अथैकम् एव स्वरूपं शक्तित्वेन शक्तिमत्त्वेन च विराजतीति । यस्य शक्तेः स्वरूपभूतत्वं निरूपितं तच्छक्तिमत्ताप्राधान्येन विराजमानं भगवत्संज्ञाम् आप्नोति तच् च व्याख्यातम् । तद् एव च शक्तित्वप्राधान्येन विराजमानं लक्ष्मीसंज्ञाम् आप्नोतीति दर्शयितुं तस्याः स्ववृत्तिभेदेनानन्तायाः कियन्तो भेदा दर्श्यन्ते । यथा— श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर् जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ शक्तिर् महालक्ष्मीरूपा स्वरूपभूता । शक्तिशब्दस्य प्रथमप्रवृत्त्याश्रयरूपा भगवदन्तरङ्गमहाशक्तिः । माया च बहिरङ्गा शक्तिः । श्र्यादयस् तु तयोर् एव वृत्तिरूपाः, तासां सर्वासाम् अपि प्राकृताप्राकृताभेदेन श्रूयमानत्वात् । ततः श्रियेत्य् आदौ शक्तिवृत्तिरूपया मायावृत्तिरूपया चेति सर्वत्र ज्ञेयम् । तत्र पूर्वस्या भेदः—श्रीर् भागवती सम्पत्, न त्व् इयं महालक्ष्मीरूपा, तस्या मूलशक्तित्वात् । तद् अग्रे विवरणीयम् । उत्तरस्या भेदः—श्रीर् जागती सम्पत् । इमाम् एवाधिकृत्य, स्व एव धिष्ण्येऽभिरतस्य किं तया इति, न श्रीर् विरक्तम् अपि मां विजहाति इत्यादिवाक्यम् । यत उक्तं चतुर्थशेषे श्रीनारदेन— श्रियम् अनुचरतीं तदर्थिनश् च द्विपदपतीन् विबुधांश् च यः स्वपूर्णः । न भजति निजभृत्यवर्गतन्त्रः कथम् अमुम् उद्विसृजेत् पुमान् रसज्ञः ॥ इति । तत्र तदर्थिद्विपदपत्यादिसहभाव उपजीव्यः । तथा दुर्वाससः शापनष्टायास् त्रैलोक्यलक्ष्म्या आविर्भावं साक्षाद्भगवत्प्रेयसीरूपा स्वयं क्षीरोदाद् आविर्भूय दृष्ट्या कृतवतीति श्रूयते । एवम् अपरापि । तत्र इला भूस् तद् उपलक्षणत्वेन लीला अपि । तत्र च पूर्वस्या भेदो विद्या तत्त्वावबोधकारणं संविदाख्यायास् तद्वृत्तेर् वृत्तिविशेषः । उत्तरस्या भेदस् तस्या एव विद्यायाः प्रकाशद्वारम् । अविद्यालक्षणो भेदः पूर्वस्या भगवति विभुत्वादिविस्मृतिहेतुर् मातृभावादिमयप्रेमानन्दवृत्तिविशेषः । अत एव गोपीजनाविद्या कलाप्रेरकः इति तापन्यां श्रुतौ । यथावसरम् एतद् अपि विवरणीयम् । उत्तरस्याः स भेदः संसारिणं स्वस्वरूपविस्मृत्यादिहेतुर् आवरणात्मकवृत्तिविशेषः, चकारात् पूर्वस्याः । सन्धिनीसंविथ्लादिनीभक्त्याधारशक्तिमूर्तिविमलाजयायोगा प्रह्वीशानानुग्रहादयश् च ज्ञेयाः । अत्र सन्धिन्य् एव सत्या, जयैवोत्कर्षिणी, योगैव योगमाया, संविद् एव ज्ञानाज्ञानशक्तिः शुद्धसत्त्वं चेति ज्ञेयम् । प्रह्वी विचित्रानन्तसामर्थ्यहेतुः, ईशाना सर्वाधिकारिताशक्तिहेतुर् इति भेदः । एवम् उत्तरस्याश् च यथायथम् अन्या ज्ञेयाः । तद् एवम् अप्य् अत्र मायावृत्तयो न विव्रियन्ते, बहिरङ्गसेवित्वात् । मूले तु सेवामात्रसाधारण्येन गणिताः । बहिरङ्गसेवित्वं च तस्या भगवदंशभूतपुरुषस्य विदूरवर्तितयैवाश्रित्यत्वात् । तथा च दशमस्य सप्तत्रिंशे नारदेन भगवान् श्रीकृष्ण एवास्तावि— विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थम् अमोघवाञ्छितम् । स्वतेजसा नित्यनिवृत्तमायागुणप्रवाहं भगवन्तम् ईमहि ॥ त्वाम् ईश्वरं स्वाश्रयम् आत्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थम् अभ्यात्तमनुष्यविग्रहं नतोऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ इति । अनयोर् अर्थः—विशुद्धं यद् विज्ञानं परमतत्त्वं, तद् एव घनः श्रीविग्रहो यस्य । स्वसंस्थया स्वरूपकारेण स्वरूपशक्त्यैव वा सम्यग् आप्ता इवाप्ता नित्यसिद्धाः पूर्णा वा सर्वेऽर्था ऐश्वर्यादयो यत्र । अत एव न विद्यते अतितुच्छत्वात् मोघे वृथाभूते जगत्कार्ये वाञ्छितं वाञ्छा यस्य । क्वचिद् अवाञ्छितस्यापि सम्बन्धो दृश्यते? इत्य् आशङ्क्याह—स्वतेजसा स्वरूपशक्तिप्रभावेण नित्यम् एव निवृत्तो दूरीभूतो मायागुणप्रवाहः, तत्परम्परा यस्मात् । इत्थम् एव, युक्तं विरहितं शक्त्या गुणमय्यात्ममायया इत्य् उक्तम् । आत्ममायया स्वरूपभूतया शक्त्या युक्तम्, गुणमय्या विरहितम् इति । तं भगवन्तं शरणं व्रजेम । तथा त्वां श्रीकृष्णाख्यं भगवन्तम् एव स्वांशेनेश्वरम् अन्तर्यामिपुरुषम् अपि सन्तं नतोऽस्मि । कथम्भूतम्? ईश्वरं स्वरूपशक्त्या स्वाश्रयम् अपि आत्ममायया, आत्मात्र जीवात्मा तद्विषयया मायया । विनिर्मिता अशेषविशेषाकारा कल्पना येन । यद् वा, आत्ममायया स्वरूपशक्त्या स्वाश्रयम्, विनिर्मिता अशेषविशेषा यया तथाभूता कल्पना मायाशक्तिर् यस्य । कीदृशं त्वाम्? सम्प्रति त्वदाविर्भावसमये तस्यापीश्वरस्य त्वयि भगवत्य् एव प्रवेशात् । युगपद्विचित्रतत्तच्छक्तिप्रकाशेन या क्रीडा तदर्थम् अभ्यात्तः अभि भक्ताभिमुख्येन आत्तः आनीतः प्रकटितो मनुष्याकारो नराकृतिः परं ब्रह्मेति स्मरणात् तद्रूपो भगवदाख्यो विग्रहो येन । तम् एव पुनर् विशिनष्टि । यदुवृष्टिसात्वतां धुर्यम् । तेषां नित्यपरिकराणां प्रेमभारवहम् इति । अथवा मूलपद्ये शक्त्येति सर्वत्रैव विशेष्यपदम् । श्रीर् मूलरूपा । पुष्ट्यादयस् तदंशाः । विद्या ज्ञानम् । आ समीचीना विद्या भक्तिः । राजविद्या राजगुह्यम् इत्य् आद्य् उक्तेः । माया बहिरङ्गा । तद्वृत्तयः श्र्यादयस् तु पृथक् ज्ञेयाः । शिष्टं समम् । ततश् चात्र शुद्धभगवत्प्रकरणे स्वरूपशक्तिवृत्तिष्व् एव गणनायां पर्यवसितासु विवेचनीयम् इदम् । प्रथमं तावद् एकस्यैव तत्त्वस्य सच्चिदानन्दत्वाच् छक्तिर् अप्य् एका त्रिधा भिद्यते । तद् उक्तं विष्णुपुराणे श्रीध्रुवेण— ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्वसंस्थितौ । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति । व्याख्यातं च स्वामिभिः— ह्लादिनी आह्लादकरी, सन्धिनी सन्तता, संविद् विद्याशक्तिः । एका मुख्या अव्यभिचारिणी स्वरूपभूतेति यावत् । सा सर्वसंस्थितौ सर्वस्य सम्यक् स्थितिर् यस्मात् तस्मिन् सर्वाधिष्ठानभूते त्वय्य् एव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति । ताम् एवाह—ह्लादतापकरी मिश्रा इति । ह्लादकरी मनःप्रसादोत्था सात्त्विकी । तापकरी विषयवियोगादिषु तापकरी तामसी । तदुभयमिश्रा विषयजन्या राजसी । तत्र हेतुः सत्त्वादिगुणवर्जिते । तद् उक्तं सर्वज्ञसूक्तौ— ह्लादिन्या संविदाश्लिष्टः सच्चिदानन्द ईश्वरः । स्वाविद्यासंवृतो जीवः सङ्क्लेशनिकराकरः ॥ इति ॥ अत्र क्रमाद् उत्कर्षेण सन्धिनीसंविद्ध्लादिन्यो ज्ञेयाः । तत्र च सति घटानां घटत्वम् इव सर्वेषां सतां वस्तूनां प्रतीतेर् निमित्तम् इति क्वचित् सत्तास्वरूपत्वेन आम्नातोऽप्य् असौ भगवान्, सद् एव सोम्येदम् अग्र आसीत् इत्य् अत्र सद्रूपत्वेन व्यपदिश्यमाना यया सत्तां दधाति धारयति च, सा सर्वदेशकालद्रव्यादिप्राप्तिकरी सन्धिनी । तथा संविद्रूपोऽपि यया संवेत्ति संवेदयति च, सा संवित् । तथा ह्लादरूपोऽपि यया संविदुत्कटरूपया तं ह्लादं संवेत्ति संवेदयति च, सा ह्लादिनीति विवेचनीयम् । तद् एवं तस्या मूलशक्तेस् त्र्यात्मकत्वेन सिद्धे येन स्वप्रकाशतालक्षणेन तद्वृत्तिविशेषेण स्वरूपं वा स्वयं स्वरूपशक्तिर् वा विशिष्टं वाविर्भवति तद् विशुद्धसत्त्वम् । तच् चान्यनिरपेक्ष्यस् तत्प्रकाश इति ज्ञापनज्ञानवृत्तिकत्वात् संविद् एव । अस्य मायया स्पर्शाभावात् विशुद्धत्वम् ॥ क्तत्र चेदम् एव विशुद्धसत्त्वं सन्धिन्यंशप्रधानं चेद् आधारशक्तिः । संविदंशप्रधानम् आत्मविद्या । ह्लादिनीसारांशप्रधानं गुह्यविद्या । युगपत् शक्तित्रयप्रधानं मूर्तिः । अत्राधारशक्त्या भगवद्धाम प्रकाशते । तद् उक्तं—यत् सात्वताः पुरुषरूपम् उशन्ति सत्त्वं लोको यतः इति । तथा ज्ञानतत्प्रवर्तकलक्षणवृत्तिद्वयकयात्मविद्यया तद्वृत्तिरूपम् उपासकाश्रयं ज्ञानं प्रकाशते । एवं भक्तितत्प्रवर्तकलक्षणवृत्तिद्वयकया गुह्यविद्यया तद्वृत्तिरूपा प्रीत्यात्मिका भक्तिः प्रकाशते । एते एव विष्णुपुराणे लक्ष्मीस्तवे स्पष्टीकृते— यज्ञविद्या महाविद्या गुह्यविद्या च शोभते । आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥ इति । यज्ञविद्या कर्म । महाविद्या अष्टाङ्गयोगः । गुह्यविद्या भक्तिः । आत्मविद्या ज्ञानम् । तत्तत्सर्वाश्रयत्वात् त्वम् एव तत्तद्रूपा विविधानां मुक्तीनाम् अन्येषां च विविधानां फलानां दात्री भवसीत्य् अर्थः । अथ मूर्त्या परतत्त्वात्मकः श्रीविग्रहः प्रकाशते । इयम् एव वसुदेवाख्या । तद् उक्तं चतुर्थस्य तृतीये महादेवेन— सत्त्वं विशुद्धं वसुदेवशब्दितं यद् ईयते तत्र पुमान् अपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्य् अधोक्षजो मे मनसा विधीयते ॥ इति । अस्यार्थः—विशुद्धं स्वरूपशक्तिवृत्तित्वाज् जाड्यांशेनापि रहितम् इति विशेषेण शुद्धं, तद् एव वसुदेवशब्देनोक्तम् । कुतस् तस्य सत्त्वता वसुदेवता वा? तत्राह—यद् यस्मात् तत्र तस्मिन् पुमान् वासुदेव ईयते प्रकाशते । आद्ये तावद् अगोचरगोचरताहेतुत्वेन लोकप्रसिद्धसत्त्वसाम्यात् सत्त्वता व्यक्ता । द्वितीये त्व् अयं अर्थः—वसुदेवे भवति प्रतीयत इति वासुदेवः परमेश्वरः प्रसिद्धः । स च विशुद्धसत्त्वं प्रतीयते । अतः प्रत्ययार्थेन प्रसिद्धेन प्रकृत्यर्थो निर्धार्यते । ततश् च वासयति देवम् इति व्युत्पत्त्या व वसत्य् अस्मिन्न् इति वा वसुः । तथा दीव्यति द्योतत इति देवः । स चासौ स चेति वासुदेवः । धर्म इष्टं धनं नॄणां इति स्वयं भगवदुक्ते वसुभिर् भगवद्धर्मलक्षणैः पुण्यैः प्रकाशत इति वा वसुदेवः । तस्माद् वसुदेवशब्दितं विशुद्धसत्त्वम् । इत्थं स्वयं प्रकाशज्योतिरेकविग्रहभगवज्ज्ञानहेतुत्वेन— कैवल्यं सात्त्विकं ज्ञानं रजो वैकल्पिकं तु यत् । प्राकृतं तामसं ज्ञानं मन्निष्ठम् निर्गुणं स्मृतम् ॥ इत्य् आदौ । बहुत्र गुणातीतावस्थायाम् एव भगवज्ज्ञानश्रवणेन न च सिद्धम् । अत्र विशुद्धपदावगतं स्वरूपशक्तिवृत्तिभूतस्वप्रकाशतालक्षणत्वं तस्य व्यक्तम् । ततश् च सत्त्वे प्रतीयत इत्य् अत्र करण एवाधिकरणविवक्षा । स्वरूपशक्तिवृत्तित्वम् एव विशदयति । अपावृत आवरणशून्यः सन् प्रकाशते । प्राकृतं सत्त्वं चेत्, तर्हि तत्र प्रतिफलनम् एवावसीयते । ततश् च दर्पणे मुखस्येव तदन्तर्गततया तस्य तत्रावृतत्वेनैव प्रकाशः स्याद् इति भावः । फलितार्थम् आह—एवम्भूते सत्त्वे तस्मिन् नित्यम् एव प्रकाशमानो भगवान् मे मया मनसा विशेषेण धीयते चिन्त्यत इत्य् अर्थः । तत् सत्त्वं तादात्म्यापन्नेनैव मनसा चिन्तयितुं शक्यते इति पर्यवसितम् । ननु केवलेन मनसैव चिन्त्यतां, किं तेन सत्त्वेन? तत्राह—हि यस्माद् अधोक्षजः अधःकृतम् अतिक्रान्तम् अक्षजम् इन्द्रियज्ञानं येन सः । “नमसा” इति पाठे हिशब्दस्थानेऽप्य् अनुशब्दः पठ्यते । ततश् च विशुद्धसत्त्वाख्यया स्वप्रकाशताशक्त्यैव प्रकाशमानोऽसौ नमस्कारादिना केवलम् अनुविधीयते सेव्यते, न तु केनापि प्रकाश्यत इत्य् अर्थः । तद् एव सोऽदृश्यत्वेनैव स्फुरन्न् असौ अदृश्येनैव नमस्कारादिनास्माभिः सेव्यत इति भावः । ततस् तत्प्रकरणसङ्गतिश् च गम्यते । तथा यतो भगवद्विग्रहप्रकाशकविशुद्धसत्त्वस्य मूर्तित्वं वसुदेवत्वं च, तत एव तत्प्रादुर्भावविशेषे धर्मपत्न्या मूर्तित्वं प्रसिद्धम् । श्रीमदानकदुन्दुभौ च वसुदेवत्वम् इति विवेचनीयम् । अत्र श्रद्धापुष्ट्यादिलक्षणप्रादुर्भूतं भगवच्छक्त्यंशरूपस्य भगिनीतया पाठसाहचर्येण मूर्तेस् तस्यास् तच्छक्त्यंशप्रादुर्भावत्वम् उपलभ्यते । तुर्ये धर्मकलासर्गे नरनारायणाव् ऋषी इत्य् अत्र कलाशब्देन च शक्तिर् एवाभिधीयते । ततः शक्तिलक्षणायां तस्यां च नरनारायणाख्यभगवत्प्रकाशफलदर्शनात् वसुदेवाख्यशुद्धसत्त्वरूपत्वम् एवावसीयते । तद् एवम् एव तस्या मूर्तिर् इत्य् आख्याऽप्य् उक्ता । तथा च श्रद्धाद्या विशदार्थतया विमुच्य सैव निरुक्ता चतुर्थे—मूर्तिः सर्वगुणोत्पत्तिर् नरनारायणाव् ऋषी इति । सर्वगुणस्य भगवत उत्पत्तिः प्रकाशो यस्याः, सा ताव् असूतेति पूर्वेणान्वयः । भगवदाख्यायाः सच्चिदानन्दमूर्तेः प्रकाशहेतुत्वात् मूर्तिर् इत्य् अर्थः । तथैव तत्प्रकाशफलत्वदर्शनेन च नामैक्येन च श्रीमदानकदुन्दुभेर् अपि शुद्धसत्त्वाविर्भावत्वं ज्ञेयम् । तच् चोक्तं नवमे— वसुदेवं हरेः स्थानं वदन्त्य् आनकदुन्दुभिम् । इति । अन्यथा हरेः स्थानम् इति विशेषणस्याकिञ्चित्करत्वं स्याद् इति । तद् एवं ह्लादिन्याद्येकतमांशविशेषप्रधानेन विशुद्धसत्त्वेन यथायथं श्रीप्रभृतीनाम् अपि प्रादुर्भावो विवेक्तव्यः । तत्र च तासां भगवति सम्पद्रूपत्वं तदनुग्राह्ये सम्पत्सम्पादकरूपत्वं सम्पदंशरूपत्वं चेत्यादित्रिरूपत्वं ज्ञेयम् । तत्र तासां केवलशक्तिमात्रत्वेनामूर्तानां भगवद्विग्रहाद्यैकात्म्येन स्थितिः, तदधिष्ठात्रीरूपत्वेन मूर्तीनां तु तत्तदावरणतयेति द्विरूपत्वम् अपि ज्ञेयम् इति दिक् ॥ ॥
athaikam eva svarūpaṁ śaktitvena śaktimattvena ca virājatīti | yasya śakteḥ svarūpa-bhūtatvaṁ nirūpitaṁ tac-chakti-mattā-prādhānyena virājamānaṁ bhagavat-saṁjñām āpnoti tac ca vyākhyātam | tad eva ca śaktitva-prādhānyena virājamānaṁ lakṣmī-saṁjñām āpnotīti darśayituṁ tasyāḥ sva-vṛtti-bhedenānantāyāḥ kiyanto bhedā darśyante | yathā— śriyā puṣṭyā girā kāntyā kīrtyā tuṣṭyelayor jayā | vidyayāvidyayā śaktyā māyayā ca niṣevitam || śaktir mahā-lakṣmī-rūpā svarūpa-bhūtā | śakti-śabdasya prathama-pravṛtty-āśraya-rūpā bhagavad-antaraṅga-mahā-śaktiḥ | māyā ca bahiraṅgā śaktiḥ | śry-ādayas tu tayor eva vṛtti-rūpāḥ, tāsāṁ sarvāsām api prākṛtāprākṛtābhedena śrūyamānatvāt | tataḥ śriyety ādau śakti-vṛtti-rūpayā māyā-vṛtti-rūpayā ceti sarvatra jñeyam | tatra pūrvasyā bhedaḥ—śrīr bhāgavatī sampat, na tv iyaṁ mahā-lakṣmī-rūpā, tasyā mūla-śaktitvāt | tad agre vivaraṇīyam | uttarasyā bhedaḥ—śrīr jāgatī sampat | imām evādhikṛtya, sva eva dhiṣṇye'bhiratasya kiṁ tayā iti, na śrīr viraktam api māṁ vijahāti ity-ādi-vākyam | yata uktaṁ caturtha-śeṣe śrī-nāradena— śriyam anucaratīṁ tad-arthinaś ca dvipada-patīn vibudhāṁś ca yaḥ sva-pūrṇaḥ | na bhajati nija-bhṛtya-varga-tantraḥ katham amum udvisṛjet pumān rasajñaḥ || iti | tatra tad-arthi-dvipada-patyādi-saha-bhāva upajīvyaḥ | tathā durvāsasaḥ śāpa-naṣṭāyās trailokya-lakṣmyā āvirbhāvaṁ sākṣād-bhagavat-preyasī-rūpā svayaṁ kṣīrodād āvirbhūya dṛṣṭyā kṛtavatīti śrūyate | evam aparāpi | tatra ilā bhūs tad upalakṣaṇatvena līlā api | tatra ca pūrvasyā bhedo vidyā tattvāvabodha-kāraṇaṁ saṁvid-ākhyāyās tad-vṛtter vṛtti-viśeṣaḥ | uttarasyā bhedas tasyā eva vidyāyāḥ prakāśa-dvāram | avidyā-lakṣaṇo bhedaḥ pūrvasyā bhagavati vibhutvādi-vismṛti-hetur mātṛ-bhāvādimaya-premānanda-vṛtti-viśeṣaḥ | ata eva gopī-janāvidyā -kalā-prerakaḥ iti tāpanyāṁ śrutau | yathāvasaram etad api vivaraṇīyam | uttarasyāḥ sa bhedaḥ saṁsāriṇaṁ sva-svarūpa-vismṛty-ādi-hetur āvaraṇātmaka-vṛtti-viśeṣaḥ, ca-kārāt pūrvasyāḥ | sandhinī-saṁvit-hlādinī-bhakty-ādhāra-śakti-mūrti-vimalā-jayā-yogā prahvīśānānugrahādayaś ca jñeyāḥ | atra sandhiny eva satyā, jayaivotkarṣiṇī, yogaiva yogamāyā, saṁvid eva jñānājñāna-śaktiḥ śuddha-sattvaṁ ceti jñeyam | prahvī vicitrānanta-sāmarthya-hetuḥ, īśānā sarvādhikāritā-śakti-hetur iti bhedaḥ | evam uttarasyāś ca yathāyatham anyā jñeyāḥ | tad evam apy atra māyā-vṛttayo na vivriyante, bahiraṅga-sevitvāt | mūle tu sevā-mātra-sādhāraṇyena gaṇitāḥ | bahiraṅga-sevitvaṁ ca tasyā bhagavad-aṁśa-bhūta-puruṣasya vidūra-vartitayaivāśrityatvāt | tathā ca daśamasya sapta-triṁśe nāradena bhagavān śrī-kṛṣṇa evāstāvi— viśuddha-vijñāna-ghanaṁ sva-saṁsthayā samāpta-sarvārtham amogha-vāñchitam | sva-tejasā nitya-nivṛtta-māyā-guṇa-pravāhaṁ bhagavantam īmahi || tvām īśvaraṁ svāśrayam ātma-māyayā vinirmitāśeṣa-viśeṣa-kalpanam | krīḍārtham abhyātta-manuṣya-vigrahaṁ nato'smi dhuryaṁ yadu-vṛṣṇi-sātvatām || iti | anayor arthaḥ—viśuddhaṁ yad vijñānaṁ parama-tattvaṁ, tad eva ghanaḥ śrī-vigraho yasya | sva-saṁsthayā svarūpa-kāreṇa svarūpa-śaktyaiva vā samyag āptā ivāptā nitya-siddhāḥ pūrṇā vā sarve'rthā aiśvaryādayo yatra | ata eva na vidyate atitucchatvāt moghe vṛthā-bhūte jagat-kārye vāñchitaṁ vāñchā yasya | kvacid avāñchitasyāpi sambandho dṛśyate? ity āśaṅkyāha—sva-tejasā svarūpa-śakti-prabhāveṇa nityam eva nivṛtto dūrībhūto māyā-guṇa-pravāhaḥ, tat-paramparā yasmāt | ittham eva, yuktaṁ virahitaṁ śaktyā guṇa-mayyātma-māyayā ity uktam | ātma-māyayā svarūpa-bhūtayā śaktyā yuktam, guṇa-mayyā virahitam iti | taṁ bhagavantaṁ śaraṇaṁ vrajema | tathā tvāṁ śrī-kṛṣṇākhyaṁ bhagavantam eva svāṁśeneśvaram antaryāmi-puruṣam api santaṁ nato'smi | kathambhūtam? īśvaraṁ svarūpa-śaktyā svāśrayam api ātma-māyayā, ātmātra jīvātmā tad-viṣayayā māyayā | vinirmitā aśeṣa-viśeṣākārā kalpanā yena | yad vā, ātma-māyayā svarūpa-śaktyā svāśrayam, vinirmitā aśeṣa-viśeṣā yayā tathābhūtā kalpanā māyā-śaktir yasya | kīdṛśaṁ tvām? samprati tvad-āvirbhāva-samaye tasyāpīśvarasya tvayi bhagavaty eva praveśāt | yugapad-vicitra-tat-tac-chakti-prakāśena yā krīḍā tad-artham abhyāttaḥ abhi bhaktābhimukhyena āttaḥ ānītaḥ prakaṭito manuṣyākāro narākṛtiḥ paraṁ brahmeti smaraṇāt tad-rūpo bhagavad-ākhyo vigraho yena | tam eva punar viśinaṣṭi | yadu-vṛṣṭi-sātvatāṁ dhuryam | teṣāṁ nitya-parikarāṇāṁ prema-bhāravaham iti | athavā mūla-padye śaktyeti sarvatraiva viśeṣya-padam | śrīr mūla-rūpā | puṣṭy-ādayas tad-aṁśāḥ | vidyā jñānam | ā samīcīnā vidyā bhaktiḥ | rāja-vidyā rāja-guhyam ity ādy ukteḥ | māyā bahiraṅgā | tad-vṛttayaḥ śry-ādayas tu pṛthak jñeyāḥ | śiṣṭaṁ samam | tataś cātra śuddha-bhagavat-prakaraṇe svarūpa-śakti-vṛttiṣv eva gaṇanāyāṁ paryavasitāsu vivecanīyam idam | prathamaṁ tāvad ekasyaiva tattvasya saccidānandatvāc chaktir apy ekā tridhā bhidyate | tad uktaṁ viṣṇu-purāṇe śrī-dhruveṇa— hlādinī sandhinī saṁvit tvayy ekā sarva-saṁsthitau | hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || iti | vyākhyātaṁ ca svāmibhiḥ— hlādinī āhlāda-karī, sandhinī santatā, saṁvid vidyā-śaktiḥ | ekā mukhyā avyabhicāriṇī svarūpa-bhūteti yāvat | sā sarva-saṁsthitau sarvasya samyak sthitir yasmāt tasmin sarvādhiṣṭhāna-bhūte tvayy eva na tu jīveṣu ca sā guṇa-mayī trividhā sā tvayi nāsti | tām evāha—hlāda-tāpa-karī miśrā iti | hlāda-karī manaḥ-prasādotthā sāttvikī | tāpa-karī viṣaya-viyogādiṣu tāpa-karī tāmasī | tad-ubhaya-miśrā viṣaya-janyā rājasī | tatra hetuḥ sattvādi-guṇa-varjite | tad uktaṁ sarvajña-sūktau— hlādinyā saṁvid-āśliṣṭaḥ sac-cid-ānanda īśvaraḥ | svāvidyā-saṁvṛto jīvaḥ saṅkleśa-nikarākaraḥ || iti || atra kramād utkarṣeṇa sandhinī-saṁvid-dhlādinyo jñeyāḥ | tatra ca sati ghaṭānāṁ ghaṭatvam iva sarveṣāṁ satāṁ vastūnāṁ pratīter nimittam iti kvacit sattā-svarūpatvena āmnāto'py asau bhagavān, sad eva somyedam agra āsīt ity atra sad-rūpatvena vyapadiśyamānā yayā sattāṁ dadhāti dhārayati ca, sā sarva-deśa-kāla-dravyādi-prāpti-karī sandhinī | tathā saṁvid-rūpo'pi yayā saṁvetti saṁvedayati ca, sā saṁvit | tathā hlāda-rūpo'pi yayā saṁvid-utkaṭa-rūpayā taṁ hlādaṁ saṁvetti saṁvedayati ca, sā hlādinīti vivecanīyam | tad evaṁ tasyā mūla-śaktes try-ātmakatvena siddhe yena sva-prakāśatā-lakṣaṇena tad-vṛtti-viśeṣeṇa svarūpaṁ vā svayaṁ svarūpa-śaktir vā viśiṣṭaṁ vāvirbhavati tad viśuddha-sattvam | tac cānya-nirapekṣyas tat-prakāśa iti jñāpana-jñāna-vṛttikatvāt saṁvid eva | asya māyayā sparśābhāvāt viśuddhatvam || ktatra cedam eva viśuddha-sattvaṁ sandhiny-aṁśa-pradhānaṁ ced ādhāra-śaktiḥ | saṁvid-aṁśa-pradhānam ātma-vidyā | hlādinī-sārāṁśa-pradhānaṁ guhya-vidyā | yugapat śakti-traya-pradhānaṁ mūrtiḥ | atrādhāra-śaktyā bhagavad-dhāma prakāśate | tad uktaṁ—yat sātvatāḥ puruṣa-rūpam uśanti sattvaṁ loko yataḥ iti | tathā jñāna-tat-pravartaka-lakṣaṇa-vṛtti-dvayakayātma-vidyayā tad-vṛtti-rūpam upāsakāśrayaṁ jñānaṁ prakāśate | evaṁ bhakti-tat-pravartaka-lakṣaṇa-vṛtti-dvayakayā guhya-vidyayā tad-vṛtti-rūpā prīty-ātmikā bhaktiḥ prakāśate | ete eva viṣṇu-purāṇe lakṣmī-stave spaṣṭīkṛte— yajña-vidyā mahā-vidyā guhya-vidyā ca śobhate | ātma-vidyā ca devi tvaṁ vimukti-phala-dāyinī || iti | yajña-vidyā karma | mahā-vidyā aṣṭāṅga-yogaḥ | guhya-vidyā bhaktiḥ | ātma-vidyā jñānam | tat-tat-sarvāśrayatvāt tvam eva tat-tad-rūpā vividhānāṁ muktīnām anyeṣāṁ ca vividhānāṁ phalānāṁ dātrī bhavasīty arthaḥ | atha mūrtyā para-tattvātmakaḥ śrī-vigrahaḥ prakāśate | iyam eva vasudevākhyā | tad uktaṁ caturthasya tṛtīye mahādevena— sattvaṁ viśuddhaṁ vasudeva-śabditaṁ yad īyate tatra pumān apāvṛtaḥ | sattve ca tasmin bhagavān vāsudevo hy adhokṣajo me manasā vidhīyate || iti | asyārthaḥ—viśuddhaṁ svarūpa-śakti-vṛttitvāj jāḍyāṁśenāpi rahitam iti viśeṣeṇa śuddhaṁ, tad eva vasudeva-śabdenoktam | kutas tasya sattvatā vasudevatā vā? tatrāha—yad yasmāt tatra tasmin pumān vāsudeva īyate prakāśate | ādye tāvad agocara-gocaratā-hetutvena loka-prasiddha-sattva-sāmyāt sattvatā vyaktā | dvitīye tv ayaṁ arthaḥ—vasudeve bhavati pratīyata iti vāsudevaḥ parameśvaraḥ prasiddhaḥ | sa ca viśuddha-sattvaṁ pratīyate | ataḥ pratyayārthena prasiddhena prakṛty-artho nirdhāryate | tataś ca vāsayati devam iti vyutpattyā va vasaty asminn iti vā vasuḥ | tathā dīvyati dyotata iti devaḥ | sa cāsau sa ceti vāsudevaḥ | dharma iṣṭaṁ dhanaṁ nṝṇāṁ iti svayaṁ bhagavad-ukte vasubhir bhagavad-dharma-lakṣaṇaiḥ puṇyaiḥ prakāśata iti vā vasudevaḥ | tasmād vasudeva-śabditaṁ viśuddha-sattvam | itthaṁ svayaṁ prakāśa-jyotir-eka-vigraha-bhagavaj-jñāna-hetutvena— kaivalyaṁ sāttvikaṁ jñānaṁ rajo vaikalpikaṁ tu yat | prākṛtaṁ tāmasaṁ jñānaṁ man-niṣṭham nirguṇaṁ smṛtam || ity ādau | bahutra guṇātītāvasthāyām eva bhagavaj-jñāna-śravaṇena na ca siddham | atra viśuddha-padāvagataṁ svarūpa-śakti-vṛtti-bhūta-svaprakāśatā-lakṣaṇatvaṁ tasya vyaktam | tataś ca sattve pratīyata ity atra karaṇa evādhikaraṇa-vivakṣā | svarūpa-śakti-vṛttitvam eva viśadayati | apāvṛta āvaraṇa-śūnyaḥ san prakāśate | prākṛtaṁ sattvaṁ cet, tarhi tatra pratiphalanam evāvasīyate | tataś ca darpaṇe mukhasyeva tad-antargatatayā tasya tatrāvṛtatvenaiva prakāśaḥ syād iti bhāvaḥ | phalitārtham āha—evambhūte sattve tasmin nityam eva prakāśamāno bhagavān me mayā manasā viśeṣeṇa dhīyate cintyata ity arthaḥ | tat sattvaṁ tādātmyāpannenaiva manasā cintayituṁ śakyate iti paryavasitam | nanu kevalena manasaiva cintyatāṁ, kiṁ tena sattvena? tatrāha—hi yasmād adhokṣajaḥ adhaḥ-kṛtam atikrāntam akṣajam indriya-jñānaṁ yena saḥ | “namasā” iti pāṭhe hi-śabda-sthāne'py anu-śabdaḥ paṭhyate | tataś ca viśuddha-sattvākhyayā sva-prakāśatā-śaktyaiva prakāśamāno'sau namaskārādinā kevalam anuvidhīyate sevyate, na tu kenāpi prakāśyata ity arthaḥ | tad eva so'dṛśyatvenaiva sphurann asau adṛśyenaiva namaskārādināsmābhiḥ sevyata iti bhāvaḥ | tatas tat-prakaraṇa-saṅgatiś ca gamyate | tathā yato bhagavad-vigraha-prakāśaka-viśuddha-sattvasya mūrtitvaṁ vasudevatvaṁ ca, tata eva tat-prādurbhāva-viśeṣe dharma-patnyā mūrtitvaṁ prasiddham | śrīmad-ānakadundubhau ca vasudevatvam iti vivecanīyam | atra śraddhā-puṣṭy-ādi-lakṣaṇa-prādurbhūtaṁ bhagavac-chakty-aṁśa-rūpasya bhaginītayā pāṭha-sāhacaryeṇa mūrtes tasyās tac-chakty-aṁśa-prādurbhāvatvam upalabhyate | turye dharma-kalā-sarge nara-nārāyaṇāv ṛṣī ity atra kalā-śabdena ca śaktir evābhidhīyate | tataḥ śakti-lakṣaṇāyāṁ tasyāṁ ca nara-nārāyaṇākhya-bhagavat-prakāśa-phala-darśanāt vasudevākhya-śuddha-sattva-rūpatvam evāvasīyate | tad evam eva tasyā mūrtir ity ākhyā'py uktā | tathā ca śraddhādyā viśadārthatayā vimucya saiva niruktā caturthe—mūrtiḥ sarva-guṇotpattir nara-nārāyaṇāv ṛṣī iti | sarva-guṇasya bhagavata utpattiḥ prakāśo yasyāḥ, sā tāv asūteti pūrveṇānvayaḥ | bhagavad-ākhyāyāḥ sac-cid-ānanda-mūrteḥ prakāśa-hetutvāt mūrtir ity arthaḥ | tathaiva tat-prakāśa-phalatva-darśanena ca nāmaikyena ca śrīmad-ānakadundubher api śuddha-sattvāvirbhāvatvaṁ jñeyam | tac coktaṁ navame— vasudevaṁ hareḥ sthānaṁ vadanty ānakadundubhim | iti | anyathā hareḥ sthānam iti viśeṣaṇasyākiñcitkaratvaṁ syād iti | tad evaṁ hlādiny-ādy-ekatamāṁśa-viśeṣa-pradhānena viśuddha-sattvena yathāyathaṁ śrī-prabhṛtīnām api prādurbhāvo vivektavyaḥ | tatra ca tāsāṁ bhagavati sampad-rūpatvaṁ tad-anugrāhye sampat-sampādaka-rūpatvaṁ sampad-aṁśa-rūpatvaṁ cety-ādi-trirūpatvaṁ jñeyam | tatra tāsāṁ kevala-śakti-mātratvenāmūrtānāṁ bhagavad-vigrahādyaikātmyena sthitiḥ, tad-adhiṣṭhātrī-rūpatvena mūrtīnāṁ tu tat-tad-āvaraṇatayeti dvirūpatvam api jñeyam iti dik || ||
Теперь: один и тот же собственный облик сияет и как сила, и как обладатель силы. Тот, у кого описана присущность силы собственному облику, сияя с главенством обладания силою, получает имя «Бхагаван», — и это истолковано. А он же, сияя с главенством бытия силою, получает имя «Лакшми»; и чтобы это показать, показываются сколько-то её различий — хотя по различию своих действий она бесконечна. Вот как:
«…послужённый Шри, Пушти, Гирой, Канти, Кирти, Тушти, Илой, Джаей, Видьей, Авидьей, Шакти и Майей».
«Шакти» — та, что имеет облик великой Лакшми и присуща собственному облику: сокровенная великая сила Бхагавана, на которую слово «шакти» ложится первым. «Майя» — сила внешняя. А «Шри» и прочие суть облики действий тех двух: ведь все они слышатся и пракритными, и непракритными без различия. Потому везде, начиная с «Шри», надо знать: и обликом действия силы, и обликом действия майи.
И там различие первой — Шри как богатство Бхагавана; но не та, что имеет облик великой Лакшми, ибо она сила коренная (это будет раскрыто впереди). Различие второй — Шри как богатство мирское. Её-то и берут речения «что с нею тому, кто радуется в своей же обители», «Шри не оставляет Меня, хоть Я и отрешён» и далее. Ибо в остатке четвёртой песни сказано Шри Нарадой: «Кто, Собою полон, не почитает ни Шри, следующую за Ним, ни домогающихся её владык двуногих и богов, — подвластный сонму Своих слуг, — как человек, знающий вкус, оставил бы Его?» Там опорою служит то, что она названа вместе с владыками двуногих и прочими, которые её домогаются.
Так же слышится, что явление Лакшми трёх миров, погибшей от проклятия Дурвасы, взглядом своим сделала она сама, явившись из молочного океана, — та, что имеет облик возлюбленной Бхагавана воочию. Так же и иная.
Там Ила — земля, а по указанию ею и Лила. И там различие первой — Видья как причина уразумения сущности, особенность действия того действия, что именуется «самвит». Различие второй — дверь проявления той же Видьи.
Различие, чей признак «Авидья», у первой — особенность действия любовного блаженства, состоящая из чувства матери и прочего, причина забвения в Бхагаване вездесущности и прочего. Потому и в шрути «Тапани»: «побудитель долей авидьи людей-пастушек». Когда будет случай, и это должно быть раскрыто. У второй то различие — особенность действия, чья природа покрытие, причина забвения круговоротящимся своего собственного облика и прочего. А из частицы «и» — и различия первой.
Надо узнать и «сандхини», «самвит», «хладини», силу, что опора преданности, «мурти», «вималу», «джаю», «йогу», «прахви», «ишану», «ануграху» и прочие. И надо знать: «сандхини» и есть «сатья», «джая» и есть «уткаршини», «йога» и есть «йогамайя», «самвит» и есть сила знания и незнания, она же чистая саттва. Различие же: «прахви» — причина пёстрой бесконечной способности, «ишана» — причина силы всевластия. Так же как подобает надо узнать и иные у второй.
И всё же действия майи здесь не раскрываются, ибо служение её внешнее; в корне они перечислены лишь по общности служения как такового. А внешним служение её потому, что к ней прибегает лишь Пуруша, сущий долею Бхагавана, пребывая вдали.
Так и в тридцать седьмой главе десятой песни Нарадой восславлен именно Бхагаван Шри Кришна:
«К Бхагавану идём — к сгустку чистого постижения, у которого Своим состоянием достигнуты все цели и желаемое не тщетно, у которого Своим сиянием вечно отвращён поток свойств майи».
«Тебе, Владыке, Себе прибежищу, у кого Своею майей сотворено измышление бесчисленных особенностей, принявшему ради игры человеческий облик, вожатому Яду, Вришни и сатватов, — склонился я».
Смысл их таков. «Чистое» «постижение» — высшая сущность; она же и «сгусток», то есть прекрасный облик Его. «Своим состоянием», то есть образом собственного облика или же силою собственного облика, «все цели» — владычество и прочее — у Него вполне обретены, как бы обретены, вечно совершенны или полны. Потому «желаемого», то есть желания, у Него и нет в тщетном, напрасном деле мира — по крайней его ничтожности.
А что где-то видна связь и у нежелающего? Усомнившись так, говорит: «Своим сиянием», то есть мощью силы собственного облика, «вечно» «отвращён», то есть удалён, «поток свойств майи», череда его. Так же сказано: «соединён силою, Своею майей, и лишён состоящей из свойств», то есть соединён «Своею майей» — силою, присущей собственному облику, и лишён «состоящей из свойств». К Тому Бхагавану, прибежищу, да придём.
Так же: «Тебя», то есть именно Бхагавана, именуемого Шри Кришной, хотя и сущего Своею долею Владыкой, Пурушей-Внутренним правителем, «склонился я». Каков же? «Владыку», силою собственного облика и «Себе прибежище», хотя «Своею майей» — здесь «атман» есть джива, и майя имеет её предметом, — «сотворено» «измышление», то есть образы бесчисленных особенностей. Или же: «Своею майей», силою собственного облика, «Себе прибежище»; а «измышление» — майя-сила, которою сотворены бесчисленные особенности.
Каким же Тебя? Ныне, во время Твоего явления, ибо и тот Владыка вошёл именно в Тебя, Бхагавана. «Ради» игры, что есть проявление разом тех и тех пёстрых сил, «принят» — «абхи» значит: по обращённости к преданным взят, приведён, явлен — «человеческий облик», то есть облик человеческого вида, именуемый «Бхагаван», по памятованию «высший Брахман человеческого вида». И Его же он определяет вновь: «вожатый Яду, Вришни и сатватов», то есть несущий бремя любви этих вечных спутников.
Или же в коренном стихе «шакти» — определяемое слово везде. Шри — коренной облик, Пушти и прочие — её доли. Видья — знание, а «а-видья» — верная видья, то есть преданность, по речению «царская видья, царская тайна» и далее. Майя — внешняя, а её действия — Шри и прочие — надо узнавать отдельно. Остальное то же.
И потому здесь, в разделе о чистом Бхагаване, когда перечисление завершилось именно на действиях силы собственного облика, должно разобрать вот что.
Прежде всего: у одной сущности, раз она сущее, сознание и блаженство, и сила одна делится натрое. О том сказано Шри Дхрувой в «Вишну-пуране»: «Хладини, сандхини, самвит — одна в Тебе, опоре всего; а творящая радость, жар и смешанная — не в Тебе, лишённом свойств».
И истолковано это Свами: «„Хладини“ — творящая радость, сандхини — непрерывная, самвит — сила знания. „Одна“ — главная, неотступная, то есть присущая собственному облику. Она „в Тебе“, „опоре всего“ — в том, от кого полное стояние всего и кто основа всему, — именно в Тебе, а не в дживах. А та, состоящая из свойств, троякая, — её в Тебе нет. О ней он и говорит: „творящая радость, жар и смешанная“. „Творящая радость“ — саттвичная, рождённая ясностью ума; „творящая жар“ — тамасичная, творящая жар при разлуке с предметами и прочем; „смешанная“ из обоих — раджасичная, рождаемая предметами. И причина тому — что Ты „лишён“ саттвы и прочих „свойств“».
О том сказано и в «Сарваджня-суктах»: «Сущее, сознание, блаженство, объятый хладини и самвит, — Владыка; покрытый своим неведением — джива, рудник множества мучений».
Здесь по порядку, с возрастанием, надо знать сандхини, самвит и хладини. И там: как горшковость у горшков, так и причина постижения всех сущих вещей — в сущем; потому где-то тот Бхагаван возвещён и как сам облик существования, и в «сущее именно, о милый, это было прежде» обозначается обликом сущего. Та, которою Он полагает и держит существование, творящая обретение всех мест, времён, веществ и прочего, — сандхини. Так же Он и облик самвит: та, которою Он сознаёт и даёт сознавать, — самвит. Так же Он и облик радости: та, которою — усиленным обликом самвит — Он сознаёт ту радость и даёт сознавать, — хладини. Так это должно разобрать.
А раз достигнуто, что коренная сила её троякой природы, — то, что является тем её особым действием, чей признак самоявляемость (является ли собственный облик, или сама сила собственного облика, или то и другое вместе), — есть чистая саттва. И она, поскольку действие её — знание и извещение о том, что проявление Его не требует иного, есть именно самвит. Чистота же её — от того, что майя её не касается.
И здесь эта самая чистая саттва, если главною в ней доля сандхини, есть сила-опора; если главною доля самвит — «атма-видья»; если главною доля сути хладини — «гухья-видья»; а если разом главенствует троица сил — «мурти».
Силою-опорою здесь проявляется обитель Бхагавана. О том сказано: «что сатваты зовут обликом Пуруши, саттвой, от которой мир». Так же «атма-видьей», у которой двоица действий — знание и побуждение к нему, — проявляется знание, что есть облик её действия и пребывает в почитателе. Так же «гухья-видьей», у которой двоица действий — преданность и побуждение к ней, — проявляется преданность, чья природа любовь и которая есть облик её действия.
Они же ясно явлены в «Вишну-пуране», в хвале Лакшми: «Ягья-видья, маха-видья, гухья-видья сияет, и атма-видья — Ты, о богиня, дающая плод освобождения». «Ягья-видья» — дело, «маха-видья» — восьмичленная йога, «гухья-видья» — преданность, «атма-видья» — знание. Смысл: будучи прибежищем всего того и того, Ты и бываешь обликом того и того, дательницей разных освобождений и разных иных плодов.
Теперь: «мурти» проявляется прекрасный облик, чья природа высшая сущность. Она же и именуется «Васудевой». О том сказано Махадевой в третьей главе четвёртой песни: «Чистая саттва, именуемая „Васудевой“, которой является там Пуруша непокрытым; и в той саттве Бхагаван Васудева, Запредельный чувствам, полагается мною умом».
Смысл этого: «чистая», то есть, будучи действием силы собственного облика, лишена и доли косности, — потому особо чиста; она же и названа словом «Васудева». Откуда у неё бытие саттвой или бытие Васудевой? На это он говорит: «которой», то есть ибо «там», в ней, «Пуруша», Васудева, «является», то есть проявляется.
В первом случае бытие саттвой явно из сходства с известной в мире саттвой: та ведь тоже причина того, что недоступное становится доступным. Во втором смысл таков: «Васудева», высший Владыка, известен как тот, кто «бывает, постигается в васу»; а постигается Он в чистой саттве. Потому по известному смыслу суффикса удостоверяется смысл основы. И «васу» — или по производству «облекает бога», или «обитает в нём»; а «дева» — «играет, сияет». Он и то и другое — потому «Васудева». Или же, по слову Самого Бхагавана «закон — желанное богатство у людей», «васу» суть добродетели, чей признак закон Бхагавана, и Он проявляется ими — потому «Васудева». Потому чистая саттва и именуется «Васудевой».
Так — тем, что она причина знания о Бхагаване, чей облик один самосветящийся свет, — и не иначе это достигнуто: во многих местах, в «одинокое знание — саттвичное, разделяющее же — раджас, а пракритное знание — тамасичное; утверждённое же во Мне почитается бессвойственным» и далее, слышно о знании о Бхагаване именно в состоянии, превзошедшем свойства.
Здесь словом «чистая» явно уразумевается, что признак её — самоявляемость, сущая действием силы собственного облика. И потому в «в саттве постигается» при орудии подразумевается именно вместилище. И то, что она действие силы собственного облика, он проясняет: «непокрытый», то есть лишённый покрова, Он проявляется. Будь она пракритной саттвой, там заключалось бы одно лишь отражение; и тогда проявление Его было бы, как у лица в зеркале, вошедшим в неё и потому покрытым. Таков смысл.
Плод смысла он говорит: в таковой саттве вечно проявляющийся «Бхагаван» «мною» «умом» особо «полагается», то есть мыслится. Выходит, что мыслить ту саттву можно лишь умом, обретшим с нею тождество.
Но ведь пусть мыслится одним умом — что с тою саттвой? На это он говорит: «ведь» — «Запредельный чувствам», то есть Тот, кем положено вниз, превзойдено рождённое от чувств знание. При чтении «намаса» на месте слова «хи» читается слово «ану»; и тогда смысл: проявляющийся силою самоявляемости, именуемой чистой саттвой, Он лишь вослед почитается поклоном и прочим, то есть Ему служат, а никем Он не освещается. То есть: Он, сияющий именно незримостью, и служится нами именно незримым — поклоном и прочим. Отсюда понимается и связность того раздела.
Так же: раз у чистой саттвы, проявляющей облик Бхагавана, есть бытие «мурти» и бытие «Васудевой», — потому при особом её явлении и известно, что супруга Дхармы есть Мурти, а прекрасный Анакадундубхи — Васудева. Так это должно разобрать. И здесь, по соседству чтения, где Мурти названа сестрою явленных Шраддхи, Пушти и прочих, имеющих облик долей силы Бхагавана, постигается, что и она явление доли Его силы.
А в четвёртой песни, в «при творении калы Дхармы — два риши, Нара и Нараяна», словом «кала» именуется именно сила. Потому, видя, что в ней, имеющей признак силы, плодом было проявление Бхагавана, именуемого «Нара и Нараяна», — заключается, что она имеет облик именно чистой саттвы, именуемой «Васудевой». Потому же и имя её сказано «Мурти». И так, отделив её от Шраддхи и прочих ради ясности смысла, её же и определяют в четвёртой песни: «Мурти — возникновение всех свойств — родила Нару и Нараяну, двух риши». То есть: у которой возникновение, то есть проявление, Бхагавана, обладающего всеми свойствами, — она их двоих родила; такова связь с прежним. Смысл: «Мурти» потому, что она причина проявления образа сущего, сознания и блаженства, именуемого «Бхагаван».
Так же, видя, что и здесь плодом было Его проявление, и по единству имени, надо знать, что и прекрасный Анакадундубхи есть явление чистой саттвы. О том и сказано в девятой песни: «Анакадундубхи называют Васудевой, обителью Хари». Иначе определение «обитель Хари» ничего бы не делало.
И так же, по главенству особенности одной из долей — хладини и прочих, — чистою саттвой как подобает должно разобрать и явление Шри и прочих. И там надо знать троякость: они и облик богатства в Бхагаване, и облик доставляющего богатство в том, кого Он одаряет, и облик доли богатства, и так далее. И надо знать также двоякость: те из них, что не имеют образа, будучи одною лишь силой, пребывают в единстве с обликом Бхагавана и прочим; а имеющие образ, будучи обликом правительниц их, — как то и то Его окружение. Таково направление.
58e6721cd4db · published Sep 20, 2026, 11:13:10 AM UTC
Available inRUPage between verses with
Здесь одно и то же названо двумя именами: сияет как обладатель силы — «Бхагаван», сияет как сила — «Лакшми»; весь список имён после этого читается вдвойне, по силе внутренней и по внешней.
Троица сандхини, самвит и хладини взята не как перечень, а как возрастание: ею Он есть, ею сознаёт, ею радуется, — и каждое следующее включает предыдущее.
Чистая саттва отличена от природной одним доводом: в природной было бы лишь отражение, как лицо в зеркале, и проявление Его оказалось бы покрытым.