्-उक्तानुसारेणity-uktānusāreṇaсогласно этому речению
अत्रैव निघ्नतोपद्रवान् गवाम्atraiva nighnatopadravān gavāmи здесь же «сокрушающим бедствия коров»
इत्य् उक्त्या चity uktyā caэтим речением
गोलोक-वासि-मात्राणांgoloka-vāsi-mātrāṇāṃвсех без изъятия жителей Голоки
स्वतस् तद्-भाव-भावितानां चsvatas tad-bhāva-bhāvitānāṃ caи проникшихся тем чувством сами собою
साधन-वशाद् इत्य् अर्थःsādhana-vaśād ity arthaḥи силою садханы; таков смысл
अतस् तद्-भावस्य दुर्लभत्वाद् दुरारोहाatas tad-bhāvasya durlabhatvād durārohāоттого, что чувство то редкостно, она труднодостижима
तद् एवं गोलोकं वर्णयित्वाtad evaṃ golokaṃ varṇayitvāитак, описав Голоку
तस्य गोकुलेन सहाभेदम् आहtasya gokulena sahābhedam āhaон говорит о неразличии её с Гокулой
स त्व् इतिsa tv itiсловами «са ту»
स एव तु स लोकोsa eva tu sa lokoименно тот самый мир
धृतो रक्षितःdhṛto rakṣitaḥ«удержан», то есть защищён
श्री-गोवर्धनोद्धरणेनेतिśrī-govardhanoddharaṇenetiподнятием Шри Говардханы
एवम् एव मोक्ष-धर्म-evam eva mokṣa-dharma-точно так же в «Мокша-дхарме»
श्री-नारायणीयोपाख्यानेśrī-nārāyaṇīyopākhyāneв «Шри Нараяния-упакхьяне»
श्री-भगवद्-वाक्यम्śrī-bhagavad-vākyamслово Шри Бхагавана
एवं बहु-विधै रूपैश्evaṃ bahu-vidhai rūpaiś«так, многовидными обликами»
चरामीह वसुन्धराम्carāmīha vasundharām«хожу Я здесь по земле»
ब्रह्म-लोकं च कौन्तेयbrahma-lokaṃ ca kaunteya«и по Брахма-локе, о сын Кунти»
गोलोकं च सनातनम्golokaṃ ca sanātanam«и по вечной Голоке»
इतिitiтак
तथा च मृत्यु-सञ्जय-तन्त्रेtathā ca mṛtyu-sañjaya-tantreи так в «Мритью-санджая-тантре»
एकदा सान्तरीक्षाच् चekadā sāntarīkṣāc ca«однажды с поднебесья»
वैकुण्ठं स्वेच्छया भुविvaikuṇṭhaṃ svecchayā bhuvi«Вайкунтху по своей воле на земле»
गोकुलत्वेन संस्थाप्यgokulatvena saṃsthāpya«утвердив как Гокулу»
गोपीमय-महोत्सवाgopīmaya-mahotsavā«великий праздник, состоящий из гопи»
भक्ति-रूपां सतां भक्तिम्bhakti-rūpāṃ satāṃ bhaktim«бхакти праведных, имеющую облик преданности»
उत्पादितवती भृशम्utpāditavatī bhṛśam«породила она в изобилии»
इतिitiтак
एवं नारद-पञ्चरात्रेevaṃ nārada-pañcarātreтак же в «Нарада-панчаратре»
विजयाख्यानेvijayākhyāneв «Виджая-акхьяне»
तत् सर्वोपरि गोलोकेtat sarvopari goloke«там, в Голоке превыше всего»
श्री-गोविन्दः सदा स्वयम्śrī-govindaḥ sadā svayam«Шри Говинда всегда Сам»
विहरेत् परमानन्दीviharet paramānandī«да играет, полный высшего блаженства»
गोपी-गोकुल-नायकःgopī-gokula-nāyakaḥ«вождь гопи и Гокулы»
इतिitiтак
तथा ऋक्षु चायम् एव प्रदिष्टःtathā ṛkṣu cāyam eva pradiṣṭaḥтак же и в «Риг-веде» указано именно на неё
तां वां वास्तून्य् उश्मसि गमध्यैtāṃ vāṃ vāstūny uśmasi gamadhyai«к тем вашим обителям желаем мы прийти»
यत्र गावो भूरि-शृङ्गा अयासःyatra gāvo bhūri-śṛṅgā ayāsaḥ«где коровы многорогие, благие»
अत्राह तद् उरुगायस्य वृष्णःatrāha tad urugāyasya vṛṣṇaḥ«здесь-то у Уругаи, у быка»
परमं पदम् अवभाति भूरिparamaṃ padam avabhāti bhūri«высшая обитель сияет многократно»
इतिitiтак
व्याख्यातं चvyākhyātaṃ caи истолковано так
तां तानि वां युवयोःtāṃ tāni vāṃ yuvayoḥ«там» — те; «вам» — ваши двоих
कृष्ण-रामयोर् वास्तूनिkṛṣṇa-rāmayor vāstūniКришны и Рамы обители
लीला-स्थानानिlīlā-sthānāniместа игр
गमध्यै प्राप्तुंgamadhyai prāptuṃ«гамадхьяи» — чтобы достичь
उश्मसि कामयामहेuśmasi kāmayāmahe«ушмаси» — желаем
तानि किं विशिष्टानिtāni kiṃ viśiṣṭāniчем же они отличены?
यत्र येषु भूरि-शृङ्गाyatra yeṣu bhūri-śṛṅgā«ятра» — в которых многорогие
महा-शृङ्ग्यो गावोmahā-śṛṅgyo gāvoвеликорогие коровы
बहु-शुभ-लक्षणा इति वाbahu-śubha-lakṣaṇā iti vāили же: многоблагознаменные
अयासः शुभाःayāsaḥ śubhāḥ«аясах» — благие
अयः शुभावहो विधिर् इत्य् अमरःayaḥ śubhāvaho vidhir ity amaraḥ«ая — благоносный обычай» — так у Амары
देवास इतिवत्devāsa itivatкак в «девасах»
जसन्तं पदम्jasantaṃ padamслово с окончанием jas
अत्र भूमौ तल्-लोकेatra bhūmau tal-loke«здесь» — на земле, в том мире
वेदे च प्रसिद्धंvede ca prasiddhaṃи в Веде известное
श्री-गोलोकाख्यंśrī-golokākhyaṃименуемое Шри Голокой
उरुगायस्य स्वयं भगवतोurugāyasya svayaṃ bhagavatoу Уругаи, то есть Самого Господа
तच्-चरणारविन्दस्यtac-caraṇāravindasyaу Его лотосных стоп
परमं प्रपञ्चातीतंparamaṃ prapañcātītaṃ«высшее» — превзошедшее мироздание
पदं स्थानंpadaṃ sthānaṃ«падам» — место
भूरि बहुधा अवभातीत्य्bhūri bahudhā avabhātīty«многократно», то есть многообразно, сияет
आह वेद इतिāha veda itiтак говорит Веда
यजुःसु माध्यन्दिनीयाyajuḥsu mādhyandinīyāв «Яджусе», у мадхьяндинов
स्तूयते धामान्य् उश्मसिstūyate dhāmāny uśmasiвоспевается: «обителей желаем мы»
इत्य् आदौity ādauи далее
विष्णोः परमं पदम् अवभातीतिviṣṇoḥ paramaṃ padam avabhātīti«высшая обитель Вишну сияет»
भूरीति चात्र प्रकारान्तरं पठन्तिbhūrīti cātra prakārāntaraṃ paṭhantiи «бхури» — здесь читают иначе
शेषं समानम्śeṣaṃ samānamостальное то же
भाष्य का अनुवाद

Далее он говорит об оградах Гокулы — четырьмя словами, начиная с «чатурасрам».

Вне той Гокулы, со всех сторон, — четырёхугольное место о четырёх углах, именуемое Шветадвипой. И это указание относится и к именуемому Голокой; таков смысл. Хотя «шветадвипность» есть и в самой Гокуле, поскольку она состоит из внутренних её земель, всё же, поскольку названо оно особым именем, им оно и разумеется, — потому так и сказано. Но и в четырёхугольнике внутренний круг должно знать как именуемый Шри Вриндаваном.

И так в «Сваямбхува-агаме»: сказав «да созерцает там чистый душою всё это по порядку» и далее, говорится: «посреди него цветущий Вриндаван, с разными деревьями и птицами, да помянет».

И так в «Брихад-вамане» — стихи, начинающиеся с мольбы шрути:

«То, что зовут одним лишь блаженством, как говорят знатоки древности, — яви нам в том облике, если нам надлежит дать дар».

«Услышав это, Он явил Свой мир, что выше пракрити, — одно лишь чистое блаженство переживания, нетленное, неизменное,

где лес по имени Вриндаван, с древами, доящими желания, богатый прелестными кущами, соединённый со счастьем всех времён года» — и далее. И оно-то и есть четырёхугольное.

«Четырёхобразного» — то есть чатур-вьюхи, четверицы Васудевы и прочих. «Счетверённое» — разделённое на четыре, четыре обители. Но поскольку это игра божеств, их надо знать стоящими на воздушных колесницах над нею. «Хетубхих» — средствами к достижению той цели человека. «Ману-рупаих» — состоящими каждый из своей мантры. «Дик-палаих» — Индрой и прочими. Шьяма и прочие — четыре Веды, ими; таков смысл, как из Десятой песни: «и Кришну там, восхваляемого размерами Вед, — изумлённые». «Шактибхих» — Вималой и прочими.

Итак, этот мир по имени Голока утверждён в «Шри Бхагаватам»:

«Нанда же, увидев сверхчувственное, великое величие хранителей миров и поклон их Кришне, изумлённый, сказал родичам.

И они, о царь, с умом, полным нетерпения, сочтя Его владыкой, — пастухи: „Ужели нас, верховный владыка, приведёт Он к Своей тонкой обители?“

Так о Своих Он, Господь, всевидящий, Сам узнав, ради исполнения их намерения по милости помыслил вот что:

„Человек в этом мире неведением, желанием и делами, блуждая среди высоких и низких участей, не знает своей участи“.

Так помыслив, Господь, многомилостивый Хари, явил пастухам Свой мир — тот, что выше тьмы,

что есть истина, знание, бесконечность, Брахман, свет, вечное, что и видят молчальники, сосредоточенные, по устранении гун.

Они же, приведённые к Брахма-храде, погружённые и Кришною извлечённые, узрели мир Брахмана, где прежде побывал Акрура.

Нанда же и прочие, увидев его, упокоенные высшим блаженством, и Кришну там, восхваляемого размерами Вед, — изумлённые».

«Сверхчувственное» — прежде невиданное. «Свою участь» — свою обитель. «Тонкую» — труднопознаваемую. «Упадхасьян» — приведёт, то есть «доставит нас туда»; таков смысл. «Так они возымели намерение» — подразумевается.

«Джана» — тот житель Враджи, Мой близкий. Как в стихе «салокья, саршти» и далее слово «джанах», так и здесь: и там, и здесь речь не о посторонних — это вовсе не к делу. А что народ Враджи есть Его самые близкие — Им Самим и явлено словами: «Потому селение, что нашло прибежище во Мне, чей владыка Я, чьё достояние Я, храню Я силою Себя Самого; таков принятый Мною обет».

Он в этом сотворённом мире, среди тех высоких и низких участей в виде богов, животных и прочего, что созданы неведением, блуждая, свою участь — поскольку она являет себя смешанной с ними — познаёт как неотличную от них и её-то и считает своей участью; таков смысл. А происходит это оттого, что из-за погружения в Мою земную игру доля знания скрыта; таков смысл.

«Так Нанда и прочие пастухи, с радостью ведя беседу о Кришне и Раме и наслаждаясь, не ведали мук бытия», — по речению Десятой песни, поскольку неведение, желание и дела там бессильны.

«Пастухам Свой мир» — то есть Голоку; то есть именно им и явил. «Выше тьмы» — выше пракрити, поскольку он явлен внутренней силой. Потому и мир этот есть бытие, сознание и блаженство, — и это он говорит словом «сатьям».

Далее: во Шри Вриндаване — у них, стоявших в каком именно месте, было такое видение? На это он говорит «те ту». «Брахма-храда» — Акрура-тиртха. Кришною приведённые и Им же погружённые, то есть окунутые, и Им же оттуда извлечённые; извлечённые и вновь возвращённые на своё место, они узрели мир «Брахмана» — Его же, величайшего из великих, — именно Его мир, именуемый Голокой. Ибо и об иной Вайкунтхе говорится тем же именем: «главами же — Сатья-лока, вечная Брахма-лока», — так во Второй песни.

Что же это за Брахма-храда? На это он говорит «ятра». «Пура» — по связи с этим случаем означает будущее время; таков смысл: «пура» — в древности, вблизи, в прошлом и в будущем, — так у составителей словарей. И порядок этот — лишь чтобы сделать явным величие той тиртхи; таков смысл. Там «свою участь» — указание на принадлежность Ему; «пастухам Свой мир» — указание родительным падежом и словом «свой»; и прямое указание словом «Кришну». Отсекая иную Вайкунтху, он установил именно Шри Голоку.

И так в «Хариванше» слово Шакры:

«Выше рая — Брахма-лока, чтимая сонмами брахма-риши; там же участь Сомы, и светил, и великих душ.

Над нею — мир коров; его-то и хранят садхьи; ибо он всепроникающ, о Кришна, великий, пребывающий в великом просторе.

Выше и выше, и там ещё — участь Твоя, полная тапаса, которой не знаем мы все, хоть и спрашивали Прародителя. Участь — у богатых покоем и обузданием, рай — у творящих благие дела;

у преданных брахманскому подвижничеству Брахма-лока — высшая участь; а тот мир, что принадлежит коровам, — та участь труднодостижима.

И мир тот, изнемогавший, Тобою, о Кришна, совершенным душою, удержан, о стойкий герой, сокрушающий бедствия коров».

При ином смысле, что видится с первого взгляда, «выше рая — мир Брахмы» было бы несообразно, поскольку сказано с пропуском трёх миров. И «там же участь Сомы» невозможно, ибо у луны и прочих светил участь их — ниже Дхрува-локи. И «садхьи хранят его» не выходит: им, чей род божеский, невозможно хранить и самый рай, тем паче Голоку, что выше него. И если бы мир тот был миром земных коров, «всепроникающ» вышло бы несообразным: у облика Господа и у Его мира вездесущность возможна по непостижимой силе, но не у этого. Потому же, ибо Он превыше всего, в словах «и там ещё — участь Твоя» слово «апи» употреблено в значении изумления; и сказано «которой не знаем мы все» и далее.

Потому установлено: эта Голока отлична от голоки мирской. И так в «Мокша-дхарме», в «Нараяния-упакхьяне», слово Шри Бхагавана: «Так, многовидными обликами, хожу Я здесь по земле, и по Брахма-локе, о сын Кунти, и по вечной Голоке».

Потому смысл таков. Словом «сварга», согласно Второй песни — «Бхур-лока измыслена от стоп, Бхувар-лока — от пупа Его, сердцем — Свар-лока, грудью — Махар-лока у Великого душою», — разумеется пятерица миров, начиная со Свар-локи и до Сатья-локи. Выше того, над ним, — Брахма-лока, мир, состоящий из Брахмана; Брахма-лока — поскольку он есть бытие, сознание и блаженство; или же: мир Брахмана, то есть Бхагавана. «Главами же — Сатья-лока, вечная Брахма-лока», — так из Второй песни. И толкование: «Брахма-лока — именуемая Вайкунтхой; вечная — то есть непреходящая, а не сотворённая, внутри мироздания». И шрути: «это Брахма-лока, это мир Души».

И она чтима сонмами брахма-риши: «брахма» — воплощённые Веды, «риши» — Шри Нарада и прочие, «ганы» — Шри Гаруда, Вишваксена и прочие; ими она и чтима. Сказав так о вечных её обитателях, он называет имеющих право туда идти. Там, в Брахма-локе, «пребывающий с Умой» — таков Сома, то есть Шри Шива; это его участь. «Верный своему долгу за сто рождений человек достигает сана Виринчи, а выше того — Меня, неявленного; затем же преданный — вайшнавской обители, как я, о мудрые, по исходе времени», — так в Четвёртой песни песнь Шри Рудры. «Сома» — по правилу «супам сулук» и прочим — ведийское выпадение родительного падежа. И далее, ниже, слово «участь» связывается так же. «Джьотих» — Брахман, то есть освобождённых, слившихся с ним; таков смысл.

Но ведь и у всех таковых? — Нет: «великих душою», великих помыслом, поклоняющихся, не радея о мокше, равных Шри Санаке и прочим; таков смысл. «И среди освобождённых, среди совершенных преданный Нараяне весьма редок, умиротворённый душою, даже среди мириад, о великий молчальник», — так из Шестой песни. «И среди всех йогинов тот, чья внутренняя душа ушла в Меня, кто с верою Мне поклоняется, — тот Мною признан наивысшим», — и так из «Гиты», поскольку величие завершается именно в них.

И над той Брахма-локой, в наивысшей области, — мир коров, то есть Шри Голока; таков смысл. И ту Голоку хранят садхьи — те, кого должны умилостивлять мирские боги, коренные, вечные Его божественные сонмы; они стоят как хранители сторон света, по слову шрути: «Они, величавые, достигают небес, где прежние садхьи — боги». «Там прежние, что суть садхьи, вишведевы вечные, — они, величавые, приобщаются к небесам, благовидные», — так в описании Маха-Вайкунтхи из Уттара-кханды «Падма-пураны».

Или же, согласно славословию Шри Брахмы — «Великая та удача — рождение здесь, хоть бы и в лесу, да ещё и в Гокуле», — садхьи суть те, кого надлежит умилостивить и таковым высшим преданным ради обретения такого совершенства: Шри гопи и прочие — они и хранят её.

Итак, хотя она и превыше всего («хи» — в значении известности), та Шри Голока всепроникающа: подобно Шри Нараяне, она объемлет вещи мирские и немирские. Хоть и достигается она иными по чину постепенного освобождения, но, подобно Вайкунтхе, увиденной Сидящим на лотосе, как описано во Второй песни, она была увидена жителями Шри Враджи и здесь; таков смысл.

Потому «великий» — то есть сам облик Господа: «великую, вездесущую Душу», — по слову шрути. Основание тому: «махакаша» — именуемая высшим небом, поскольку получает определение «Брахман», и по известному правилу «простор — по его признаку». Ибо лишь по восходе в нём образа Брахмана бывает достижение Вайкунтхи, как у Аджамилы.

Итак, там, в самой Шри Голоке, сияющей выше и выше, превыше всего, — «участь Твоя», то есть игра в облике Шри Говинды; таков смысл. Потому и участь та не бывает обыкновенной, но «полная тапаса». «Тапас» здесь — неограниченное величие; и в толковании на тысячу имён, к словам «кто есть высший, великий тапас», оно там же и истолковано. «Он совершил тапас» — по слову шрути о Верховном Владыке; «явил величие» — таков там смысл. Потому он говорит и о недомыслимости её для Брахмы и прочих — словом «ям».

Теперь же он являет корень её имени «Шри Голока» — словом «гатих». «Брахманском» — ведущем к Брахма-локе; «в подвижничестве» — в сосредоточении ума на Вишну; «у преданных ему» — у обуздавших ум, то есть у любящих Его преданных; таков смысл, по слову шрути: «чей тапас состоит из знания». «Брахма-лока» — мир Вайкунтхи; «высшая» — превзошедшая пракрити. «Коров» — всех без изъятия жителей Враджи, согласно речению «избавляя коров Враджи от дневного зноя» и здесь же — «сокрушающим бедствия коров»: то есть всех без изъятия жителей Голоки, и проникшихся тем чувством сами собою, и силою садханы; таков смысл. Оттого, что чувство то редкостно, она и труднодостижима.

Итак, описав Голоку, он говорит о неразличии её с Гокулой — словами «са ту». Именно тот самый мир «удержан», то есть защищён, поднятием Шри Говардханы. Точно так же и в «Мокша-дхарме», в «Шри Нараяния-упакхьяне», слово Шри Бхагавана: «Так, многовидными обликами, хожу Я здесь по земле, и по Брахма-локе, о сын Кунти, и по вечной Голоке».

И так в «Мритью-санджая-тантре»: «Однажды с поднебесья Вайкунтху по своей воле утвердив на земле как Гокулу, великий праздник, состоящий из гопи, породил он в изобилии бхакти праведных, имеющую облик преданности».

Так же в «Нарада-панчаратре», в «Виджая-акхьяне»: «Там, в Голоке превыше всего, Шри Говинда всегда Сам да играет, полный высшего блаженства, вождь гопи и Гокулы».

Так же и в «Риг-веде» указано именно на неё: «К тем вашим обителям желаем мы прийти, где коровы многорогие, благие; здесь-то у Уругаи, у быка, высшая обитель сияет многократно».

И истолковано так. «Там» — те; «вам» — ваши двоих, Кришны и Рамы, обители, места игр; «гамадхьяи» — чтобы достичь; «ушмаси» — желаем. Чем же они отличены? «Ятра» — в которых многорогие, великорогие коровы, — или же: многоблагознаменные. «Аясах» — благие: «ая — благоносный обычай», так у Амары; слово с окончанием jas, как в «девасах». «Здесь» — на земле, в том мире и в Веде известное, именуемое Шри Голокой, у Уругаи, то есть Самого Господа, у Его лотосных стоп, «высшее» — превзошедшее мироздание — «падам», то есть место, «многократно», то есть многообразно, сияет, — так говорит Веда.

В «Яджусе», у мадхьяндинов, воспевается: «обителей желаем мы» и далее; и «высшая обитель Вишну сияет», и «бхури» — здесь читают иначе; остальное то же.

संस्करण

8446411962c1 · प्रकाशित 29 जुल॰ 2026, 5:34:18 pm UTC

उपलब्ध भाषाएँRU

श्लोक बदलें इन कुंजियों से