वक्ष्यते च तस्य सत्त्वस्य प्राकृताद् अन्यतमत्वं द्वादशे श्रीनारायणर्षिं प्रति मार्कण्डेयेन— सत्त्वं रजस् तम इतीश तवात्मबन्धो मायामयाः स्थितिलयोद्भवहेतवोऽस्य । लीलाधृता यद् अपि सत्त्वमयी प्रशान्त्यै नान्ये नॄणां व्यसनमोहभियश् च याभ्याम् ॥ तस्मात् तवेह भगवन्न् अथ तावकानां शुक्लां तनुं स्वदयितां कुशला भजन्ति । यत् सात्वताः पुरुषरूपम् उशन्ति सत्त्वं लोको यतोऽभयम् उतात्मसुखं न चान्यद् ॥ इति ॥ अनयोर् अर्थः—हे ईश! यद् अपि सत्त्वं रजस् तम इति तवैव मायाकृता लीलाः, कथम्भूताः? अस्य विश्वस्य स्थित्यादिहेतवः, तथापि या सत्त्वमयी सैव प्रशान्त्यै प्रकृष्टसुखाय भवति, नान्ये रजस्तमोमय्यौ । न केवलं प्रशान्त्यभावमात्रम् अनयोः, किन्त्व् अनिष्टं चेत्य् आह—व्यसनेति । हे भगवन्! तस्मात् तव शुक्लां सत्त्वमयलीलाधिष्ठात्रीं तनुं श्रीविष्णुरूपां कुशला निपुणा भजन्ति सेवन्ते, न त्व् अन्यां ब्रह्मरुद्ररूपाम् । तथा तावकानां जीवानां च मध्ये शुक्लां सत्त्वैकनिष्ठां तनुं तद्भक्तलक्षणस्वायम्भुवमन्वादिरूपां ते भजन्ति अनुसरन्ति, न तु दक्षभैरवादिरूपाम् । कथम्भूताम्? स्वस्य तवापि दयितां लोकशान्तिकरत्वात् । ननु मम रूपम् अपि सत्त्वात्मकम् इति प्रसिद्धं । तर्हि कथं तस्यापि मायामयत्वम् एव? नहि नहीत्य् आह—सात्वताः श्रीभागवता यत् सत्त्वं पुरुषस्य तव रूपं प्रकाशम् उशन्ति मन्यन्ते, यतश् च सत्त्वात् लोको वैकुण्ठाख्यः प्रकाशते, तद् अभयम् आत्मसुखं परब्रह्मानन्दस्वरूपम् एव, न त्व् अन्यत् प्रकृतिजं सत्त्वं तद् इति । अत्र सत्त्वशब्देन स्वप्रकाशतालक्षणस्वरूपशक्तिवृत्तिविशेष उच्यते, सत्त्वं विशुद्धं वसुदेवशब्दितं यद् ईयते तत्र पुमान् अपावृतः इत्याद्युदाहरिष्यमाणानुसारात् अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः सत्त्वम् इत्य् अशुद्धसत्त्वलक्षणप्रसिद्ध्यनुसारेण तथाभूतश् चिच्छक्तिवृत्तिविशेषः सत्त्वम् इति सङ्गतिलाभाच् च । ततश् च तस्य स्वरूपशक्तिवृत्तित्वेन स्वरूपात्मतैवेत्य् उक्तम्—तद् अभयम् आत्मसुखम् इति । शक्तित्वप्राधान्यविवक्षयोक्तं—लोको यत इति । अर्थान्तरे भगवद्विग्रहं प्रति रूपं यद् एतद् इत्यादौ शुद्धसत्त्वस्वरूपमात्रत्वप्रतिज्ञाभङ्गः, अभयम् इत्यादौ प्राञ्जलताहानिश् च भवति । अन्यत्पदस्यैकस्यैव रजस् तमश् चेति द्विरावृत्तौ प्रतिपत्तिगौरवं चोत्पद्यते । पूर्वम् अपि नान्ये इति द्विवचनेनैव परामृष्टे । तस्माद् अस्ति प्रसिद्धाद् अन्यत् स्वरूपभूतं सत्त्वम् । यद् एवैकादशे यत्काय एष भुवनत्रयसन्निवेशः इत्य् आदौ, ज्ञानं स्वत इत्य् अत्र टीकाकृन्मतं यस्य स्वरूपभूतात् सत्त्वात् तनुभृतां ज्ञानम् इत्य् अनेन, तथा परोरजः सवितुर् जातवेदा देवस्य भर्गः इत्यादौ श्रीभरतजाप्ये तन्मतं परोरजः रजसः प्रकृतेः परं शुद्धसत्त्वात्मकम् इत्य् आदिना, अत एव प्राकृताः सत्त्वादयो गुणा जीवस्यैव, न त्व् ईशस्येति श्रूयते । अथैकादशे सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे इति । श्रीभगवदुपनिषत्सु च— ये चैव सात्त्विका भावा राजसास् तामसाश् च ये । मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥ त्रिभिर् गुणमयैर् भावैर् एभिः सर्वम् इदं जगत् । मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥ दैवी ह्य् एषा गुणमयी मम माया दुरत्यया । माम् एव ये प्रपद्यन्ते मायाम् एतां तरन्ति ते ॥ इति । यथा दशमे— हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः । स सर्वदृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ इति । श्रीविष्णुपुराणे च— सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्वशुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥ इति । अत्र प्राकृता इति विशिष्याप्राकृतास् त्व् अन्ये गुणास् तस्मिन् सन्त्य् एवेति व्यञ्जितं तत्रैव । ह्लादिनी सन्धिनी संवित् त्वय्य् एका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ इति । तथा च दशमे देवेन्द्रेणोक्तम्— विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयोऽयं गुणसंप्रवाहो न विद्यते तेऽग्रणानुबन्ध ॥ इति । अयम् अर्थः—धाम स्वरूपभूतप्रकाशशक्तिः । विशुद्धत्वम् आह विशेषणद्वयेन । ध्वस्तरजस्तमस्कं तपोमयम् इति च । तपोऽत्र ज्ञानं, स तपोऽतप्यत इति श्रुतेः । तपोमयं प्रचुरज्ञानस्वरूपम्, जाड्यांशेनापि रहितम् इत्य् अर्थः । आत्मा ज्ञानमयः शुद्धः इतिवत् । अतः प्राकृतसत्त्वम् अपि व्यावृत्तम् । अत एव मायामयोऽयं सत्त्वादिगुणप्रवाहस् ते तव न विद्यते, यतोऽसाव् अज्ञानेनैवानुबन्ध इति । अत एव श्रीभगवन्तं प्रति ब्रह्मादीनां सयुक्तिकम्— सत्त्वं विशुद्धं श्रयते भवान् स्थितौ शरीरिणां श्रेयौपायनं वपुः । वेदक्रियायोगतपःसमाधिभिस् तवार्हणं येन जनः समीहते ॥ सत्त्वं न चेद् धातर् इदं निजं भवेद् विज्ञानम् अज्ञानभिदाप मार्जनम् । गुणप्रकाशैर् अनुमीयते भवान् प्रकाशते यस्य च येन वा गुणः ॥ अयम् अर्थः—सत्त्वं तेन प्रकाशमानत्वात् तदभिन्नतया रूपितं वपुर् भवान् श्रयते प्रकटयति । कथम्भूतं सत्त्वं? विशुद्धम् । अन्यस्य रजस्तमोभ्याम् अमिश्रस्यापि प्राकृतत्वेन जाड्यांशसंवलितत्वान् न विशेषेण शुद्धत्वम् । एतत् तु स्वरूपशक्त्यात्मत्वेन तदंशस्याप्य् अस्पर्शाद् अतीव शुद्धम् इत्य् अर्थः । किम् अर्थं श्रये? शरीरिणां स्थितौ, निजचरणारविन्दे मनःस्थैर्याय सर्वत्र भक्तिसुखदानस्यैव त्वदीयमुख्यप्रयोजनत्वाद् इति भावः, भक्तियोगविधानार्थम् इति श्रीकुन्तीवाक्यात् । कथम्भूतं वपुः? श्रेयसां सर्वेषां पुरुषार्थानाम् उपायनम् आश्रयम् । नित्यानन्दपरमानन्दरूपम् इत्य् अर्थः । अतो वपुषस् तव च भेदनिर्देशोऽयम् औपचारिक एवेति भावः । अत एव येन वपुषा, यद्वपुरालम्बनेनैव जनस् तवार्हणं पूजां करोति । कैः साधनैः? वेदादिभिस् त्वदालम्बकैर् इत्य् अर्थः । साधनैस् त्व् अर्पितैर् एव त्वदर्हणप्रायतासिद्धाव् अपि वपुषोऽनपेक्षत्वात् । तादृशवपुःप्रकाशहेतुत्वेन स्वरूपात्मकत्वं स्पष्टयन्ति—हे धातश्! चेद् यदि इदं सत्त्वं यत् तव निजं विज्ञानम् अनुभवः, तदात्मिका स्वप्रकाशताशक्तिर् इत्य् अर्थः, तन् न भवेत्, तर्हि त्व् अज्ञानभिदा स्वप्रकाशस्य तवानुभवप्रकार एव मार्जनं शुद्धिम् अवाप । सैव जगति पर्यवसीयते, न तु तवानुभवलेशोऽपीत्य् अर्थः । ननु प्राकृतसत्त्वगुणेनैष भवतु, किं निजेन? इत्य् आह—प्राकृतगुणप्रकाशैर् भवान् केवलम् अनुमीयते, न तु साक्षात्क्रियत इत्य् अर्थः । अथवा, तव विज्ञानरूपम् अज्ञानभिदाया अपमार्जनं च यन् निजं सत्त्वं, तद् यदि न भवेन् नाविर्भवति, तदैव प्राकृतसत्त्वादिगुणप्रकाशैर् भवान् अनुमीयते, त्वन्निजसत्ताविर्भावेण तु साक्षात्क्रियत एवेत्य् अर्थः । तद् एव स्पष्टयितुं तत्रानुमाने द्वैविध्यम् आहुः—यस्य गुणः प्रकाशते, येन वा गुणः प्रकाशत इति । अस्वरूपभूतस्यैव सत्त्वादिगुणस्य त्वदव्यभिचारिसम्बन्धित्वमात्रेण वा त्वदेकप्रकाश्यमानतामात्रेण वा त्वल्लिङ्गत्वम् इत्य् अर्थः । यथा अरुणोदयस्य सूर्योदयसान्निध्यलिङ्गत्वं, यथा वा धूमस्याग्निलिङ्गत्वम् इति । तत उभयथापि तव साक्षात्कारे तस्य साधकतमत्वाभावो युक्त इति भावः । तद् एवम् अप्राकृतसत्त्वस्य त्वदीयस्वप्रकाशतारूपत्वं, येन स्वप्रकाशस्य तव साक्षात्कारो भवतीति स्थापितम् । अत्र ये विशुद्धसत्त्वं नाम प्राकृतम् एव रजस्तमःशून्यं मत्वा तत्कार्यं भगवद्विग्रहादिकं मन्यन्ते, ते तु न केनाप्य् अनुगृहीताः, रजःसम्बन्धाभावेन स्वतःप्रशान्तस्वभावस्य सर्वत्रोदासीनताकृतिहेतोस् तस्य क्षोभासम्भवात्, विद्यामयत्वेन यथावस्थितवस्तुप्रकाशितामात्रधर्मत्वात्, तस्य कल्पनान्तरायोग्यत्वाच् च । तद् उक्तम् अपि अगोचरस्य गोचरत्वे हेतुः प्रकृतिगुणः सत्त्वम्, गोचरस्य बहुरूपत्वे रजः, बहुरूपस्य तिरोहितत्वे तमः । तथा परस्परोदासीनत्वे सत्त्वम् । उपकारित्वे रजः, अपकारित्वे तमः, गोचरत्वादीनि स्थितिसृष्टिसंहाराः उदासीनत्वादीनि चेति । अथ रजोलेशे तत्र मन्तव्ये विशुद्धपदवैयर्थ्यम् इत्य् अलं तन्मतरजोघटप्रघट्टनयेति । पाद्मोत्तरखण्डे तु वैकुण्ठनिरूपणे तस्य सत्त्वस्याप्राकृतत्वं स्फुटम् एव दर्शितम् । यत उक्तं प्रकृतिविभूतिवर्णनानन्तरम् । एवं प्राकृतरूपाय विभूतेर् रूपम् उत्तमम् । त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥ प्रधानपरमव्योम्नोर् अन्तरे विरजा नदी । वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥ तस्याः पारे परव्योम्नि त्रिपाद्भूतं सनातनम् । अमृतं शाश्वतं नित्यम् अनन्तं परं पदम् ॥ शुद्धसत्त्वमयं दिव्यम् अक्षरं ब्रह्मणः पदम् ॥ इत्यादि । तद् एतत् समाप्तं प्रासङ्गिकं शुद्धसत्त्वविवेचनम् ।
vakṣyate ca tasya sattvasya prākṛtād anyatamatvaṁ dvādaśe śrī-nārāyaṇa-rṣiṁ prati mārkaṇḍeyena— sattvaṁ rajas tama itīśa tavātma-bandho māyāmayāḥ sthiti-layodbhava-hetavo'sya | līlā-dhṛtā yad api sattva-mayī praśāntyai nānye nṝṇāṁ vyasana-moha-bhiyaś ca yābhyām || tasmāt taveha bhagavann atha tāvakānāṁ śuklāṁ tanuṁ sva-dayitāṁ kuśalā bhajanti | yat sātvatāḥ puruṣa-rūpam uśanti sattvaṁ loko yato'bhayam utātma-sukhaṁ na cānyad || iti || anayor arthaḥ—he īśa! yad api sattvaṁ rajas tama iti tavaiva māyā-kṛtā līlāḥ, katham-bhūtāḥ? asya viśvasya sthity-ādi-hetavaḥ, tathāpi yā sattva-mayī saiva praśāntyai prakṛṣṭa-sukhāya bhavati, nānye rajas-tamo-mayyau | na kevalaṁ praśānty-abhāva-mātram anayoḥ, kintv aniṣṭaṁ cety āha—vyasaneti | he bhagavan! tasmāt tava śuklāṁ sattva-maya-līlādhiṣṭhātrīṁ tanuṁ śrī-viṣṇu-rūpāṁ kuśalā nipuṇā bhajanti sevante, na tv anyāṁ brahma-rudra-rūpām | tathā tāvakānāṁ jīvānāṁ ca madhye śuklāṁ sattvaika-niṣṭhāṁ tanuṁ tad-bhakta-lakṣaṇa-svāyambhuva-manv-ādi-rūpāṁ te bhajanti anusaranti, na tu dakṣa-bhairavādi-rūpām | katham-bhūtām? svasya tavāpi dayitāṁ loka-śānti-karatvāt | nanu mama rūpam api sattvātmakam iti prasiddhaṁ | tarhi kathaṁ tasyāpi māyāmayatvam eva? nahi nahīty āha—sātvatāḥ śrī-bhāgavatā yat sattvaṁ puruṣasya tava rūpaṁ prakāśam uśanti manyante, yataś ca sattvāt loko vaikuṇṭhākhyaḥ prakāśate, tad abhayam ātma-sukhaṁ para-brahmānanda-svarūpam eva, na tv anyat prakṛti-jaṁ sattvaṁ tad iti | atra sattva-śabdena sva-prakāśatā-lakṣaṇa-svarūpa-śakti-vṛtti-viśeṣa ucyate, sattvaṁ viśuddhaṁ vasudeva-śabditaṁ yad īyate tatra pumān apāvṛtaḥ ity-ādy-udāhariṣyamāṇānusārāt agocarasya gocaratve hetuḥ prakṛti-guṇaḥ sattvam ity aśuddha-sattva-lakṣaṇa-prasiddhy-anusāreṇa tathābhūtaś cic-chakti-vṛtti-viśeṣaḥ sattvam iti saṅgati-lābhāc ca | tataś ca tasya svarūpa-śakti-vṛttitvena svarūpātmataivety uktam—tad abhayam ātma-sukham iti | śaktitva-prādhānya-vivakṣayoktaṁ—loko yata iti | arthāntare bhagavad-vigrahaṁ prati rūpaṁ yad etad ity-ādau śuddha-sattva-svarūpa-mātratva-pratijñā-bhaṅgaḥ, abhayam ity-ādau prāñjalatā-hāniś ca bhavati | anyat-padasyaikasyaiva rajas tamaś ceti dvir-āvṛttau pratipatti-gauravaṁ cotpadyate | pūrvam api nānye iti dvi-vacanenaiva parāmṛṣṭe | tasmād asti prasiddhād anyat svarūpa-bhūtaṁ sattvam | yad evaikādaśe yat-kāya eṣa bhuvana-traya-sanniveśaḥ ity ādau, jñānaṁ svata ity atra ṭīkā-kṛn-mataṁ yasya svarūpa-bhūtāt sattvāt tanu-bhṛtāṁ jñānam ity anena, tathā paro-rajaḥ savitur jāta-vedā devasya bhargaḥ ity-ādau śrī-bharata-jāpye tan-mataṁ paro-rajaḥ rajasaḥ prakṛteḥ paraṁ śuddha-sattvātmakam ity ādinā, ata eva prākṛtāḥ sattvādayo guṇā jīvasyaiva, na tv īśasyeti śrūyate | athaikādaśe sattvaṁ rajas tama iti guṇā jīvasya naiva me iti | śrī-bhagavad-upaniṣatsu ca— ye caiva sāttvikā bhāvā rājasās tāmasāś ca ye | matta eveti tān viddhi na tv ahaṁ teṣu te mayi || tribhir guṇa-mayair bhāvair ebhiḥ sarvam idaṁ jagat | mohitaṁ nābhijānāti mām ebhyaḥ param avyayam || daivī hy eṣā guṇa-mayī mama māyā duratyayā | mām eva ye prapadyante māyām etāṁ taranti te || iti | yathā daśame— harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ | sa sarva-dṛg upadraṣṭā taṁ bhajan nirguṇo bhavet || iti | śrī-viṣṇu-purāṇe ca— sattvādayo na santīśe yatra ca prākṛtā guṇāḥ | sa śuddhaḥ sarva-śuddhebhyaḥ pumān ādyaḥ prasīdatu || iti | atra prākṛtā iti viśiṣyāprākṛtās tv anye guṇās tasmin santy eveti vyañjitaṁ tatraiva | hlādinī sandhinī saṁvit tvayy ekā sarva-saṁśraye | hlāda-tāpa-karī miśrā tvayi no guṇa-varjite || iti | tathā ca daśame devendreṇoktam— viśuddha-sattvaṁ tava dhāma śāntaṁ tapomayaṁ dhvasta-rajas-tamaskam | māyāmayo'yaṁ guṇa-saṁpravāho na vidyate te'graṇānubandha || iti | ayam arthaḥ—dhāma svarūpa-bhūta-prakāśa-śaktiḥ | viśuddhatvam āha viśeṣaṇa-dvayena | dhvasta-rajas-tamaskaṁ tapo-mayam iti ca | tapo'tra jñānaṁ, sa tapo'tapyata iti śruteḥ | tapo-mayaṁ pracura-jñāna-svarūpam, jāḍyāṁśenāpi rahitam ity arthaḥ | ātmā jñāna-mayaḥ śuddhaḥ itivat | ataḥ prākṛta-sattvam api vyāvṛttam | ata eva māyā-mayo'yaṁ sattvādi-guṇa-pravāhas te tava na vidyate, yato'sāv ajñānenaivānubandha iti | ata eva śrī-bhagavantaṁ prati brahmādīnāṁ sa-yuktikam— sattvaṁ viśuddhaṁ śrayate bhavān sthitau śarīriṇāṁ śreya-upāyanaṁ vapuḥ | veda-kriyā-yoga-tapaḥ-samādhibhis tavārhaṇaṁ yena janaḥ samīhate || sattvaṁ na ced dhātar idaṁ nijaṁ bhaved vijñānam ajñāna-bhidāpa mārjanam | guṇa-prakāśair anumīyate bhavān prakāśate yasya ca yena vā guṇaḥ || ayam arthaḥ—sattvaṁ tena prakāśamānatvāt tad-abhinnatayā rūpitaṁ vapur bhavān śrayate prakaṭayati | kathambhūtaṁ sattvaṁ? viśuddham | anyasya rajas-tamobhyām amiśrasyāpi prākṛtatvena jāḍyāṁśa-saṁvalitatvān na viśeṣeṇa śuddhatvam | etat tu svarūpa-śakty-ātmatvena tad-aṁśasyāpy asparśād atīva śuddham ity arthaḥ | kim arthaṁ śraye? śarīriṇāṁ sthitau, nija-caraṇāravinde manaḥ-sthairyāya sarvatra bhakti-sukha-dānasyaiva tvadīya-mukhya-prayojanatvād iti bhāvaḥ, bhakti-yoga-vidhānārtham iti śrī-kuntī-vākyāt | katham-bhūtaṁ vapuḥ? śreyasāṁ sarveṣāṁ puruṣārthānām upāyanam āśrayam | nityānanda-paramānanda-rūpam ity arthaḥ | ato vapuṣas tava ca bheda-nirdeśo'yam aupacārika eveti bhāvaḥ | ata eva yena vapuṣā, yad-vapur-ālambanenaiva janas tavārhaṇaṁ pūjāṁ karoti | kaiḥ sādhanaiḥ? vedādibhis tvad-ālambakair ity arthaḥ | sādhanais tv arpitair eva tvad-arhaṇa-prāyatāsiddhāv api vapuṣo'napekṣatvāt | tādṛśa-vapuḥ-prakāśa-hetutvena svarūpātmakatvaṁ spaṣṭayanti—he dhātaś! ced yadi idaṁ sattvaṁ yat tava nijaṁ vijñānam anubhavaḥ, tadātmikā sva-prakāśatā-śaktir ity arthaḥ, tan na bhavet, tarhi tv ajñāna-bhidā sva-prakāśasya tavānubhava-prakāra eva mārjanaṁ śuddhim avāpa | saiva jagati paryavasīyate, na tu tavānubhava-leśo'pīty arthaḥ | nanu prākṛta-sattva-guṇenaiṣa bhavatu, kiṁ nijena? ity āha—prākṛta-guṇa-prakāśair bhavān kevalam anumīyate, na tu sākṣātkriyata ity arthaḥ | athavā, tava vijñāna-rūpam ajñāna-bhidāyā apamārjanaṁ ca yan nijaṁ sattvaṁ, tad yadi na bhaven nāvirbhavati, tadaiva prākṛta-sattvādi-guṇa-prakāśair bhavān anumīyate, tvan-nija-sattāvirbhāveṇa tu sākṣāt-kriyata evety arthaḥ | tad eva spaṣṭayituṁ tatrānumāne dvaividhyam āhuḥ—yasya guṇaḥ prakāśate, yena vā guṇaḥ prakāśata iti | asvarūpa-bhūtasyaiva sattvādi-guṇasya tvad-avyabhicāri-sambandhitva-mātreṇa vā tvad-eka-prakāśyamānatā-mātreṇa vā tval-liṅgatvam ity arthaḥ | yathā aruṇodayasya sūryodaya-sānnidhya-liṅgatvaṁ, yathā vā dhūmasyāgni-liṅgatvam iti | tata ubhayathāpi tava sākṣātkāre tasya sādhakatamatvābhāvo yukta iti bhāvaḥ | tad evam aprākṛta-sattvasya tvadīya-sva-prakāśatā-rūpatvaṁ, yena sva-prakāśasya tava sākṣātkāro bhavatīti sthāpitam | atra ye viśuddha-sattvaṁ nāma prākṛtam eva rajas-tamaḥ-śūnyaṁ matvā tat-kāryaṁ bhagavad-vigrahādikaṁ manyante, te tu na kenāpy anugṛhītāḥ, rajaḥ-sambandhābhāvena svataḥ-praśānta-svabhāvasya sarvatrodāsīnatākṛti-hetos tasya kṣobhāsambhavāt, vidyāmayatvena yathāvasthita-vastu-prakāśitā-mātra-dharmatvāt, tasya kalpanāntarāyogyatvāc ca | tad uktam api agocarasya gocaratve hetuḥ prakṛti-guṇaḥ sattvam, gocarasya bahu-rūpatve rajaḥ, bahu-rūpasya tirohitatve tamaḥ | tathā parasparodāsīnatve sattvam | upakāritve rajaḥ, apakāritve tamaḥ, gocaratvādīni sthiti-sṛṣṭi-saṁhārāḥ udāsīnatvādīni ceti | atha rajo-leśe tatra mantavye viśuddha-pada-vaiyarthyam ity alaṁ tan-mata-rajo-ghaṭa-praghaṭṭanayeti | pādmottara-khaṇḍe tu vaikuṇṭha-nirūpaṇe tasya sattvasyāprākṛtatvaṁ sphuṭam eva darśitam | yata uktaṁ prakṛti-vibhūti-varṇanānantaram | evaṁ prākṛta-rūpāya vibhūter rūpam uttamam | tripād-vibhūti-rūpaṁ tu śṛṇu bhūdhara-nandini || pradhāna-parama-vyomnor antare virajā nadī | vedāṅga-sveda-janita-toyaiḥ prasrāvitā śubhā || tasyāḥ pāre para-vyomni tripād-bhūtaṁ sanātanam | amṛtaṁ śāśvataṁ nityam anantaṁ paraṁ padam || śuddha-sattva-mayaṁ divyam akṣaraṁ brahmaṇaḥ padam || ity-ādi | tad etat samāptaṁ prāsaṅgikaṁ śuddha-sattva-vivecanam |
А что та саттва иная, нежели вещественная, будет сказано в двенадцатой песни Маркандеей, обращающимся к Шри Нараяне-риши:
«Саттва, раджас, тамас — они Твои, о Владыка, о друг души, состоят из майи и суть причины стояния, растворения и возникновения этого мира, держимые Твоею игрою. И всё же к умиротворению ведёт та, что из саттвы, а не иные две: от них у людей бедствие, морок и страх.
Потому, о Бхагаван, умелые чтут белую плоть Твою и белую плоть Твоих, Тебе самому дорогую. Ибо сатваты считают саттву обликом Пуруши; и мир, что светит от неё, — бесстрашное счастье души, и ничто иное».
Смысл их таков. О Владыка! Хотя саттва, раджас и тамас суть именно Твои игры, сотворённые майей, — а каковы они? причины стояния и прочего этой вселенной, — всё же та, что из саттвы, ведёт «к умиротворению», то есть к высшему счастью, а «не иные две», что из раджаса и тамаса. И не только нет у них умиротворения — от них и нежеланное; о том он говорит: «бедствие».
О Бхагаван! «Потому» умелые, то есть искусные, «чтут», то есть служат, «белой плоти» Твоей — той, что правит игрою, состоящей из саттвы, и чей облик есть Шри Вишну, — а не иной, чей облик Брахма и Рудра. Так же и «среди Твоих», среди джив, они чтут и тем следуют «белой» плоти, преданной одной лишь саттве, — той, чей облик Сваямбхува Ману и прочие, у кого примета Его преданного, — а не той, чей облик Дакша, Бхайрава и прочие. А какова она? «Дорогая» и себе, и Тебе, ибо творит миру умиротворение.
— Но ведь известно, что и Мой облик есть существо саттвы. Как же тогда и он из майи?
— Нет, нет, говорит он: «сатваты», то есть Шри бхагаваты, «считают», то есть полагают, ту саттву Твоим «обликом», свечением Пуруши; и мир, именуемый Вайкунтхой, что светит «от» той саттвы, — то самое «бесстрашное счастье души», то есть сама природа блаженства высшего Брахмана, а не иная, рождённая от пракрити саттва.
Словом «саттва» здесь названа особая деятельность собственной силы, чья примета — самосветимость: согласно тому, что будет приведено — «саттва чистейшая, именуемая Васудевой, — там обретается Пуруша, открытый» и далее; и оттого, что связь получается сама собою: раз по известной примете нечистой саттвы «причина зримости незримого есть качество пракрити, саттва», то такова же и особая деятельность силы сознания, которая есть саттва.
Потому, поскольку она есть деятельность собственной силы, сказано, что она — сама Его природа: «то бесстрашное счастье души». А имея в виду преимущество её как силы, сказано: «мир, откуда».
При ином же толковании — относя «облик, который этот» и далее к образу Бхагавана — нарушается утверждение, что он есть одна лишь природа чистой саттвы, и в «бесстрашном» и далее теряется прямота; а от того, что одно и то же слово «иное» повторяется дважды — «раджас» и «тамас», — понимание тяжелеет. К тому же и прежде они упомянуты именно двойственным числом: «не иные две».
Потому есть саттва, отличная от известной и составляющая Его собственную природу. О ней — и в одиннадцатой песни, в словах «чьё тело есть это устроение трёх миров» и далее, где к словам «знание само собою» тикакар говорит: «от саттвы, составляющей Его собственную природу, — знание у носящих тело»; и в молитве Шри Бхараты «выше раджаса рождённое знание, сияние бога Савитара» и далее, где его мнение: «выше раджаса» значит выше раджаса, то есть пракрити, состоящее из чистой саттвы, — и далее.
Потому и слышится, что вещественные гуны, саттва и прочие, принадлежат именно дживе, а не Владыке. Вот в одиннадцатой: «саттва, раджас, тамас» — «гуны дживы, вовсе не Мои». И в упанишадах Шри Бхагавана: «Какие есть состояния саттвичные, раджасичные и тамасичные — знай, что все они от Меня; но Я не в них, они во Мне. Этими тремя состояниями, что из гун, обморочен весь этот мир и не узнаёт Меня, кто выше их и нетленен. Ведь эта божественная Моя майя, что из гун, труднопреодолима; но кто предаётся Мне одному, те превозмогают её».
Как и в десятой: «Ведь Хари бескачествен, Сам Пуруша, выше пракрити; он всё видящий созерцатель, и кто Ему поклоняется, тот станет бескачественным».
И в «Шри Вишну-пуране»: «Нет во Владыке саттвы и прочих, нет в Нём вещественных гун; он чистый, чище всех чистых, Пуруша изначальный, — да будет милостив». Здесь словом «вещественные» уточнено, а тем самым и обозначено, что иные, невещественные качества в Нём всё же есть. Там же: «Хладини, сандхини, самвит — в Тебе, прибежище всего, они одно; а смешанная, творящая и радость, и жар, — не в Тебе, лишённом качеств».
Так же и в десятой сказано Индрой богов: «Обитель Твоя — чистейшая саттва, умиротворённая, состоящая из тапаса, и раджас с тамасом в ней разрушены; нет у Тебя, о Предводитель, связи с этим потоком гун, что из майи».
Смысл таков. «Обитель» — сила свечения, составляющая Его собственную природу. Чистейшесть её он излагает двумя определениями: «раджас и тамас разрушены» и «состоящая из тапаса». Тапас здесь — знание, по шрути «он совершал тапас»; «состоящая из тапаса» — имеющая природою обильное знание, лишённая и частицы косности, как в словах «душа из знания, чистая». Потому отведена и вещественная саттва. И потому же «нет у Тебя» этого потока саттвы и прочих гун, что «из майи», — ибо связан он одним лишь незнанием.
Потому же и Брахма с прочими говорят Шри Бхагавану с доводом: «Ты принимаешь чистейшую саттву при стоянии воплощённых — плоть, прибежище всех благ, которою человек совершает Тебе почитание Ведой, обрядом, йогой, тапасом и самадхи. Если бы, о Создатель, эта саттва не была Твоим собственным познанием, рассекающим незнание и очищающим, — Ты лишь выводился бы по свечениям качеств: тех, чьё качество светит, или тех, чем качество светит».
Смысл таков. «Ты принимаешь», то есть проявляешь, «плоть», оформленную саттвою и неотличную от неё, ибо ею она и являема. А какова саттва? «Чистейшая»: иная, даже не смешанная с раджасом и тамасом, всё же вещественна и окружена частью косности, и потому чиста не в особом смысле; а эта, будучи существом собственной силы, не тронута и частью той, и потому крайне чиста.
Для чего принимает? «При стоянии воплощённых»: чтобы ум их стоял на Его лотосных стопах, ибо главная Твоя цель везде — дать счастье бхакти; по слову Шри Кунти «ради установления бхакти-йоги». А какова плоть? «Прибежище» — опора всех благ, всех целей человека, то есть облик вечного и высшего блаженства. Потому и указание на различие Твоей плоти и Тебя самого — лишь переносное.
Потому и «которою», то есть имея опорою ту плоть, «человек совершает Тебе почитание». Какими средствами? «Ведой» и прочими, что и сами имеют опорою Тебя. Ведь если бы почитание Тебе совершалось одними поднесёнными средствами, плоть была бы не нужна.
А что она есть сама Его природа, ибо она же причина явления такой плоти, — это они проясняют: «о Создатель! Если» эта саттва, то есть Твоё собственное познание, переживание, — то есть сила самосветимости, чьё существо в нём, — «не была бы» ею, «тогда» само «рассечение незнания» есть лишь способ Твоего переживания, самосветящегося, и «очищение» обрело бы чистоту. То есть оно и завершалось бы в мире, а частицы Твоего переживания не было бы вовсе.
— Но пусть это будет от качества вещественной саттвы; зачем собственная?
— На то он говорит: «по свечениям вещественных качеств» «Ты» лишь «выводишься», а зримым не делаешься.
Или же так: если бы та собственная саттва — облик Твоего познания и очищение от рассечения незнания — не являлась, то Ты выводился бы по свечениям вещественных качеств, саттвы и прочих; явлением же Твоей собственной саттвы Ты делаешься зримым прямо.
Чтобы это прояснить, они указывают на двоякость вывода: «тех, чьё качество светит, или тех, чем качество светит». То есть саттва и прочие качества, не составляющие Твоей природы, служат Твоим признаком либо одною лишь неразлучной связанностью с Тобою, либо одним лишь тем, что являемы Тобою: как заря есть признак близости восхода солнца, или как дым есть признак огня. Потому и в том, и в другом случае уместно, что лучшим средством прямого видения Тебя они не будут.
Итак, установлено, что невещественная саттва есть облик Твоей самосветимости, которою и бывает прямое видение Тебя, самосветящегося.
А те, кто «чистейшей саттвой» зовут вещественную же, лишь свободную от раджаса и тамаса, и считают образ Бхагавана и прочее её следствием, — те никем не облагодетельствованы. Ибо она, не имея связи с раджасом, сама собою умиротворённа и есть причина образа безучастности во всём, а потому возмутиться не может; ибо, состоя из видьи, она имеет свойством одну лишь явленность вещи как она есть; и ибо иного измышления она не допускает. О том и сказано: «причина зримости незримого есть качество пракрити, саттва; при многообразии зримого — раджас; при сокрытии многообразного — тамас. Так же при взаимной безучастности — саттва, при пособничестве — раджас, при вредительстве — тамас; зримость и прочее суть стояние, творение и растворение, как и безучастность и прочее». А если признать там частицу раджаса, слово «чистейшая» станет бессмысленным. Довольно же разбивать раджасов кувшин их учения.
А в уттара-кханде «Падмы», где излагается Вайкунтха, невещественность той саттвы показана прямо: вслед за описанием богатства пракрити сказано: «Таков высший облик богатства, чей облик вещественный. А об облике трёхстопного богатства слушай, дочь Горы. Между прадханой и высшим небом — река Вираджа, благая, истекающая водами, рождёнными от пота членов Веды. За нею, в высшем небе, — трёхстопное сущее, вечное, бессмертное, постоянное, непреходящее, бесконечное, высшая обитель; состоящая из чистой саттвы, божественная, нетленная обитель Брахмана» — и далее.
На том попутное разбирательство о чистой саттве и завершено.
73baed88f69d · 发布于 2026年9月20日 11:13:10 UTC
可用语言RU用方向键翻颂
Спор идёт об одном слове: «саттва» у Бога и «саттва» в природе — одно ли это.
Довод решающий: вещественная саттва лишь позволяет вывести Его, как заря позволяет вывести восход, а увидеть Его прямо даёт только Его собственная.
И оговорено, отчего чистейшая саттва не может быть просто очищенной природной: у той нет способности возмутиться, а значит и произвести что-либо.