षट्सन्दर्भ
Sandarbha Two — Bhagavat: The Lord as a Person2.98.5जीव गोस्वामी
218 / 1405
Linux
पन्ने पलटें
षट्सन्दर्भ · 2.98.5
॥
देवनागरी

तत्र प्रथमतो ज्ञानादिगुणगणसेवितेन सम्यग्दर्शनकारणेन भक्तियोगेनानुभूयमानं भगवदाकारम् अखण्डम् एव तत्त्वं स्वप्रतिपाद्यत्वेन दर्शयन्त्यो ब्रह्मस्वरूपम् अपि तथात्वेन क्रोडीकुर्वन्त्यः श्रुतय ऊचुः— जय जय जह्य् अजाम् अजित दोषगृभीतगुणां त्वम् असि यद् आत्मना समवरुद्धसमस्तभगः । अगजगदोकसाम् अखिलशक्त्यवबोधक ते क्वचिद् अजयात्मना च चरतोऽनुचरेन् निगमः ॥ भोः अजित! जय जय निजोत्कर्षम् आविष्कुरु । आदरे वीप्सा । अत्राजितेति सम्बोधनेनेदं लभ्यते, नामव्याहरणं विष्णोर् यतस् तद्विषया मतिः इति न्यायेन नाम्ना भगवान् असौ साक्षाद् अभिमुखीक्रियत इति लिङ्गाद् एव तच्छ्रीविग्रहवत् तद् अपि तत्स्वरूपभूतम् एव भवति, तद्विजातीयेन तदभिमुखीकरणानर्हत्वात् । अत एव भयद्वेषादौ श्रीमूर्तेः स्फूर्तेर् इव साङ्केत्यादाव् अप्य् अस्य प्रभावः श्रूयते । विशेषतश् चात्र श्रुतिविद्वदनुभवाव् अपि पूर्वम् एव प्रमाणीकृतौ । तस्माद् यत् तत्त्वं श्रीविग्रहरूपेण चक्षुरादाव् उदयते, तद् एव नामरूपेण वागादाव् इति स्थितम् । तस्मान् नामनामिनोः स्वरूपाभेदेन तत्साक्षात्कारे तत्साक्षात्कार एवेत्य् अतः किं वक्तव्यम् अन्यत्रान्यवद् भगवति श्रुतयोऽपि जात्यादिकृतसंज्ञासंज्ञिसङ्केतादिरीत्या रूढ्यादिवृत्तिभिश् चरन्तीति । यासां श्रुत्यभिधानां वल्लीनां साक्षात् तथाभूतानि नामान्य् एव फलानीति । उत्कर्षम् आविष्कुर्व् इत्य् अनेन इत्थं सर्वोत्कृष्टतागुणयोगेन मुख्ययैव वृत्त्या श्रुतयस् तस्मिंश् चरन्तीति दर्शितम् । श्रुतयश् च—न ते महि त्वाम् अन्व् अश्नुवन्ति , न तत्समश् चाभ्यधिकश् च दृश्यते इत्याद्याः । अत्र श्रुतयो जय जयेति स्वभक्त्याविष्कारात् भक्तिम् एव तत्प्रकाशे हेतुं गमयन्ति । केन व्यापारेणोत्कर्षम् आविष्करवाणि? इत्य् आशङ्क्य मायानिरसनद्वारा स्वभक्तिदानेनैवेत्य् आहुः—अजां मायां जहि । ननु माया नाम विद्याविद्यावृत्तिका शक्तिः । तर्हि तद्धनने विद्याया अपि हतिः स्यात्? इत्य् अत्र आह—दोषगृभीतगुणां, जीवानाम् आत्मविस्मृतिहेताव् अविद्यालक्षणे दोषे एव गृभीतो गृहीतस् तत्स्मृतिहेतुविद्यालक्षणो गुणो यया ताम् । स्वयम् एव स्वावेशेनाविद्यालक्षणं दोषम् उत्पाद्य क्वचिद् एव कदाचिद् एव कथञ्चिद् एव कञ्चिद् एव जीवं त्यजतीति तस्यास् त्यागात्मकविद्याख्यगुणोऽपि दोष एव । तस्मात् तां निर्मूलां विधाय जीवेभ्यो निजचरणारविन्दविषयां भक्तिम् एव दिशेति तात्पर्यम् । अतो मायाघातनयोग्यशक्तित्वेन तदतीतत्वं व्यपदिश्य सच्चिदानन्दघनत्वं भगवतो व्यञ्जयन्त्योऽतन्निरसनमुखेन तात्पर्यवृत्त्या श्रुतयश् चरन्तीति व्यञ्जितम् । श्रुतयश् च—मायां तु प्रकृतिं विद्यान् मयिनं तु महेश्वरम् इति, अजाम् एकाम् इति, सर्वस्याधिपतिः सर्वस्येशानः , स वा एष नेति नेति इत्याद्याः । ननु मायानाशं सम्प्रार्थ्य मम तदुपाधिकम् ऐश्वर्यादिकम् अपि नाशयितुम् इच्छथेत्य् अत्र समादधते—त्वम् इति । यद् यस्मात् त्वम् आत्मना स्वरूपेणैव समवरुद्धसमस्तभगः प्राप्तत्रिपाद्विभूत्याख्यसर्वैश्वर्यादिर् असि, तस्मात् तव तया तुच्छया तदुपाधिकैर् ऐश्वर्यादिभिर् वा किम् इत्य् अर्थः । तथा च, स यद् अजया त्व् अजाम् इत्य् अत्र पद्ये टीका— नहि निरन्तराह्लादिसंवित्कामधेनुवृन्दपतेर् अजया कृत्यम् इति । तथा न ह्य् अन्येषाम् इव देशकालादिपरिच्छिन्नं तवाष्टगुणितम् ऐश्वर्यं, अपि तु परिपूर्णस्वरूपानुबन्धित्वाद् अपरिमितम् इत्य् अर्थः । इत्य् एषा । अत्रात्मशब्देन स्वरूपमात्रवाचकेन, तथा भगशब्देन स्वरूपभूतगुणवाचकेनेदं ध्वन्यते—स्वरूपादिशब्दा ईश्वरादिशब्दाश् च स्वरूपमात्रावलम्बनया स्वरूपभूतगुणावलम्बनयापि रूढ्या निर्देष्टुं शक्नुवन्तीति । श्रुतयश् च—यदात्मको भगवान् तदात्मिका व्यक्तिः इत्याद्याः, परास्य शक्तिर् विविधैव श्रूयते इत्यादिकाश् च । सा च स्वरूपशक्तिः सर्वैर् एवावगम्यत इत्य् आहुः—अगानि स्थावराणि जगन्ति जङ्गमानि ओकांसि शरीराणि येषां, तेषां सर्वेषाम् एव जीवानां या अखिलाः शक्तयस् तासाम् अवबोधक इति सम्बोधनम् । तेषु विचित्रशक्तिव्यञ्जकतादर्शनान् मायाया अपि त्वदीक्षणेनैव क्षमत्वात् त्वं स्वरूपभूताशेषशक्तिलहरीरत्नाकर इत्य् अनुमीयत इत्य् अर्थः । यद् वा, ननु मायाहननेन तदुपाधेर् जीवस्य तु शक्तिहानिः स्यात्? तत्राहुः—अगैति । अथ पूर्ववद् एव । ततः स्वरूपशक्त्यैव प्रत्युत तेषां सुखैकप्रदा पूर्णा शक्तिर् भविष्यतीति भावः । अत्रेत्थं तटस्थलक्षणेन श्रुतयश् चरन्तीत्य् उक्तम् । श्रुतयश् च—को ह्य् एवान्याद् इत्यादिकाः, प्राणस्य प्राणम् इत्यादिकाः, तम् एव भान्तम् इत्यादिकाः, देहान्ते देवस् तारकं ब्रह्म व्याचष्टे इति, यस्य देवे परा भक्तिर् इत्याद्याश् च । ननु विशेषतो भवत्यः कथं जानन्ति यद् अजया मम कृत्यं नास्ति, तथा सच्चिदानन्दघन एव स्वरूपशक्त्या समवरुद्धसमस्तभगः? इति तत्राहुः—क्वचिद् इति । क्वचित् कदाचित् सृष्ट्यादिसमये पुरुषरूपेण अजया मायया चरतः क्रीडतः नित्यं च स्वरूपशक्त्याविष्कृतस्वरूपभूतभगेन सत्यज्ञानानन्दैकरसेनात्मना चरतस् तवास्मल्लक्षणो निगमः शब्दरूपेण देवतारूपेण च अनुचरेत् सेवते । तस्माद् वयं तत् सर्वं जानीम इत्य् अर्थः । कर्मणि षष्ठी । एतद् उक्तं भवति—अत्र द्विविधो वेदः—त्रैगुण्यविषयः, निस्त्रैगुण्यविषयश् च । तत्र त्रैगुण्यविषयस् त्रिविधः । प्रथमप्रकारस् तावत् तदवलम्बनताटस्थ्येन तल्लक्षकः । यथा, यतो वा इमानि भूतानि इत्यादिः । द्वितीयप्रकारश् च त्रिगुणमयतदीशितव्यादिवर्णनादिद्वारा तन्महिमादिदर्शकः । यथा इन्द्रो यतोऽवसितस्य राजा इत्यादिः । तृतीयप्रकारश् च त्रैगुण्यनिरासेन परमवस्तूद्देशकः । सोऽप्य् अयं द्विविधः—निषेधद्वारा, सामानाधिकरण्यद्वारा च । तत्र पूर्वद्वारा अस्थूलम् अनणु , नेति नेति इत्यादिः । उत्तरद्वारा, सर्वं खल्व् इदं ब्रह्म , तत् त्वम् असि इत्यादिः । पूर्ववाक्ये तज्जातत्वाद् इति हेतोः सर्वस्यैव ब्रह्मत्वं निर्दिश्य तत्राविष्कृतः सद् इदम् इति प्रतीतिपरमाश्रयो योऽंशः स एव शुद्धं ब्रह्मेत्य् उद्दिश्यते । उत्तरवाक्ये त्वंपदार्थस्य तद्वच् चिदाकारतच्छक्तिरूपत्वेन तत्पदार्थैक्यं यद् उपपाद्यते, तेनापि तत्पदार्थो ब्रह्मैवोद्दिश्यते । तत्पदार्थज्ञानं विना त्वंपदार्थज्ञानमात्रम् अकिञ्चित्करम् इति तत्पदोपन्यासः । त्रैगुण्यातिक्रमस् तूभयत्रापि । अत्र त्रैगुण्यनिरासेन तदुद्देशेन यत्र तदीयधर्माः स्पष्टम् एव गम्यते, तत्र भगवत्परत्वम् । यत्र त्व् अस्पष्टं, तत्र ब्रह्मपरत्वम् इत्य् अवगन्तव्यम् । व्याख्यातस् त्रैगुण्यविषयः । तद् एतद् अजया चरतोऽनुचरेद् इति व्याख्यातम् । अथ निस्त्रैगुण्योऽपि द्विविधः—ब्रह्मपरः, भगवत्परश् च । यथा आनन्दो ब्रह्म इत्यादिः । न तस्य कार्यं करणं च विद्यते न तत्समश् चाभ्यधिकश् च दृश्यते । परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ इत्यादिश् च । तद् एतद् आत्मना चरतोऽनुचरेन् निगमः इति व्याख्यातम् । अतः श्रुतेस् तच्चारित्वं सिद्धम् । साक्षाच्चारित्वं च निस्त्रैगुण्यानां स्वत एव, अन्येषां तु तदेकवाक्यतया ज्ञेयम् । मायानिरसनार्थम् एव तत्तद्गुणानुवादः क्रियते । पश्चाद् अखण्डम् एव तां निरस्य साक्षाद्भगवत्स्वरूपगुणादिकं निर्दिश्यत इति तद् एकवाक्यताद्योतनया स एष एव सिद्धान्तोऽस्मिन्न् उपक्रमवाक्ये समुद्दिष्टः । तथोपसंहारे च—श्रुतयस् त्वयि हि फलन्त्य् अतन्निरसनेन भवन्निधनाः इति । श्रुतयश् च मध्वभाष्यप्रमाणिताः—न चक्षुर् न श्रोत्रं न तर्को न स्मृतिर् वेदो ह्य् एवैनं वेदयति इत्याद्याः, औपनिषदः पुरुषः इत्याद्याश् च ॥

लिप्यंतरण (IAST)

tatra prathamato jñānādi-guṇa-gaṇa-sevitena samyag-darśana-kāraṇena bhakti-yogenānubhūyamānaṁ bhagavad-ākāram akhaṇḍam eva tattvaṁ sva-pratipādyatvena darśayantyo brahma-svarūpam api tathātvena kroḍīkurvantyaḥ śrutaya ūcuḥ— jaya jaya jahy ajām ajita doṣa-gṛbhīta-guṇāṁ tvam asi yad ātmanā samavaruddha-samasta-bhagaḥ | aga-jagad-okasām akhila-śakty-avabodhaka te kvacid ajayātmanā ca carato'nucaren nigamaḥ || bhoḥ ajita! jaya jaya nijotkarṣam āviṣkuru | ādare vīpsā | atrājiteti sambodhanenedaṁ labhyate, nāma-vyāharaṇaṁ viṣṇor yatas tad-viṣayā matiḥ iti nyāyena nāmnā bhagavān asau sākṣād abhimukhīkriyata iti liṅgād eva tac-chrī-vigrahavat tad api tat-svarūpa-bhūtam eva bhavati, tad-vijātīyena tad-abhimukhī-karaṇānarhatvāt | ata eva bhaya-dveṣādau śrī-mūrteḥ sphūrter iva sāṅketyādāv apy asya prabhāvaḥ śrūyate | viśeṣataś cātra śruti-vidvad-anubhavāv api pūrvam eva pramāṇīkṛtau | tasmād yat tattvaṁ śrī-vigraha-rūpeṇa cakṣur-ādāv udayate, tad eva nāma-rūpeṇa vāg-ādāv iti sthitam | tasmān nāma-nāminoḥ svarūpābhedena tat-sākṣāt-kāre tat-sākṣāt-kāra evety ataḥ kiṁ vaktavyam anyatrānyavad bhagavati śrutayo'pi jāty-ādi-kṛta-saṁjñā-saṁjñi-saṅketādi-rītyā rūḍhy-ādi-vṛttibhiś carantīti | yāsāṁ śruty-abhidhānāṁ vallīnāṁ sākṣāt tathā-bhūtāni nāmāny eva phalānīti | utkarṣam āviṣkurv ity anena itthaṁ sarvotkṛṣṭatā-guṇa-yogena mukhyayaiva vṛttyā śrutayas tasmiṁś carantīti darśitam | śrutayaś ca—na te mahi tvām anv aśnuvanti , na tat-samaś cābhyadhikaś ca dṛśyate ity-ādyāḥ | atra śrutayo jaya jayeti sva-bhaktyāviṣkārāt bhaktim eva tat-prakāśe hetuṁ gamayanti | kena vyāpāreṇotkarṣam āviṣkaravāṇi? ity āśaṅkya māyā-nirasana-dvārā sva-bhakti-dānenaivety āhuḥ—ajāṁ māyāṁ jahi | nanu māyā nāma vidyāvidyā-vṛttikā śaktiḥ | tarhi tad-dhanane vidyāyā api hatiḥ syāt? ity atra āha—doṣa-gṛbhīta-guṇāṁ, jīvānām ātma-vismṛti-hetāv avidyā-lakṣaṇe doṣe eva gṛbhīto gṛhītas tat-smṛti-hetu-vidyā-lakṣaṇo guṇo yayā tām | svayam eva svāveśenāvidyā-lakṣaṇaṁ doṣam utpādya kvacid eva kadācid eva kathañcid eva kañcid eva jīvaṁ tyajatīti tasyās tyāgātmaka-vidyākhya-guṇo'pi doṣa eva | tasmāt tāṁ nirmūlāṁ vidhāya jīvebhyo nija-caraṇāravinda-viṣayāṁ bhaktim eva diśeti tātparyam | ato māyā-ghātana-yogya-śaktitvena tad-atītatvaṁ vyapadiśya sac-cid-ānanda-ghanatvaṁ bhagavato vyañjayantyo'tan-nirasana-mukhena tātparya-vṛttyā śrutayaś carantīti vyañjitam | śrutayaś ca—māyāṁ tu prakṛtiṁ vidyān mayinaṁ tu maheśvaram iti, ajām ekām iti, sarvasyādhipatiḥ sarvasyeśānaḥ , sa vā eṣa neti neti ity-ādyāḥ | nanu māyā-nāśaṁ samprārthya mama tad-upādhikam aiśvaryādikam api nāśayitum icchathety atra samādadhate—tvam iti | yad yasmāt tvam ātmanā svarūpeṇaiva samavaruddha-samasta-bhagaḥ prāpta-tripād-vibhūty-ākhya-sarvaiśvaryādir asi, tasmāt tava tayā tucchayā tad-upādhikair aiśvaryādibhir vā kim ity arthaḥ | tathā ca, sa yad ajayā tv ajām ity atra padye ṭīkā— nahi nirantarāhlādi-saṁvit-kāma-dhenu-vṛnda-pater ajayā kṛtyam iti | tathā na hy anyeṣām iva deśa-kālādi-paricchinnaṁ tavāṣṭa-guṇitam aiśvaryaṁ, api tu paripūrṇa-svarūpānubandhitvād aparimitam ity arthaḥ | ity eṣā | atrātma-śabdena svarūpa-mātra-vācakena, tathā bhaga-śabdena svarūpa-bhūta-guṇa-vācakenedaṁ dhvanyate—svarūpādi-śabdā īśvarādi-śabdāś ca svarūpa-mātrāvalambanayā svarūpa-bhūta-guṇāvalambanayāpi rūḍhyā nirdeṣṭuṁ śaknuvantīti | śrutayaś ca—yad-ātmako bhagavān tad-ātmikā vyaktiḥ ity-ādyāḥ, parāsya śaktir vividhaiva śrūyate ity-ādikāś ca | sā ca svarūpa-śaktiḥ sarvair evāvagamyata ity āhuḥ—agāni sthāvarāṇi jaganti jaṅgamāni okāṁsi śarīrāṇi yeṣāṁ, teṣāṁ sarveṣām eva jīvānāṁ yā akhilāḥ śaktayas tāsām avabodhaka iti sambodhanam | teṣu vicitra-śakti-vyañjakatā-darśanān māyāyā api tvad-īkṣaṇenaiva kṣamatvāt tvaṁ svarūpa-bhūtāśeṣa-śakti-laharī-ratnākara ity anumīyata ity arthaḥ | yad vā, nanu māyā-hananena tad-upādher jīvasya tu śakti-hāniḥ syāt? tatrāhuḥ—aga-iti | atha pūrvavad eva | tataḥ svarūpa-śaktyaiva pratyuta teṣāṁ sukhaika-pradā pūrṇā śaktir bhaviṣyatīti bhāvaḥ | atretthaṁ taṭastha-lakṣaṇena śrutayaś carantīty uktam | śrutayaś ca—ko hy evānyād ity-ādikāḥ, prāṇasya prāṇam ity-ādikāḥ, tam eva bhāntam ity-ādikāḥ, dehānte devas tārakaṁ brahma vyācaṣṭe iti, yasya deve parā bhaktir ity-ādyāś ca | nanu viśeṣato bhavatyaḥ kathaṁ jānanti yad ajayā mama kṛtyaṁ nāsti, tathā sac-cid-ānanda-ghana eva svarūpa-śaktyā samavaruddha-samasta-bhagaḥ? iti tatrāhuḥ—kvacid iti | kvacit kadācit sṛṣṭy-ādi-samaye puruṣa-rūpeṇa ajayā māyayā carataḥ krīḍataḥ nityaṁ ca svarūpa-śaktyāviṣkṛta-svarūpa-bhūta-bhagena satya-jñānānandaika-rasenātmanā caratas tavāsmal-lakṣaṇo nigamaḥ śabda-rūpeṇa devatā-rūpeṇa ca anucaret sevate | tasmād vayaṁ tat sarvaṁ jānīma ity arthaḥ | karmaṇi ṣaṣṭhī | etad uktaṁ bhavati—atra dvividho vedaḥ—traiguṇya-viṣayaḥ, nistraiguṇya-viṣayaś ca | tatra traiguṇya-viṣayas trividhaḥ | prathama-prakāras tāvat tad-avalambana-tāṭasthyena tal-lakṣakaḥ | yathā, yato vā imāni bhūtāni ity-ādiḥ | dvitīya-prakāraś ca triguṇa-maya-tad-īśitavyādi-varṇanādi-dvārā tan-mahimādi-darśakaḥ | yathā indro yato'vasitasya rājā ity-ādiḥ | tṛtīya-prakāraś ca traiguṇya-nirāsena parama-vastūddeśakaḥ | so'py ayaṁ dvividhaḥ—niṣedha-dvārā, sāmānādhikaraṇya-dvārā ca | tatra pūrva-dvārā asthūlam anaṇu , neti neti ity-ādiḥ | uttara-dvārā, sarvaṁ khalv idaṁ brahma , tat tvam asi ity-ādiḥ | pūrva-vākye taj-jātatvād iti hetoḥ sarvasyaiva brahmatvaṁ nirdiśya tatrāviṣkṛtaḥ sad idam iti pratīti-paramāśrayo yo'ṁśaḥ sa eva śuddhaṁ brahmety uddiśyate | uttara-vākye tvaṁ-padārthasya tadvac cid-ākāra-tac-chakti-rūpatvena tat-padārthaikyaṁ yad upapādyate, tenāpi tat-padārtho brahmaivoddiśyate | tat-padārtha-jñānaṁ vinā tvaṁ-padārtha-jñāna-mātram akiñcit-karam iti tat-padopanyāsaḥ | traiguṇyātikramas tūbhayatrāpi | atra traiguṇya-nirāsena tad-uddeśena yatra tadīya-dharmāḥ spaṣṭam eva gamyate, tatra bhagavat-paratvam | yatra tv aspaṣṭaṁ, tatra brahma-paratvam ity avagantavyam | vyākhyātas traiguṇya-viṣayaḥ | tad etad ajayā carato'nucared iti vyākhyātam | atha nistraiguṇyo'pi dvividhaḥ—brahma-paraḥ, bhagavat-paraś ca | yathā ānando brahma ity-ādiḥ | na tasya kāryaṁ karaṇaṁ ca vidyate na tat-samaś cābhyadhikaś ca dṛśyate | parāsya śaktir vividhaiva śrūyate svābhāvikī jñāna-bala-kriyā ca || ity-ādiś ca | tad etad ātmanā carato'nucaren nigamaḥ iti vyākhyātam | ataḥ śrutes tac-cāritvaṁ siddham | sākṣāc-cāritvaṁ ca nistraiguṇyānāṁ svata eva, anyeṣāṁ tu tad-eka-vākyatayā jñeyam | māyā-nirasanārtham eva tat-tad-guṇānuvādaḥ kriyate | paścād akhaṇḍam eva tāṁ nirasya sākṣād-bhagavat-svarūpa-guṇādikaṁ nirdiśyata iti tad eka-vākyatā-dyotanayā sa eṣa eva siddhānto'sminn upakrama-vākye samuddiṣṭaḥ | tathopasaṁhāre ca—śrutayas tvayi hi phalanty atan-nirasanena bhavan-nidhanāḥ iti | śrutayaś ca madhva-bhāṣya-pramāṇitāḥ—na cakṣur na śrotraṁ na tarko na smṛtir vedo hy evainaṁ vedayati ity-ādyāḥ, aupaniṣadaḥ puruṣaḥ ity-ādyāś ca ||

शब्दशः अर्थ
संस्कृतIASTअर्थ
तत्रtatraтам
प्रथमतोprathamatoсперва
ज्ञानादिjñānādiзнания и прочих
गुणguṇaсвойств
गणgaṇaсонмом
सेवितेनsevitenaслужимым
सम्यग्samyagполного
दर्शनdarśanaвидения
कारणेनkāraṇenaпричиною
भक्तिbhaktiпреданности
योगेनानुभूयमानंyogenānubhūyamānaṁсоединением переживаемую
भगवद्bhagavadБхагавана
आकारम्ākāramоблик имеющую
अखण्डम्akhaṇḍamнераздельную
एवevaименно
तत्त्वंtattvaṁсущность
स्वsvaсобою
प्रतिपाद्यत्वेनpratipādyatvenaутверждаемою
दर्शयन्त्योdarśayantyoпоказывая
ब्रह्मbrahmaБрахмана
स्वरूपम्svarūpamсобственный облик
अपिapiи
तथात्वेनtathātvenaтаковым
क्रोडीकुर्वन्त्यःkroḍīkurvantyaḥобнимая
श्रुतयśrutayaшрути
ऊचुःūcuḥсказали
जयjaya«побеждай
जयjayaпобеждай
जह्य्jahyсрази
अजाम्ajāmнерождённую
अजितajitaо Непобедимый
दोषdoṣaизъяном
गृभीतgṛbhītaвзятое
गुणांguṇāṁдостоинство имеющую
त्वम्tvamТы
असिasiеси
यद्yadибо
आत्मनाātmanāСобою
समवरुद्धsamavaruddhaобретены
समस्तsamastaвсе
भगःbhagaḥбогатства
अगagaнеподвижных
जगद्jagadи подвижных
ओकसाम्okasāmтелами обладающих
अखिलakhilaвсех
शक्त्य्śaktyсил
अवबोधकavabodhakaо Ведающий
तेteза Тобою
क्वचिद्kvacidгде-то
अजयात्मनाajayātmanāс нерождённой, с Собою
चcaи
चरतोऽनुचरेन्carato'nucarenходящим вслед ходит
निगमःnigamaḥписание»
भोःbhoḥо
अजितajita«Непобедимый»
जयjaya«побеждай
जयjayaпобеждай» —
निजोत्कर्षम्nijotkarṣamсобственное превосходство
आविष्कुरुāviṣkuruяви
आदरेādareпри почтении
वीप्साvīpsāповтор
अत्राजितेतिatrājitetiздесь «о Непобедимый» — так
सम्बोधनेनेदंsambodhanenedaṁобращением это
लभ्यतेlabhyateполучается
नामnāma«имени
व्याहरणंvyāharaṇaṁпроизнесение
विष्णोर्viṣṇorВишну
यतस्yatasибо
तद्tadЕго
विषयाviṣayāпредметом имеет
मतिःmatiḥмысль»
इतिitiтак
न्यायेनnyāyenaправилом
नाम्नाnāmnāименем
भगवान्bhagavānБхагаван
असौasauтот
साक्षाद्sākṣādвоочию
अभिमुखीक्रियतabhimukhīkriyataобращается лицом
इतिitiтак
लिङ्गाद्liṅgādпо признаку
एवevaименно
तच्tacЕго
छ्रीchrīпрекрасному
विग्रहवत्vigrahavatоблику подобно
तद्tadто
अपिapiи
तत्tatЕго
स्वरूपsvarūpaсобственному облику
भूतम्bhūtamприсущим
एवevaименно
भवतिbhavatiбывает
तद्tadЕму
विजातीयेनvijātīyenaинородным
तद्tadЕго
अभिमुखीabhimukhīлицом
करणानर्हत्वात्karaṇānarhatvātобращения неспособностью
अतataпотому
एवevaименно
भयbhayaпри страхе
द्वेषादौdveṣādauненависти и прочем
श्रीśrīпрекрасного
मूर्तेःmūrteḥобраза
स्फूर्तेर्sphūrterсияния
इवivaкак
साङ्केत्यादाव्sāṅketyādāvпри условном и прочем
अप्य्apyи
अस्यasyaу него
प्रभावःprabhāvaḥсила
श्रूयतेśrūyateслышится
विशेषतश्viśeṣataśособо
चात्रcātraи здесь
श्रुतिśrutiшрути
विद्वद्vidvadзнатоков
अनुभवाव्anubhavāvи переживание
अपिapiи
पूर्वम्pūrvamпрежде
एवevaименно
प्रमाणीकृतौpramāṇīkṛtauв доказательство взяты
तस्माद्tasmādпотому
यत्yatкоторая
तत्त्वंtattvaṁсущность
श्रीśrīпрекрасного
विग्रहvigrahaоблика
रूपेणrūpeṇaобликом
चक्षुर्cakṣurв глазу
आदाव्ādāvи прочем
उदयतेudayateвосходит
तद्tadона
एवevaименно
नामnāmaимени
रूपेणrūpeṇaобликом
वाग्vāgв речи
आदाव्ādāvи прочем
इतिitiтак
स्थितम्sthitamустановлено
तस्मान्tasmānпотому
नामnāmaимени
नामिनोःnāminoḥи именуемого
स्वरूपाभेदेनsvarūpābhedenaсобственного облика неразличием
तत्tatтого
साक्षात्sākṣātвоочию
कारेkāreпри делании
तत्tatтого
साक्षात्sākṣātвоочию
कारkāraделание
एवेत्य्evetyименно — так
अतःataḥпотому
किंkiṁчто
वक्तव्यम्vaktavyamсказать
अन्यत्रान्यवद्anyatrānyavadв ином как иное
भगवतिbhagavatiв Бхагаване
श्रुतयोऽपिśrutayo'piи шрути
जात्य्jātyродом
आदिādiи прочим
कृतkṛtaсделанного
संज्ञाsaṁjñāимени
संज्ञिsaṁjñiи именуемого
सङ्केतादिsaṅketādiуговора и прочего
रीत्याrītyāобычаем
रूढ्य्rūḍhyзакреплённым
आदिādiи прочими
वृत्तिभिश्vṛttibhiśдействиями
चरन्तीतिcarantītiходят — так
यासांyāsāṁу которых
श्रुत्य्śrutyшрути
अभिधानांabhidhānāṁименуемых
वल्लीनांvallīnāṁлиан
साक्षात्sākṣātвоочию
तथाtathāтак
भूतानिbhūtāniсущие
नामान्य्nāmānyимена
एवevaименно
फलानीतिphalānītiплоды — так
उत्कर्षम्utkarṣam«превосходство
आविष्कुर्व्āviṣkurvяви»
इत्य्ityтак
अनेनanenaэтим
इत्थंitthaṁтак
सर्वोत्कृष्टताsarvotkṛṣṭatāвсего превосходнейшести
गुणguṇaсвойства
योगेनyogenaсоединением
मुख्ययैवmukhyayaivaглавным именно
वृत्त्याvṛttyāдействием
श्रुतयस्śrutayasшрути
तस्मिंश्tasmiṁśв Нём
चरन्तीतिcarantītiходят — так
दर्शितम्darśitamпоказано
श्रुतयश्śrutayaśшрути
चcaи
नna«не
तेteТвоего
महिmahiвеличия
त्वाम्tvāmТебя
अन्व्anvвслед
अश्नुवन्तिaśnuvantiдостигают»
नna«не
तत्tatЕму
समश्samaśравный
चाभ्यधिकश्cābhyadhikaśи превосходящий
चcaи
दृश्यतेdṛśyateвидится»
इत्य्ityтак
आद्याःādyāḥи прочие
अत्रatraздесь
श्रुतयोśrutayoшрути
जयjaya«побеждай
जयेतिjayetiпобеждай» — так
स्वsvaсвоей
भक्त्याविष्कारात्bhaktyāviṣkārātпреданности явлением
भक्तिम्bhaktimпреданность
एवevaименно
तत्tatЕго
प्रकाशेprakāśeпри проявлении
हेतुंhetuṁпричиною
गमयन्तिgamayantiдают понять
केनkenaкаким
व्यापारेणोत्कर्षम्vyāpāreṇotkarṣamдействием превосходство
आविष्करवाणिāviṣkaravāṇiявлю
इत्य्ityтак
आशङ्क्यāśaṅkyaусомнившись
मायाmāyāмайи
निरसनnirasanaотвержения
द्वाराdvārāпутём
स्वsvaСвоей
भक्तिbhaktiпреданности
दानेनैवेत्य्dānenaivetyдаянием именно — так
आहुःāhuḥговорят
अजांajāṁ«нерождённую» —
मायांmāyāṁмайю
जहिjahi«срази»
ननुnanuно ведь
मायाmāyāмайя
नामnāmaпо имени
विद्याविद्याvidyāvidyāзнания и неведения
वृत्तिकाvṛttikāдействие имеющая
शक्तिःśaktiḥсила
तर्हिtarhiтогда
तद्tadеё
धननेdhananeпри убиении
विद्यायाvidyāyāзнания
अपिapiи
हतिःhatiḥгибель
स्यात्syātбыла бы
इत्य्ityтак
अत्रatraздесь
आहāhaговорит
दोषdoṣa«изъяном
गृभीतgṛbhītaвзятое
गुणांguṇāṁдостоинство имеющую» —
जीवानाम्jīvānāmу джив
आत्मātmaсебя
विस्मृतिvismṛtiзабвения
हेताव्hetāvпричине
अविद्याavidyāневедением
लक्षणेlakṣaṇeпризнак имеющем
दोषेdoṣeв изъяне
एवevaименно
गृभीतोgṛbhīto«взятое»
गृहीतस्gṛhītasсхвачено
तत्tatего
स्मृतिsmṛtiпамятования
हेतुhetuпричина
विद्याvidyāзнанием
लक्षणोlakṣaṇoпризнак имеющее
गुणोguṇoдостоинство
ययाyayāу которой
ताम्tāmеё
स्वयम्svayamсама
एवevaименно
स्वावेशेनाविद्याsvāveśenāvidyāсвоим вхождением неведением
लक्षणंlakṣaṇaṁпризнак имеющий
दोषम्doṣamизъян
उत्पाद्यutpādyaпородив
क्वचिद्kvacidгде-то лишь
एवevaименно
कदाचिद्kadācidкогда-то лишь
एवevaименно
कथञ्चिद्kathañcidкак-то лишь
एवevaименно
कञ्चिद्kañcidкого-то лишь
एवevaименно
जीवंjīvaṁдживу
त्यजतीतिtyajatītiоставляет — так
तस्यास्tasyāsу неё
त्यागात्मकtyāgātmakaоставление имеющее природой
विद्याख्यvidyākhyaзнанием именуемое
गुणोऽपिguṇo'piи достоинство
दोषdoṣaизъян
एवevaименно
तस्मात्tasmātпотому
तांtāṁеё
निर्मूलांnirmūlāṁобескоренённою
विधायvidhāyaсделав
जीवेभ्योjīvebhyoдживам
निजnijaСвоих
चरणारविन्दcaraṇāravindaстоп-лотосов
विषयांviṣayāṁпредметом имеющую
भक्तिम्bhaktimпреданность
एवevaименно
दिशेतिdiśetiдай — таково
तात्पर्यम्tātparyamнамерение
अतोatoпотому
मायाmāyāмайю
घातनghātanaсразить
योग्यyogyaспособной
शक्तित्वेनśaktitvenaсилою бытием
तद्tadеё
अतीतत्वंatītatvaṁпревзойдённость
व्यपदिश्यvyapadiśyaобозначив
सच्sacсущего
चिद्cidсознания
आनन्दānandaблаженства
घनत्वंghanatvaṁсгущённость
भगवतोbhagavatoу Бхагавана
व्यञ्जयन्त्योऽतन्vyañjayantyo'tanявляя, не-того
निरसनnirasanaотвержения
मुखेनmukhenaпутём
तात्पर्यtātparyaнамерения
वृत्त्याvṛttyāдействием
श्रुतयश्śrutayaśшрути
चरन्तीतिcarantītiходят — так
व्यञ्जितम्vyañjitamявлено
श्रुतयश्śrutayaśшрути
चcaи
मायांmāyāṁ«майю
तुtuже
प्रकृतिंprakṛtiṁпракрити
विद्यान्vidyānпусть знает
मयिनंmayinaṁобладателя майи
तुtuже
महेश्वरम्maheśvaramвеликим Владыкой»
इतिitiтак
अजाम्ajām«нерождённую
एकाम्ekāmодну»
इतिitiтак
सर्वस्याधिपतिःsarvasyādhipatiḥ«всего повелитель
सर्वस्येशानःsarvasyeśānaḥвсего владыка»
सsa«он
वाvāже
एषeṣaэтот
नेतिnetiне так
नेतिnetiне так»
इत्य्ityтак
आद्याःādyāḥи прочие
ननुnanuно ведь
मायाmāyāмайи
नाशंnāśaṁуничтожения
सम्प्रार्थ्यsamprārthyaиспросив
ममmamaМоё
तद्tadею
उपाधिकम्upādhikamобусловленное
ऐश्वर्यादिकम्aiśvaryādikamвладычество и прочее
अपिapiи
नाशयितुम्nāśayitumуничтожить
इच्छथेत्य्icchathetyжелаете — так
अत्रatraздесь
समादधतेsamādadhateотвечают
त्वम्tvam«Ты»
इतिitiтак
यद्yad«ибо»
यस्मात्yasmātибо
त्वम्tvam«Ты
आत्मनाātmanāСобою»
स्वरूपेणैवsvarūpeṇaivaсобственным обликом именно
समवरुद्धsamavaruddha«обретены
समस्तsamastaвсе
भगःbhagaḥбогатства» —
प्राप्तprāptaобретший
त्रिपाद्tripādтрёхчетвертной
विभूत्य्vibhūtyмощью
आख्यākhyaименуемое
सर्वैश्वर्यादिर्sarvaiśvaryādirвсё владычество и прочее
असिasi«еси»
तस्मात्tasmātпотому
तवtavaу Тебя
तयाtayāтой
तुच्छयाtucchayāничтожной
तद्tadею
उपाधिकैर्upādhikairобусловленным
ऐश्वर्यादिभिर्aiśvaryādibhirвладычеством и прочим
वाvāили
किम्kimчто
इत्य्ityтаков
अर्थःarthaḥсмысл
तथाtathāтак
चcaи
सsa«он
यद्yadчто
अजयाajayāнерождённой
त्व्tvже
अजाम्ajāmнерождённую»
इत्य्ityтак
अत्रatraздесь
पद्येpadyeв стихе
टीकाṭīkāтика
नहिnahi«не ведь
निरन्तराह्लादिnirantarāhlādiнепрестанно радующего
संवित्saṁvitсознания
कामkāmaжелания исполняющих
धेनुdhenuкоров
वृन्दvṛndaстада
पतेर्paterу владыки
अजयाajayāнерождённой
कृत्यम्kṛtyamдело»
इतिitiтак
तथाtathāтак же
नnaне
ह्य्hyведь
अन्येषाम्anyeṣāmу иных
इवivaкак
देशdeśaместом
कालादिkālādiвременем и прочим
परिच्छिन्नंparicchinnaṁограничено
तवाष्टtavāṣṭaу Тебя восемью
गुणितम्guṇitamумноженное
ऐश्वर्यंaiśvaryaṁвладычество
अपिapiно
तुtuже
परिपूर्णparipūrṇaвсесовершенному
स्वरूपानुबन्धित्वाद्svarūpānubandhitvādсобственному облику сопринадлежностью
अपरिमितम्aparimitamбезмерно
इत्य्ityтаков
अर्थःarthaḥсмысл
इत्य्ityтак
एषाeṣāона
अत्रात्मatrātmaздесь «атман»
शब्देनśabdenaсловом
स्वरूपsvarūpaсобственный облик
मात्रmātraлишь
वाचकेनvācakenaназывающим
तथाtathāтак же
भगbhaga«бхага»
शब्देनśabdenaсловом
स्वरूपsvarūpaсобственному облику
भूतbhūtaприсущие
गुणguṇaсвойства
वाचकेनेदंvācakenedaṁназывающим это
ध्वन्यतेdhvanyateподразумевается
स्वरूपादिsvarūpādi«собственный облик» и прочие
शब्दाśabdāслова
ईश्वरादिīśvarādi«Владыка» и прочие
शब्दाश्śabdāśслова
चcaи
स्वरूपsvarūpaсобственный облик
मात्रावलम्बनयाmātrāvalambanayāлишь опорою имеющим
स्वरूपsvarūpaсобственному облику
भूतbhūtaприсущие
गुणावलम्बनयापिguṇāvalambanayāpiсвойства опорою имеющим и
रूढ्याrūḍhyāзакреплением
निर्देष्टुंnirdeṣṭuṁуказать
शक्नुवन्तीतिśaknuvantītiмогут — так
श्रुतयश्śrutayaśшрути
चcaи
यद्yad«какую
आत्मकोātmakoприроду имеет
भगवान्bhagavānБхагаван
तद्tadту
आत्मिकाātmikāприроду имеет
व्यक्तिःvyaktiḥявление»
इत्य्ityтак
आद्याःādyāḥи прочие
परास्यparāsya«высшая у Него
शक्तिर्śaktirсила
विविधैवvividhaivaмноговидна именно
श्रूयतेśrūyateслышится»
इत्य्ityтак
आदिकाश्ādikāśи прочие
चcaи
साsāона
चcaи
स्वरूपsvarūpaсобственного облика
शक्तिःśaktiḥсила
सर्वैर्sarvairвсеми
एवावगम्यतevāvagamyataименно познаётся
इत्य्ityтак
आहुःāhuḥговорят
अगानिagāni«неподвижные» —
स्थावराणिsthāvarāṇiстоячие
जगन्तिjaganti«подвижные» —
जङ्गमानिjaṅgamāniдвижущиеся
ओकांसिokāṁsi«жилища» —
शरीराणिśarīrāṇiтела
येषांyeṣāṁу которых
तेषांteṣāṁу них
सर्वेषाम्sarveṣāmу всех
एवevaименно
जीवानांjīvānāṁу джив
याyāкоторые
अखिलाःakhilāḥ«все»
शक्तयस्śaktayas«силы»
तासाम्tāsāmих
अवबोधकavabodhaka«Ведающий»
इतिitiтак
सम्बोधनम्sambodhanamобращение
तेषुteṣuв них
विचित्रvicitraпёстрых
शक्तिśaktiсил
व्यञ्जकताvyañjakatāявляемости
दर्शनान्darśanānвидением
मायायाmāyāyāу майи
अपिapiи
त्वद्tvadТвоим
ईक्षणेनैवīkṣaṇenaivaвзглядом именно
क्षमत्वात्kṣamatvātспособностью
त्वंtvaṁТы
स्वरूपsvarūpaсобственному облику
भूताशेषbhūtāśeṣaприсущих всех
शक्तिśaktiсил
लहरीlaharīволн
रत्नाकरratnākaraокеан
इत्य्ityтак
अनुमीयतanumīyataзаключается
इत्य्ityтаков
अर्थःarthaḥсмысл
यद्yadили
वाvāже
ननुnanuно ведь
मायाmāyāмайи
हननेनhananenaубиением
तद्tadею
उपाधेर्upādherобусловленной
जीवस्यjīvasyaу дживы
तुtuже
शक्तिśaktiсилы
हानिःhāniḥутрата
स्यात्syātбыла бы
तत्राहुःtatrāhuḥна это говорят
अगaga«неподвижных»
इतिitiтак
अथathaтеперь
पूर्ववद्pūrvavadкак прежде
एवevaименно
ततःtataḥпотому
स्वरूपsvarūpaсобственного облика
शक्त्यैवśaktyaivaсилою именно
प्रत्युतpratyutaнапротив
तेषांteṣāṁу них
सुखैकsukhaikaсчастье одно
प्रदाpradāдающая
पूर्णाpūrṇāполная
शक्तिर्śaktirсила
भविष्यतीतिbhaviṣyatītiбудет — таков
भावःbhāvaḥсмысл
अत्रेत्थंatretthaṁздесь так
तटस्थtaṭasthaкосвенным
लक्षणेनlakṣaṇenaпризнаком
श्रुतयश्śrutayaśшрути
चरन्तीत्य्carantītyходят — так
उक्तम्uktamсказано
श्रुतयश्śrutayaśшрути
चcaи
कोko«кто
ह्य्hyведь
एवान्याद्evānyādименно дышал бы»
इत्य्ityтак
आदिकाःādikāḥи прочие
प्राणस्यprāṇasya«жизни
प्राणम्prāṇamжизнь»
इत्य्ityтак
आदिकाःādikāḥи прочие
तम्tam«Его
एवevaименно
भान्तम्bhāntamсияющего»
इत्य्ityтак
आदिकाःādikāḥи прочие
देहान्तेdehānte«в конце тела
देवस्devasБог
तारकंtārakaṁспасительное
ब्रह्मbrahmaБрахман
व्याचष्टेvyācaṣṭeвозвещает»
इतिitiтак
यस्यyasya«у кого
देवेdeveк Богу
पराparāвысшая
भक्तिर्bhaktirпреданность»
इत्य्ityтак
आद्याश्ādyāśи прочие
चcaи
ननुnanuно ведь
विशेषतोviśeṣatoособо
भवत्यःbhavatyaḥвы
कथंkathaṁкак
जानन्तिjānantiзнаете
यद्yadчто
अजयाajayāс нерождённой
ममmamaу Меня
कृत्यंkṛtyaṁдела
नास्तिnāstiнет
तथाtathāтак же
सच्sacсущего
चिद्cidсознания
आनन्दānandaблаженства
घनghanaсгущение
एवevaименно
स्वरूपsvarūpaсобственного облика
शक्त्याśaktyāсилою
समवरुद्धsamavaruddhaобретены
समस्तsamastaвсе
भगःbhagaḥбогатства
इतिitiтак
तत्राहुःtatrāhuḥна это говорят
क्वचिद्kvacid«где-то»
इतिitiтак
क्वचित्kvacit«где-то» —
कदाचित्kadācitкогда-то
सृष्ट्य्sṛṣṭyтворения
आदिādiи прочего
समयेsamayeво время
पुरुषpuruṣaПуруши
रूपेणrūpeṇaобликом
अजयाajayā«с нерождённой»
माययाmāyayāс майей
चरतःcarataḥ«ходящего» —
क्रीडतःkrīḍataḥиграющего
नित्यंnityaṁвсегда
चcaи
स्वरूपsvarūpaсобственного облика
शक्त्याविष्कृतśaktyāviṣkṛtaсилою явленным
स्वरूपsvarūpaсобственному облику
भूतbhūtaприсущим
भगेनbhagenaбогатством
सत्यsatyaистины
ज्ञानानन्दैकjñānānandaikaзнания, блаженства единым
रसेनात्मनाrasenātmanāвкусом, «с Собою»
चरतस्caratas«ходящего»
तवास्मल्tavāsmalу Тебя, нами
लक्षणोlakṣaṇoпризнак имеющее
निगमःnigamaḥ«писание»
शब्दśabdaслова
रूपेणrūpeṇaобликом
देवताdevatāбожества
रूपेणrūpeṇaобликом
चcaи
अनुचरेत्anucaret«вслед ходит» —
सेवतेsevateслужит
तस्माद्tasmādпотому
वयंvayaṁмы
तत्tatто
सर्वंsarvaṁвсё
जानीमjānīmaзнаем
इत्य्ityтаков
अर्थःarthaḥсмысл
कर्मणिkarmaṇiпри дополнении
षष्ठीṣaṣṭhīшестой падеж
एतद्etadэто
उक्तंuktaṁсказанным
भवतिbhavatiбывает
अत्रatraздесь
द्विविधोdvividhoдвояка
वेदःvedaḥВеда
त्रैगुण्यtraiguṇyaтрёх свойств
विषयःviṣayaḥпредмет имеющая
निस्त्रैगुण्यnistraiguṇyaвне трёх свойств
विषयश्viṣayaśпредмет имеющая
चcaи
तत्रtatraтам
त्रैगुण्यtraiguṇyaтрёх свойств
विषयस्viṣayasпредмет имеющая
त्रिविधःtrividhaḥтрояка
प्रथमprathamaпервый
प्रकारस्prakārasрод
तावत्tāvatсперва
तद्tadна то
अवलम्बनavalambanaопирания
ताटस्थ्येनtāṭasthyenaкосвенностью
तल्talто
लक्षकःlakṣakaḥуказывающий
यथाyathāкак
यतोyato«от которого
वाvāже
इमानिimāniэти
भूतानिbhūtāniсущества»
इत्य्ityтак
आदिःādiḥи далее
द्वितीयdvitīyaвторой
प्रकारश्prakāraśрод
चcaи
त्रिगुणtriguṇaиз трёх свойств
मयmayaсостоящего
तद्tadИм
ईशितव्यादिīśitavyādiуправляемого и прочего
वर्णनादिvarṇanādiописанием и прочим
द्वाराdvārāпутём
तन्tanЕго
महिमादिmahimādiвеличие и прочее
दर्शकःdarśakaḥпоказывающий
यथाyathāкак
इन्द्रोindro«Индра
यतोऽवसितस्यyato'vasitasyaу которого пребывающего
राजाrājāцарь»
इत्य्ityтак
आदिःādiḥи далее
तृतीयtṛtīyaтретий
प्रकारश्prakāraśрод
चcaи
त्रैगुण्यtraiguṇyaтрёх свойств
निरासेनnirāsenaотвержением
परमparamaвысшую
वस्तूद्देशकःvastūddeśakaḥвещь указывающий
सोऽप्य्so'pyи он
अयंayaṁэтот
द्विविधःdvividhaḥдвояк
निषेधniṣedhaотрицания
द्वाराdvārāпутём
सामानाधिकरण्यsāmānādhikaraṇyaсоотнесения
द्वाराdvārāпутём
चcaи
तत्रtatraтам
पूर्वpūrvaпервым
द्वाराdvārāпутём
अस्थूलम्asthūlam«не грубое
अनणुanaṇuне тонкое»
नेतिneti«не так
नेतिnetiне так»
इत्य्ityтак
आदिःādiḥи далее
उत्तरuttaraвторым
द्वाराdvārāпутём
सर्वंsarvaṁ«всё
खल्व्khalvведь
इदंidaṁэто
ब्रह्मbrahmaБрахман»
तत्tat«то
त्वम्tvamты
असिasiеси»
इत्य्ityтак
आदिःādiḥи далее
पूर्वpūrvaв первом
वाक्येvākyeречении
तज्taj«от того
जातत्वाद्jātatvādрождённостью»
इतिitiтак
हेतोःhetoḥпричиною
सर्वस्यैवsarvasyaivaу всего именно
ब्रह्मत्वंbrahmatvaṁБрахманом бытие
निर्दिश्यnirdiśyaуказав
तत्राविष्कृतःtatrāviṣkṛtaḥтам явленное
सद्sad«сущее
इदम्idamэто»
इतिitiтак
प्रतीतिpratītiпостижения
परमाश्रयोparamāśrayoкрайнее прибежище
योऽंशःyo'ṁśaḥкоторый доля
सsaон
एवevaименно
शुद्धंśuddhaṁчистым
ब्रह्मेत्य्brahmetyБрахманом — так
उद्दिश्यतेuddiśyateуказывается
उत्तरuttaraво втором
वाक्येvākyeречении
त्वंtvaṁ«ты»
पदार्थस्यpadārthasyaслова предмета
तद्वच्tadvacтак же
चिद्cidсознания
आकारākāraоблик
तच्tacЕго
छक्तिchaktiсилы
रूपत्वेनrūpatvenaобликом бытием
तत्tat«то»
पदार्थैक्यंpadārthaikyaṁслова предметом единство
यद्yadкоторое
उपपाद्यतेupapādyateобосновывается
तेनापिtenāpiи им
तत्tat«то»
पदार्थोpadārthoслова предмет
ब्रह्मैवोद्दिश्यतेbrahmaivoddiśyateБрахманом именно указывается
तत्tat«то»
पदार्थpadārthaслова предмета
ज्ञानंjñānaṁзнания
विनाvināбез
त्वंtvaṁ«ты»
पदार्थpadārthaслова предмета
ज्ञानjñānaзнание
मात्रम्mātramодно лишь
अकिञ्चित्akiñcitничего
करम्karamне делающее
इतिitiтак
तत्tat«то»
पदोपन्यासःpadopanyāsaḥслова приведение
त्रैगुण्यातिक्रमस्traiguṇyātikramasтрёх свойств превосхождение
तूभयत्रापिtūbhayatrāpiже и в обоих
अत्रatraздесь
त्रैगुण्यtraiguṇyaтрёх свойств
निरासेनnirāsenaотвержением
तद्tadтой
उद्देशेनuddeśenaуказанием
यत्रyatraгде
तदीयtadīyaЕго
धर्माःdharmāḥсвойства
स्पष्टम्spaṣṭamясно
एवevaименно
गम्यतेgamyateпонимаются
तत्रtatraтам
भगवत्bhagavatБхагавану
परत्वम्paratvamпосвящённость
यत्रyatraгде
त्व्tvже
अस्पष्टंaspaṣṭaṁнеясно
तत्रtatraтам
ब्रह्मbrahmaБрахману
परत्वम्paratvamпосвящённость
इत्य्ityтак
अवगन्तव्यम्avagantavyamдолжно быть понято
व्याख्यातस्vyākhyātasистолкована
त्रैगुण्यtraiguṇyaтрёх свойств
विषयःviṣayaḥпредмет имеющая
तद्tadто
एतद्etadэто
अजयाajayā«с нерождённой
चरतोऽनुचरेद्carato'nucaredходящим вслед ходит»
इतिitiтак
व्याख्यातम्vyākhyātamистолковано
अथathaтеперь
निस्त्रैगुण्योऽपिnistraiguṇyo'piи вне трёх свойств
द्विविधःdvividhaḥдвояка
ब्रह्मbrahmaБрахману
परःparaḥпосвящённая
भगवत्bhagavatБхагавану
परश्paraśпосвящённая
चcaи
यथाyathāкак
आनन्दोānando«блаженство
ब्रह्मbrahmaБрахман»
इत्य्ityтак
आदिःādiḥи далее
नna«не
तस्यtasyaу Него
कार्यंkāryaṁдела
करणंkaraṇaṁорудия
चcaи
विद्यतेvidyateесть
नnaне
तत्tatЕму
समश्samaśравный
चाभ्यधिकश्cābhyadhikaśи превосходящий
चcaи
दृश्यतेdṛśyateвидится
परास्यparāsyaвысшая у Него
शक्तिर्śaktirсила
विविधैवvividhaivaмноговидна именно
श्रूयतेśrūyateслышится
स्वाभाविकीsvābhāvikīприродные
ज्ञानjñānaзнание
बलbalaмощь
क्रियाkriyāдействие
चcaи»
इत्य्ityтак
आदिश्ādiśи далее
चcaи
तद्tadто
एतद्etadэто
आत्मनाātmanā«с Собою
चरतोऽनुचरेन्carato'nucarenходящим вслед ходит
निगमःnigamaḥписание»
इतिitiтак
व्याख्यातम्vyākhyātamистолковано
अतःataḥпотому
श्रुतेस्śrutesу шрути
तच्tacк Нему
चारित्वंcāritvaṁхождение
सिद्धम्siddhamдостигнуто
साक्षाच्sākṣācвоочию
चारित्वंcāritvaṁхождение
चcaи
निस्त्रैगुण्यानांnistraiguṇyānāṁу вне трёх свойств сущих
स्वतsvataсамо собою
एवevaименно
अन्येषांanyeṣāṁу иных
तुtuже
तद्tadс ними
एकekaединой
वाक्यतयाvākyatayāречью бытием
ज्ञेयम्jñeyamдолжно знать
मायाmāyāмайи
निरसनार्थम्nirasanārthamотвержения ради
एवevaименно
तत्tatтех
तद्tadи тех
गुणानुवादःguṇānuvādaḥсвойств пересказ
क्रियतेkriyateделается
पश्चाद्paścādпосле
अखण्डम्akhaṇḍamнераздельно
एवevaименно
तांtāṁеё
निरस्यnirasyaотвергнув
साक्षाद्sākṣādвоочию
भगवत्bhagavatБхагавана
स्वरूपsvarūpaсобственный облик
गुणादिकंguṇādikaṁсвойства и прочее
निर्दिश्यतnirdiśyataуказывается
इतिitiтак
तद्tadтой
एकekaединой
वाक्यताvākyatāречью бытия
द्योतनयाdyotanayāявлением
सsaтот
एषeṣaэтот
एवevaименно
सिद्धान्तोऽस्मिन्न्siddhānto'sminnвывод, в этом
उपक्रमupakramaзачина
वाक्येvākyeречении
समुद्दिष्टःsamuddiṣṭaḥуказан
तथोपसंहारेtathopasaṁhāreтак же при завершении
चcaи
श्रुतयस्śrutayas«шрути
त्वयिtvayiв Тебе
हिhiведь
फलन्त्य्phalantyплодоносят
अतन्atanне-того
निरसनेनnirasanenaотвержением
भवन्bhavanв Тебе
निधनाःnidhanāḥпредел имеющие»
इतिitiтак
श्रुतयश्śrutayaśшрути
चcaи
मध्वmadhvaМадхвы
भाष्यbhāṣyaбхашьей
प्रमाणिताःpramāṇitāḥзасвидетельствованные
नna«не
चक्षुर्cakṣurглаз
नnaне
श्रोत्रंśrotraṁухо
नnaне
तर्कोtarkoрассуждение
नnaне
स्मृतिर्smṛtirпамять
वेदोvedoВеда
ह्य्hyведь
एवैनंevainaṁименно Его
वेदयतिvedayatiдаёт познать»
इत्य्ityтак
आद्याःādyāḥи прочие
औपनिषदःaupaniṣadaḥ«упанишадный
पुरुषःpuruṣaḥПуруша»
इत्य्ityтак
आद्याश्ādyāśи прочие
चcaи
अनुवाद

И там шрути, показывая как утверждаемую собою нераздельную сущность, имеющую облик Бхагавана, — ту, что переживается соединением преданности, которому служит сонм свойств: знание и прочее, и которое есть причина полного видения, — и обнимая собственный облик Брахмана как то же самое, сказали:

«Побеждай, побеждай! Срази нерождённую, чьё достоинство взято изъяном, о Непобедимый, — ибо Ты таков, что Собою обретены все богатства. О Ведающий все силы обладателей тел, неподвижных и подвижных! За Тобою, где-то ходящим с нерождённой, а где и с Собою, ходит вслед писание».

«О Непобедимый! Побеждай, побеждай» — яви собственное превосходство. Повтор здесь при почтении.

Обращением «о Непобедимый» получается вот что: по правилу «произнесение имени Вишну — ибо мысль имеет Его предметом» именем тот Бхагаван воочию обращается лицом; а по одному этому признаку и имя, подобно Его прекрасному облику, присуще именно Его собственному облику, — ибо инородное Ему обратить Его лицом не способно.

Потому и слышно, что сила его есть и при условном употреблении и прочем — как сияние прекрасного образа при страхе, ненависти и прочем. Особо же здесь и шрути, и переживание знатоков взяты в доказательство прежде. Потому установлено: та сущность, что восходит обликом прекрасного облика в глазу и прочем, она же — обликом имени в речи и прочем.

Потому, по неразличию собственного облика имени и именуемого, при делании воочию того есть именно делание воочию Того. А раз так — что и говорить, что шрути ходят в Бхагаване, как в ином ходят об ином: действиями закрепления и прочими, обычаем имени и именуемого, уговора и прочего, сделанного по роду и прочему. У тех лиан, что именуются шрути, воочию именно такие имена и суть плоды.

Словами «яви превосходство» показано вот что: так, по соединению со свойством превосходства над всем, шрути ходят в Нём именно главным действием. И шрути: «не достигают они вслед Тебя, Твоего величия», «не видится Ему ни равный, ни превосходящий» и прочие.

Здесь шрути, явив свою преданность словами «побеждай, побеждай», дают понять, что причина Его проявления — именно преданность.

«Каким же действием явлю Я превосходство?» — усомнившись так, говорят: даянием Своей преданности, путём отвержения майи: «срази» «нерождённую», то есть майю.

Но ведь майя есть сила, чьё действие — и знание, и неведение; тогда при её убиении погибло бы и знание? На это он говорит: «чьё достоинство взято изъяном» — ту, у которой достоинство, чей признак знание и которое есть причина памятования о себе, «взято», то есть схвачено, именно изъяном, чей признак неведение и который есть причина забвения себя у джив.

Ведь она сама, своим вхождением породив изъян, чей признак неведение, лишь где-то, лишь когда-то, лишь как-то и лишь кого-то из джив оставляет; потому и достоинство её, именуемое знанием и состоящее в оставлении, — тоже изъян. Намерение таково: потому, сделав её обескоренённой, дай дживам именно преданность, предмет которой лотосы Твоих стоп.

Потому явлено вот что: обозначив Его превосходство над майей тем, что у Него сила, способная её сразить, и тем являя сгущённость сущего, сознания и блаженства у Бхагавана, шрути ходят действием намерения, путём отвержения не-того. И шрути: «майю же пусть знает пракрити, а обладателя майи — великим Владыкой», «нерождённую, одну», «всего повелитель, всего владыка», «он же этот — не так, не так» и прочие.

Но ведь, испросив уничтожения майи, вы желаете уничтожить и Моё владычество и прочее, ею обусловленное? Здесь отвечают: «Ты» и далее. «Ибо Ты» «Собою», то есть собственным обликом именно, «еси» таков, что «обретены все богатства», то есть обретший всё владычество и прочее, именуемое трёхчетвертною мощью. Смысл: потому что Тебе в той ничтожной или во владычестве и прочем, ею обусловленном?

Так и тика на стих «он, что нерождённой — нерождённую»: «нет ведь у владыки стада желания исполняющих коров непрестанно радующего сознания дела с нерождённой». И так же: «владычество Твоё не ограничено местом, временем и прочим, как у иных, и не умножено у Тебя восемью, но безмерно — ибо сопринадлежно всесовершенному собственному облику». Такова она.

Здесь словом «атман», называющим лишь собственный облик, и словом «бхага», называющим свойства, присущие собственному облику, подразумевается: слова «собственный облик» и прочие и слова «Владыка» и прочие могут указывать закреплением, имеющим опорою и один лишь собственный облик, и присущие ему свойства. И шрути: «какую природу имеет Бхагаван, ту имеет и явление» и прочие; «высшая сила у Него слышится именно многовидной» и прочие.

И что сила эта, собственного облика, познаётся всеми, они говорят так: «неподвижные» — стоячие, «подвижные» — движущиеся, «жилища» — тела; у кого они таковы, у всех тех джив «все» «силы», — и обращение: «их Ведающий». Смысл: раз в них видна являемость пёстрых сил, и даже майя способна на это лишь Твоим взглядом, — заключается, что Ты океан волн всех сил, присущих собственному облику.

Или же: но ведь при убиении майи была бы утрата силы у дживы, ею обусловленной? На это говорят: «неподвижных» и далее. Дальше как прежде. Смысл: потому именно силою собственного облика у них, напротив, будет полная сила, дающая одно лишь счастье. Здесь так сказано, что шрути ходят косвенным признаком. И шрути: «кто ведь и дышал бы» и прочие, «жизнь жизни» и прочие, «Его именно, сияющего» и прочие, «в конце тела Бог возвещает спасительный Брахман», «у кого к Богу высшая преданность» и прочие.

Но ведь откуда вы в особенности знаете, что нет у Меня дела с нерождённой и что Я именно сгущение сущего, сознания и блаженства, у кого силою собственного облика обретены все богатства? На это говорят: «где-то» и далее. «Где-то», то есть когда-то, во время творения и прочего, обликом Пуруши «ходящего», то есть играющего, «с нерождённой», то есть с майей, — и всегда «ходящего» «с Собою», то есть со вкусом, единым в истине, знании и блаженстве, с богатством, присущим собственному облику и явленным силою собственного облика, — за Тобою «писание», чей признак мы, «вслед ходит», то есть служит, и обликом слова, и обликом божества. Смысл: потому мы всё то и знаем. Шестой падеж здесь при дополнении.

Сказанным выходит вот что. Веда здесь двояка: имеющая предметом три свойства и имеющая предметом то, что вне трёх свойств. И первая трояка. Первый род, опираясь на то, указывает на То косвенно — как «от которого же эти существа» и далее. Второй род путём описания состоящего из трёх свойств, Им управляемого и прочего, показывает Его величие и прочее — как «Индра — царь у того, что пребывает» и далее. Третий род отвержением трёх свойств указывает на высшую вещь; и он тоже двояк: путём отрицания и путём соотнесения. Первым путём — «не грубое, не тонкое», «не так, не так» и далее. Вторым — «всё ведь это Брахман», «то ты еси» и далее.

В первом речении, указав на то, что всё есть Брахман, по причине «ибо рождено от того», указывают чистым Брахманом именно ту явленную там долю, что есть крайнее прибежище постижения «это сущее». Во втором речении обосновывается единство предмета слова «ты» с предметом слова «то» — тем, что он облик сознания, облик Его силы; и этим тоже предмет слова «то» указывается именно Брахманом. А слово «то» приведено потому, что без знания его предмета одно лишь знание предмета слова «ты» ничего не делает. Превосхождение же трёх свойств есть и там и там.

И здесь надо понять так: где отвержением трёх свойств и указанием на Него свойства Его понимаются ясно — там посвящённость Бхагавану; а где неясно — там посвящённость Брахману. Так истолкована Веда, имеющая предметом три свойства. И это истолковано словами «за ходящим с нерождённой ходит вслед».

Теперь: и Веда вне трёх свойств двояка — посвящённая Брахману и посвящённая Бхагавану. Как «блаженство — Брахман» и далее; и «нет у Него ни дела, ни орудия, и не видится Ему ни равный, ни превосходящий; высшая сила Его слышится именно многовидной — природные знание, мощь и действие» и далее. И это истолковано словами «за ходящим с Собою ходит вслед писание».

Потому хождение шрути к Нему достигнуто. И хождение воочию у тех, что вне трёх свойств, — само собою, а у иных надо знать его по единству речи с ними. Ведь пересказ тех и тех свойств делается именно ради отвержения майи; а после, отвергнув её нераздельно, указывают воочию собственный облик Бхагавана, Его свойства и прочее. Этим явлением единства речи тот же самый вывод указан и в этом речении зачина. Так же и при завершении: «шрути ведь плодоносят в Тебе, отвержением не-того, имея предел в Тебе». И шрути, засвидетельствованные бхашьей Мадхвы: «ни глаз, ни ухо, ни рассуждение, ни память — Веда ведь именно Его даёт познать» и прочие; «упанишадный Пуруша» и прочие.

संस्करण

4db34e49d45c · प्रकाशित 20 सित॰ 2026, 11:13:10 am UTC

उपलब्ध भाषाएँRU

श्लोक बदलें इन कुंजियों से