Шат-сандарбха
Сандарбха вторая. Бхагават: Господь как личность2.72Джива Госвами
154 / 1405
Linux
Листать
Шат-сандарбха · 2.72
॥
Деванагари

एवं च ओं नमस् तेऽस्तु भगवन् इत्यादिगद्ये— परमहंसपरिव्राजकैः परमेणात्मयोगसमाधिना परिभावितपरिस्फुटपारमहंस्यधर्मेणोद्घाटिततमःकपाटद्वारे चित्तेऽपावृत आत्मलोके स्वयम् उपलब्धनिजसुखानुभवो भवान् ॥ तमः प्रकृतिर् अज्ञानं वा । आत्मलोके स्वस्वरूपे लोके । एष आत्मलोक एष ब्रह्मलोकः इति । दिव्ये ब्रह्मपुरे ह्य् एष परमात्मा प्रतिष्ठितः इत्यादिश्रुतौ । यत् तत् सूक्ष्मं परमं वेदितव्यं नित्यं पदं वैष्णवम् आमनन्ति । एतल् लोका न विदुर् लोकसारं विदन्ति तत् कवयो योगनिष्ठाः ॥ इति पिप्पलादशाखायाम् । परेण नाकं निहितं गुहायां बिभ्राजते यद् यतयो विशन्ति ॥ इति परस्याम् । तद् वा एतत् परं धाम मन्त्रराजाध्यापकस्य, यत्र न दुःखादि न सूर्यो भाति, यत्र न मृत्युः प्रविशति, यत्र न दोषः, तद् आनन्दं शाश्वतं शान्तं सदाशिवं ब्रह्मादिवन्दितं योगिध्येयं, यत्र गत्वा न निवर्तन्ते योगिनः । तद् एतद् ऋचाभ्युक्तं— तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः दिवीव चक्षुर् आततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर् यत् परमं पदम् ॥ इति श्रीनृसिंहतापन्याम् । न त्व् इयम् अपि ब्रह्मपरत्वेनैव व्याख्येया, वन्दितत्वेन यत्र गत्वेत्य् अनेन च तदनङ्गीकारात् । यतः श्रीविष्णुपुराणे च श्रीविष्णुलोकम् उद्दिश्य ऋग् इयम् अनुस्मृता, यथा— ऊर्ध्वोत्तरम् ऋषिभ्यस् तु ध्रुवो यत्र व्यवस्थितः । एतद् विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ निर्धूतदोषपङ्कानां यतीनां संयतात्मनाम् । स्थानं तत् परमं विप्र पुण्यपापपरिक्षये ॥ अपुण्यपुण्योपरमे क्षीणाशोषाप्तिहेतवः । यत्र गत्वा न शोचन्ति तद् विष्णोः परमं पदम् ॥ धर्मं ध्रुवाद्यास् तिष्ठन्ति यत्र ते लोकसाक्षिणः । तत्सार्ष्ट्योत्पन्नयोगर्द्धास् तद्विष्णोः परमं पदम् ॥ यत्रैतद् ओतं प्रोतं च यद् भूतं सचराचरम् । भाव्यं च विश्वं मैत्रेय तद् विष्णोः परमं पदम् ॥ दिवीव चक्षुर् आततं विततं तन् महात्मनाम् । विवेकज्ञानवृद्धं च तद् विष्णोः परमं पदम् ॥ तापनीश्रुतौ च यत्र न वायुर् वाती इत्यादिकं प्राकृततत्तन्मात्रनिषेधात्मकं तत्रापि तत्तच्छ्रवणात् । यत् तु मातुः सपत्न्या वाग्बाणैर् हृदि विद्धस् तु तान् स्मरन् । नैच्छन् मुक्तिपतेर् मुक्तिं पश्चात्तापम् उपेयिवान् ॥ इति । तथा— अहो बत ममानात्म्यं मन्दभाग्यस्य पश्यत । भवच्छिदः पादमूलं गत्वा याचे यद् अन्तवत् ॥ इति श्रीध्रुवस्यापूर्णंमन्यता श्रूयते । तदुच्चपदकामनयैव तत्प्रार्थितवता तेन लब्धमनोरथातीतवरेणापि स्वसङ्कल्पम् एव तिरस्कर्तुम् उक्तम् इति घटते । तत्र ह्य् एवोक्तं श्रीविदुरेण—सुदुर्लभं यत् परमं पदं हरेर् इति । स्वयं श्रीध्रुवप्रियेण— ततो गन्तासि मत्स्थानं सर्वलोकनमस्कृतम् । उपरिष्टाद् ऋषिभ्यस् त्वं यतो नावर्तते गतः ॥ इति । श्रीपार्षदाभ्याम् अपि—आतिष्ठ जगतां वन्द्यं तद् विष्णोः परमं पदम् इति । श्रीसुतेन च—ध्रुवस्य वैकुण्ठपदाधिरोहणम् इति । पञ्चमे ज्योतिश्चक्रवर्णने च—विष्णोर् यत् परमं पदं प्रदक्षिणं प्रक्रामन्ति इति । यद् विष्णोः परमं पदम् अभिवदन्ति इति च । प्रपञ्चान्तर्गतत्वेऽपि तद्धर्मम् उक्तत्वं, विकारावर्ति च तथा हि स्थितिम् आह इति न्यायेन । अतोऽस्मिन् लोके प्रापञ्चिकस्य बहिरंशस्यैव प्रलयो ज्ञेयः । तस्य तु तदानीम् अन्तर्धानम् एव । एतद् आलम्ब्यैव हिरण्यकशिपुनोक्तम्—किम् अन्यैः कालनिर्धूतैः कल्पान्ते वैष्णवादिभिः इति । अतोऽद्यापि ये तथा वदन्ति, तेऽपि तत्तुल्या इति भावः । अथ श्रीमहावैकुण्ठस्य तादृशत्वं तु सुतराम् एव । यथा नानाश्रुतिपथोत्थापनेन पाद्मोत्तरखण्डेऽपि प्रकृत्यन्तर्गतविभूतिवर्णनान्तरं तादृशत्वम् अभिव्यञ्जितं श्रीशिवेन— एवं प्राकृतरूपाया विभूते रूपम् उत्तमम् । त्रिपाद्विभूतिरूपं तु शृणु भूधरनन्दिनि ॥ प्रधानपरमव्योम्नोर् अन्तरे विरजा नदी । वेदाङ्गस्वेदजनिततोयैः प्रस्राविता शुभा ॥ तस्याः पारे परव्योम त्रिपाद्भुतं सनातनम् । अमृतं शाश्वतं नित्यम् अनन्तं परमं पदम् ॥ शुद्धसत्त्वमयं दिव्यम् अक्षरं ब्रह्मणः पदम् । अनेककोटिसूर्याग्नितुल्यवर्चसम् अव्ययम् ॥ सर्ववेदमयं शुभ्रं सर्वप्रलयवर्जितम् । हिरण्मयं मोक्षपदं ब्रह्मानन्दसुखाह्वयम् ॥ समानाधिक्यरहितम् आद्यन्तरहितं शुभम् ॥ तेजसात्यद्भुतं रम्यं नित्यम् आनन्दसागरम् । एवम् आदिगुणोपेतं तद् विष्णोः परमं पदम् ॥ न तद् भासयते सूर्यो न शशाङ्को न पावकः । यद् गत्वा न निवर्तन्ते तद् धाम परमं हरेः ॥ तद् विष्णोः परमं धाम शाश्वतं नित्यम् अच्युतम् । न हि वर्णयितुं शक्यं कल्पकोटिशतैर् अपि ॥ हरेः पदं वर्णयितुं न शक्यं मया च धात्रा च मुनीन्द्रवर्यैः । यस्मिन् पदे अच्युत ईश्वरो यः सो अङ्ग वेद यदि वा न वेद ॥ यद् अक्षरं वेदगुह्यं यस्मिन् देवा अधि विश्वे निषेदुः । यस् तं न वेद किम् ऋचा करिष्यति य उ तद् विदुस् त इमे समासते ॥ तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । अक्षरं शाश्वतं नित्यं दिवीव चक्षुर् आततम् ॥ आ प्रवेष्टुम् अशक्यं तद् ब्रह्मरुद्रादिदैवतैः । ज्ञानेन शास्त्रमार्गेण वीक्ष्यते योगिपुङ्गवैः ॥ अहं ब्रह्मा च देवाश् च न जानन्ति महर्षयः । सर्वोपनिषदाम् अर्थं दृष्ट्वा वक्ष्यामि सुव्रते ॥ विष्णोः पदे परमे तु मध्य उत्सः शुभाह्वयः । यत्र गावो भूरिशृङ्गा आसते स्वसुखं प्रजाः ॥ अत्र हि तत् परं धाम गीयमानस्य शार्ङ्गिणः । तद् भाति परमं धाम गोभिर् गेयैः शुभाह्वयैः ॥ आदित्यवर्णं तमसः परस्तात् ज्योतिर् उत्तमम् । अथातो ब्रह्मणो लोकः शुद्धः स ह सनातनः ॥ सामान्यावियुते दूरे अन्तेऽस्मिन् शाश्वते पदे । तस्थतुर् जागरूकेऽस्मिन् युवानौ श्रीसनातनौ ॥ यतः स्वसारौ युवती भूलीले विष्णुवल्लभे । अत्र पूर्वे ये च साध्या विश्वदेवाः सनातनाः ॥ ते ह नाकं महिमानः सचन्तः शुभदर्शनाः । तत्पदं ज्ञानिनो विप्रा जागृवांसः समिन्धते ॥ तद् विष्णोः परमं पदं मोक्ष इत्य् अभिधीयते । तस्मिन् बन्धविनिर्मुक्ताः प्राप्यन्ते स्वसुखं पदम् ॥ यं प्राप्य न निवर्तन्ते तस्मान् मोक्स उदाहृतः । मोक्षः परं पदं लिङ्गम् अमृतं विष्णुमन्दिरम् ॥ अक्षरं परमं धाम वैकुण्ठं शाश्वतं परम् । नित्यं च परमव्योम सर्वोत्कृष्टं सनातनम् ॥ पर्यायवाचकान्य् अस्य परं धाम्नोऽच्युतस्य हि । तस्य त्रिपाद्विभूतेस् तु रूपं वक्ष्यामि विस्तरात् ॥ इत्यादि ॥ एतद्रीतिकश्रुतयो वैदिकेषु प्रायः प्रसिद्धा इति नोदाह्रियन्ते । श्रीनारदपञ्चरात्रे च श्रीब्रह्मनारदसंवादे जितंतेस्तोत्रे च— लोकं वैकुण्ठनामानं दिव्यषड्गुणसंयुतम् । अवैष्णवानाम् अप्राप्यं गुणत्रयविवर्जितम् ॥ नित्यसिद्धैः समाकीर्णं तन्मयैः पाञ्चकालिकैः । सभाप्रासादसंयुक्तं वनैश् चोपवनैः शुभम् ॥ वापीकूपतडागैश् च वृक्षषण्डैः सुमण्डितम् । अप्राकृतं सुरैर् वन्द्यम् अयुतार्कसमप्रभम् ॥ इति ॥ ब्रह्माण्डपुराणे— तम् अनन्तगुणावासं महत्तेजो दुरासदम् । अप्रत्यक्षं निरुपमं परानन्दम् अतीन्द्रियम् ॥ इति ॥ इतिहाससमुच्चये मुद्गलोपख्याने— ब्रह्मणः सदनाद् ऊर्ध्वं तद् विष्णोः परमं पदम् । शुद्धं सनातनं ज्योतिः परं ब्रह्मेति यद् विदुः ॥ निर्ममा निरहङ्कारा निर्द्वन्द्वा ये जितेन्द्रियाः । ध्यानयोगपराश् चैव तत्र गच्छन्ति साधवः ॥ येऽर्चयन्ति हरिं विष्णुं कृष्णं जिष्णुं सनातनम् । नारायणम् अजं देवं विष्वक्सेनं चतुर्भुजम् ॥ ध्यायन्ति पुरुषं दिव्यम् अच्युतं च स्मरन्ति ये । लभन्ते तेऽच्युतस्थानं श्रुतिर् एषा सनातनी ॥ इति ॥ स्कान्दे श्रीसनत्कुमारमार्कण्डेयसंवादे— यो विष्णुभक्तो विप्रेन्द्र शुद्धचक्रादिचिह्नितः । स याति विष्णुलोकं वै दाहप्रलयवर्जितम् ॥ इति । अत्र पदधामादिशब्देन स्थानवाचकेन, स्वरूपे त्व् अरूढेन यदि कश्चित् कथञ्चित् स्वरूपम् एव वाचयति, तर्ह्य् अन्यत्र तत्प्रसङ्गे तेऽभिगच्छन्ति मत्स्थानं यद् ब्रह्म परमं विदुः इत्यादौ साक्षाद् एव स्थानशब्दनिगदेन तन् निरसनीयम् । यदि तत्रापि चकाराद्यध्याहारादिदैन्येन पूर्वदर्शितेतिहाससमुच्चयस्य परं ब्रह्मेति यद् विदुर् इति विशेषणविरुद्धं वाक्यभेदम् एवाङ्गीकरोति, तर्हि स्वमते तत्र तत्रोक्तलोकशब्दः सहायीकर्तव्यः । ततश् च, पदधामस्थानलोकरूपाणां तेषां शब्दानां एकत्र वस्तुनि प्रयोगात् परस्परम् अन्यार्थं दूरीकुर्वन्तस् ते कं वा न बोधयन्ति स्वम् अर्थं, यथा भगवान् हरिर् विष्णुर् अयम् इति । अथ हन्त तत्रापि चेत् स्वरूपमात्रवाचकतां भिक्षते, तर्हि स्फुटम् एव पाद्मवैष्णवादिवचनैः विपक्षो ह्रेपणीयः । कर्माद्यप्राप्यत्वादिप्रतिपादकवाक्यानि तु विशेषतो वेत्रपाणिरूपाणि सन्त्य् एवेति वक्तव्यम् । तस्मात् ओं नमस् ते इत्य् आदिपद्यम् अपि साध्व् एव व्याख्यातम् ॥ ॥

Транслитерация (IAST)

evaṁ ca oṁ namas te'stu bhagavan ity-ādi-gadye— paramahaṁsa-parivrājakaiḥ parameṇātma-yoga-samādhinā paribhāvita-parisphuṭa-pāramahaṁsya-dharmeṇodghāṭita-tamaḥ-kapāṭa-dvāre citte'pāvṛta ātma-loke svayam upalabdha-nija-sukhānubhavo bhavān || tamaḥ prakṛtir ajñānaṁ vā | ātma-loke sva-svarūpe loke | eṣa ātma-loka eṣa brahma-lokaḥ iti | divye brahma-pure hy eṣa paramātmā pratiṣṭhitaḥ ity-ādi-śrutau | yat tat sūkṣmaṁ paramaṁ veditavyaṁ nityaṁ padaṁ vaiṣṇavam āmananti | etal lokā na vidur loka-sāraṁ vidanti tat kavayo yoga-niṣṭhāḥ || iti pippalāda-śākhāyām | pareṇa nākaṁ nihitaṁ guhāyāṁ bibhrājate yad yatayo viśanti || iti parasyām | tad vā etat paraṁ dhāma mantra-rājādhyāpakasya, yatra na duḥkhādi na sūryo bhāti, yatra na mṛtyuḥ praviśati, yatra na doṣaḥ, tad ānandaṁ śāśvataṁ śāntaṁ sadā-śivaṁ brahmādi-vanditaṁ yogi-dhyeyaṁ, yatra gatvā na nivartante yoginaḥ | tad etad ṛcābhyuktaṁ— tad viṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ divīva cakṣur ātatam | tad-viprāso vipanyavo jāgṛvāṁsaḥ samindhate | viṣṇor yat paramaṁ padam || iti śrī-nṛsiṁha-tāpanyām | na tv iyam api brahma-paratvenaiva vyākhyeyā, vanditatvena yatra gatvety anena ca tad-anaṅgīkārāt | yataḥ śrī-viṣṇu-purāṇe ca śrī-viṣṇu-lokam uddiśya ṛg iyam anusmṛtā, yathā— ūrdhvottaram ṛṣibhyas tu dhruvo yatra vyavasthitaḥ | etad viṣṇu-padaṁ divyaṁ tṛtīyaṁ vyomni bhāsvaram || nirdhūta-doṣa-paṅkānāṁ yatīnāṁ saṁyatātmanām | sthānaṁ tat paramaṁ vipra puṇya-pāpa-parikṣaye || apuṇya-puṇyoparame kṣīṇāśoṣāpti-hetavaḥ | yatra gatvā na śocanti tad viṣṇoḥ paramaṁ padam || dharmaṁ dhruvādyās tiṣṭhanti yatra te loka-sākṣiṇaḥ | tat-sārṣṭyotpanna-yoga-rddhās tad-viṣṇoḥ paramaṁ padam || yatraitad otaṁ protaṁ ca yad bhūtaṁ sa-carācaram | bhāvyaṁ ca viśvaṁ maitreya tad viṣṇoḥ paramaṁ padam || divīva cakṣur ātataṁ vitataṁ tan mahātmanām | viveka-jñāna-vṛddhaṁ ca tad viṣṇoḥ paramaṁ padam || tāpanī-śrutau ca yatra na vāyur vātī ity-ādikaṁ prākṛta-tat-tan-mātra-niṣedhātmakaṁ tatrāpi tat-tac-chravaṇāt | yat tu mātuḥ sapatnyā vāg-bāṇair hṛdi viddhas tu tān smaran | naicchan mukti-pater muktiṁ paścāt-tāpam upeyivān || iti | tathā— aho bata mamānātmyaṁ manda-bhāgyasya paśyata | bhava-cchidaḥ pāda-mūlaṁ gatvā yāce yad antavat || iti śrī-dhruvasyāpūrṇaṁ-manyatā śrūyate | tad-ucca-pada-kāmanayaiva tat-prārthitavatā tena labdha-manorathātīta-vareṇāpi sva-saṅkalpam eva tiraskartum uktam iti ghaṭate | tatra hy evoktaṁ śrī-vidureṇa—sudurlabhaṁ yat paramaṁ padaṁ harer iti | svayaṁ śrī-dhruva-priyeṇa— tato gantāsi mat-sthānaṁ sarva-loka-namaskṛtam | upariṣṭād ṛṣibhyas tvaṁ yato nāvartate gataḥ || iti | śrī-pārṣadābhyām api—ātiṣṭha jagatāṁ vandyaṁ tad viṣṇoḥ paramaṁ padam iti | śrī-sutena ca—dhruvasya vaikuṇṭha-padādhirohaṇam iti | pañcame jyotiś-cakra-varṇane ca—viṣṇor yat paramaṁ padaṁ pradakṣiṇaṁ prakrāmanti iti | yad viṣṇoḥ paramaṁ padam abhivadanti iti ca | prapañcāntargatatve'pi tad-dharmam uktatvaṁ, vikārāvarti ca tathā hi sthitim āha iti nyāyena | ato'smin loke prāpañcikasya bahir-aṁśasyaiva pralayo jñeyaḥ | tasya tu tadānīm antardhānam eva | etad ālambyaiva hiraṇyakaśipunoktam—kim anyaiḥ kāla-nirdhūtaiḥ kalpānte vaiṣṇavādibhiḥ iti | ato'dyāpi ye tathā vadanti, te'pi tat-tulyā iti bhāvaḥ | atha śrī-mahā-vaikuṇṭhasya tādṛśatvaṁ tu sutarām eva | yathā nānā-śruti-pathotthāpanena pādmottara-khaṇḍe'pi prakṛty-antargata-vibhūti-varṇanāntaraṁ tādṛśatvam abhivyañjitaṁ śrī-śivena— evaṁ prākṛta-rūpāyā vibhūte rūpam uttamam | tripād-vibhūti-rūpaṁ tu śṛṇu bhūdhara-nandini || pradhāna-parama-vyomnor antare virajā nadī | vedāṅga-sveda-janita-toyaiḥ prasrāvitā śubhā || tasyāḥ pāre para-vyoma tripād-bhutaṁ sanātanam | amṛtaṁ śāśvataṁ nityam anantaṁ paramaṁ padam || śuddha-sattva-mayaṁ divyam akṣaraṁ brahmaṇaḥ padam | aneka-koṭi-sūryāgni-tulya-varcasam avyayam || sarva-veda-mayaṁ śubhraṁ sarva-pralaya-varjitam | hiraṇmayaṁ mokṣa-padaṁ brahmānanda-sukhāhvayam || samānādhikya-rahitam ādy-anta-rahitaṁ śubham || tejasātyadbhutaṁ ramyaṁ nityam ānanda-sāgaram | evam ādi-guṇopetaṁ tad viṣṇoḥ paramaṁ padam || na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ | yad gatvā na nivartante tad dhāma paramaṁ hareḥ || tad viṣṇoḥ paramaṁ dhāma śāśvataṁ nityam acyutam | na hi varṇayituṁ śakyaṁ kalpa-koṭi-śatair api || hareḥ padaṁ varṇayituṁ na śakyaṁ mayā ca dhātrā ca munīndra-varyaiḥ | yasmin pade acyuta īśvaro yaḥ so aṅga veda yadi vā na veda || yad akṣaraṁ veda-guhyaṁ yasmin devā adhi viśve niṣeduḥ | yas taṁ na veda kim ṛcā kariṣyati ya u tad vidus ta ime samāsate || tad viṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ | akṣaraṁ śāśvataṁ nityaṁ divīva cakṣur ātatam || ā praveṣṭum aśakyaṁ tad brahma-rudrādi-daivataiḥ | jñānena śāstra-mārgeṇa vīkṣyate yogi-puṅgavaiḥ || ahaṁ brahmā ca devāś ca na jānanti maharṣayaḥ | sarvopaniṣadām arthaṁ dṛṣṭvā vakṣyāmi suvrate || viṣṇoḥ pade parame tu madhya utsaḥ śubhāhvayaḥ | yatra gāvo bhūri-śṛṅgā āsate sva-sukhaṁ prajāḥ || atra hi tat paraṁ dhāma gīyamānasya śārṅgiṇaḥ | tad bhāti paramaṁ dhāma gobhir geyaiḥ śubhāhvayaiḥ || āditya-varṇaṁ tamasaḥ parastāt jyotir uttamam | athāto brahmaṇo lokaḥ śuddhaḥ sa ha sanātanaḥ || sāmānyāviyute dūre ante'smin śāśvate pade | tasthatur jāgarūke'smin yuvānau śrī-sanātanau || yataḥ svasārau yuvatī bhū-līle viṣṇu-vallabhe | atra pūrve ye ca sādhyā viśva-devāḥ sanātanāḥ || te ha nākaṁ mahimānaḥ sacantaḥ śubha-darśanāḥ | tat-padaṁ jñānino viprā jāgṛvāṁsaḥ samindhate || tad viṣṇoḥ paramaṁ padaṁ mokṣa ity abhidhīyate | tasmin bandha-vinirmuktāḥ prāpyante sva-sukhaṁ padam || yaṁ prāpya na nivartante tasmān moksa udāhṛtaḥ | mokṣaḥ paraṁ padaṁ liṅgam amṛtaṁ viṣṇu-mandiram || akṣaraṁ paramaṁ dhāma vaikuṇṭhaṁ śāśvataṁ param | nityaṁ ca parama-vyoma sarvotkṛṣṭaṁ sanātanam || paryāya-vācakāny asya paraṁ dhāmno'cyutasya hi | tasya tripād-vibhūtes tu rūpaṁ vakṣyāmi vistarāt || ity-ādi || etad-rītika-śrutayo vaidikeṣu prāyaḥ prasiddhā iti nodāhriyante | śrī-nārada-pañcarātre ca śrī-brahma-nārada-saṁvāde jitaṁ-te-stotre ca— lokaṁ vaikuṇṭha-nāmānaṁ divya-ṣaḍ-guṇa-saṁyutam | avaiṣṇavānām aprāpyaṁ guṇa-traya-vivarjitam || nitya-siddhaiḥ samākīrṇaṁ tan-mayaiḥ pāñca-kālikaiḥ | sabhā-prāsāda-saṁyuktaṁ vanaiś copavanaiḥ śubham || vāpī-kūpa-taḍāgaiś ca vṛkṣa-ṣaṇḍaiḥ sumaṇḍitam | aprākṛtaṁ surair vandyam ayutārka-sama-prabham || iti || brahmāṇḍa-purāṇe— tam ananta-guṇāvāsaṁ mahat-tejo durāsadam | apratyakṣaṁ nirupamaṁ parānandam atīndriyam || iti || itihāsa-samuccaye mudgalopakhyāne— brahmaṇaḥ sadanād ūrdhvaṁ tad viṣṇoḥ paramaṁ padam | śuddhaṁ sanātanaṁ jyotiḥ paraṁ brahmeti yad viduḥ || nirmamā nirahaṅkārā nirdvandvā ye jitendriyāḥ | dhyāna-yoga-parāś caiva tatra gacchanti sādhavaḥ || ye'rcayanti hariṁ viṣṇuṁ kṛṣṇaṁ jiṣṇuṁ sanātanam | nārāyaṇam ajaṁ devaṁ viṣvaksenaṁ caturbhujam || dhyāyanti puruṣaṁ divyam acyutaṁ ca smaranti ye | labhante te'cyuta-sthānaṁ śrutir eṣā sanātanī || iti || skānde śrī-sanat-kumāra-mārkaṇḍeya-saṁvāde— yo viṣṇu-bhakto viprendra śuddha-cakrādi-cihnitaḥ | sa yāti viṣṇu-lokaṁ vai dāha-pralaya-varjitam || iti | atra pada-dhāmādi-śabdena sthāna-vācakena, svarūpe tv arūḍhena yadi kaścit kathañcit svarūpam eva vācayati, tarhy anyatra tat-prasaṅge te'bhigacchanti mat-sthānaṁ yad brahma paramaṁ viduḥ ity-ādau sākṣād eva sthāna-śabda-nigadena tan nirasanīyam | yadi tatrāpi ca-kārādy-adhyāhārādi-dainyena pūrva-darśitetihāsa-samuccayasya paraṁ brahmeti yad vidur iti viśeṣaṇa-viruddhaṁ vākya-bhedam evāṅgīkaroti, tarhi sva-mate tatra tatrokta-loka-śabdaḥ sahāyī-kartavyaḥ | tataś ca, pada-dhāma-sthāna-loka-rūpāṇāṁ teṣāṁ śabdānāṁ ekatra vastuni prayogāt parasparam anyārthaṁ dūrīkurvantas te kaṁ vā na bodhayanti svam arthaṁ, yathā bhagavān harir viṣṇur ayam iti | atha hanta tatrāpi cet svarūpa-mātra-vācakatāṁ bhikṣate, tarhi sphuṭam eva pādma-vaiṣṇavādi-vacanaiḥ vipakṣo hrepaṇīyaḥ | karmādy-aprāpyatvādi-pratipādaka-vākyāni tu viśeṣato vetra-pāṇi-rūpāṇi santy eveti vaktavyam | tasmāt oṁ namas te ity ādi-padyam api sādhv eva vyākhyātam || ||

Пословный перевод
СанскритIASTЗначение
एवंevaṁтак
चcaи
ओंoṁ«ом
नमस्namasпоклон
तेऽस्तुte'stuТебе да будет
भगवन्bhagavanо Бхагаван»
इत्य्ityтак
आदिādiи далее
गद्येgadyeв прозе
परमहंसparamahaṁsaпарамахамсами-
परिव्राजकैःparivrājakaiḥстранниками
परमेणात्मparameṇātmaвысшим, себя
योगyogaсопряжения
समाधिनाsamādhināсамадхи
परिभावितparibhāvitaвзращённым
परिस्फुटparisphuṭaвполне явным
पारमहंस्यpāramahaṁsyaпарамахамсы
धर्मेणोद्घाटितdharmeṇodghāṭitaсвойством отворены
तमःtamaḥтьмы
कपाटkapāṭaстворки
द्वारेdvāreу двери
चित्तेऽपावृतcitte'pāvṛtaв сердце, в незакрытом
आत्मātmaсебя
लोकेlokeмире
स्वयम्svayamсам
उपलब्धupalabdhaобретённое
निजnijaсобственного
सुखानुभवोsukhānubhavoсчастья переживание имеющий
भवान्bhavānТы»
तमःtamaḥ«тьма» —
प्रकृतिर्prakṛtirприрода
अज्ञानंajñānaṁневедение
वाvāили
आत्मātma«в мире
लोकेlokeсебя» —
स्वsvaв собственном
स्वरूपेsvarūpeоблике
लोकेlokeмире
एषeṣa«этот
आत्मātmaсебя
लोकlokaмир
एषeṣaэтот
ब्रह्मbrahmaБрахмана
लोकःlokaḥмир»
इतिitiтак
दिव्येdivye«в дивном
ब्रह्मbrahmaБрахмана
पुरेpureграде
ह्य्hyведь
एषeṣaэтот
परमात्माparamātmāВысший Дух
प्रतिष्ठितःpratiṣṭhitaḥутверждён»
इत्य्ityтак
आदिādiи далее
श्रुतौśrutauв шрути
यत्yat«что
तत्tatто
सूक्ष्मंsūkṣmaṁтонкое
परमंparamaṁвысшее
वेदितव्यंveditavyaṁпознаваемое
नित्यंnityaṁвечной
पदंpadaṁобителью
वैष्णवम्vaiṣṇavamвишнуиской
आमनन्तिāmanantiсчитают
एतल्etalэтого
लोकाlokāлюди
नnaне
विदुर्vidurзнают
लोकlokaмира
सारंsāraṁсуть
विदन्तिvidantiзнают
तत्tatту
कवयोkavayoмудрецы
योगyogaв йоге
निष्ठाःniṣṭhāḥстоящие»
इतिitiтак
पिप्पलादpippalādaПиппалады
शाखायाम्śākhāyāmв ветви
परेणpareṇa«выше
नाकंnākaṁнеба
निहितंnihitaṁположено
गुहायांguhāyāṁв тайнике
बिभ्राजतेbibhrājateсияет
यद्yadкоторое
यतयोyatayoподвижники
विशन्तिviśantiвходят»
इतिitiтак
परस्याम्parasyāmв иной
तद्tad«то
वाvāже
एतत्etatэто
परंparaṁвысшая
धामdhāmaобитель
मन्त्रmantraмантр
राजाध्यापकस्यrājādhyāpakasyaцаря учителя
यत्रyatraгде
नnaнет
दुःखादिduḥkhādiстрадания и прочего
नnaне
सूर्योsūryoсолнце
भातिbhātiсветит
यत्रyatraгде
नnaне
मृत्युःmṛtyuḥсмерть
प्रविशतिpraviśatiвходит
यत्रyatraгде
नnaнет
दोषःdoṣaḥизъяна
तद्tadто
आनन्दंānandaṁблаженство
शाश्वतंśāśvataṁпостоянное
शान्तंśāntaṁумиротворённое
सदाsadāвсегда
शिवंśivaṁблагое
ब्रह्मादिbrahmādiБрахмою и прочими
वन्दितंvanditaṁчтимое
योगिyogiйогами
ध्येयंdhyeyaṁсозерцаемое
यत्रyatraкуда
गत्वाgatvāпридя
नnaне
निवर्तन्तेnivartanteвозвращаются
योगिनःyoginaḥйоги
तद्tadто
एतद्etadэто
ऋचाभ्युक्तंṛcābhyuktaṁриком высказано
तद्tad«то
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदंpadaṁобитель
सदाsadāвсегда
पश्यन्तिpaśyantiвидят
सूरयःsūrayaḥмудрые
दिवीवdivīvaкак в небе
चक्षुर्cakṣurоко
आततम्ātatamпростёртое
तद्tadту
विप्रासोviprāsoбрахманы
विपन्यवोvipanyavoвосхваляющие
जागृवांसःjāgṛvāṁsaḥбодрствующие
समिन्धतेsamindhateвозжигают
विष्णोर्viṣṇorВишну
यत्yatкоторая
परमंparamaṁвысшая
पदम्padamобитель»»
इतिitiтак
श्रीśrīв прекрасной
नृसिंहnṛsiṁha«Нрисимха-
तापन्याम्tāpanyāmтапани»
नnaне
त्व्tvже
इयम्iyamэта
अपिapiи
ब्रह्मbrahmaо Брахмане
परत्वेनैवparatvenaivaречь ведущею именно
व्याख्येयाvyākhyeyāдолжна толковаться
वन्दितत्वेनvanditatvenaчтимостью
यत्रyatra«куда
गत्वेत्य्gatvetyпридя» — так
अनेनanenaэтим
चcaи
तद्tadтого
अनङ्गीकारात्anaṅgīkārātнепринятием
यतःyataḥибо
श्रीśrīв прекрасной
विष्णुviṣṇu«Вишну-
पुराणेpurāṇeпуране»
चcaи
श्रीśrīпрекрасный
विष्णुviṣṇuВишну-
लोकम्lokamмир
उद्दिश्यuddiśyaимея в виду
ऋग्ṛgрик
इयम्iyamэтот
अनुस्मृताanusmṛtāприведён
यथाyathāкак
ऊर्ध्वोत्तरम्ūrdhvottaram«выше и выше
ऋषिभ्यस्ṛṣibhyasриши
तुtuже
ध्रुवोdhruvoДхрува
यत्रyatraгде
व्यवस्थितःvyavasthitaḥутверждён
एतद्etadэта
विष्णुviṣṇuВишну
पदंpadaṁобитель
दिव्यंdivyaṁдивная
तृतीयंtṛtīyaṁтретья
व्योम्निvyomniв небе
भास्वरम्bhāsvaramсияющая
निर्धूतnirdhūtaстряхнувших
दोषdoṣaизъянов
पङ्कानांpaṅkānāṁгрязь
यतीनांyatīnāṁподвижников
संयतात्मनाम्saṁyatātmanāmобуздавших себя
स्थानंsthānaṁобитель
तत्tatта
परमंparamaṁвысшая
विप्रvipraо брахман
पुण्यpuṇyaзаслуги
पापpāpaи греха
परिक्षयेparikṣayeпри истощении
अपुण्यapuṇyaнезаслуги
पुण्योपरमेpuṇyoparameи заслуги при прекращении
क्षीणाशोषाप्तिkṣīṇāśoṣāptiиссякшие, скорби и жажды
हेतवःhetavaḥпричины у кого
यत्रyatraкуда
गत्वाgatvāпридя
नnaне
शोचन्तिśocantiскорбят
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदम्padamобитель
धर्मंdharmaṁзакон
ध्रुवाद्यास्dhruvādyāsДхрува и прочие
तिष्ठन्तिtiṣṭhantiблюдут
यत्रyatraгде
तेteте
लोकlokaмира
साक्षिणःsākṣiṇaḥсвидетели
तत्tatс Ним
सार्ष्ट्योत्पन्नsārṣṭyotpannaравенством рождённым
योगyogaйоги
र्द्धास्rddhāsдостатком
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदम्padamобитель
यत्रैतद्yatraitadгде это
ओतंotaṁвдоль
प्रोतंprotaṁи поперёк
चcaи
यद्yadчто
भूतंbhūtaṁбыло
सsaс
चराचरम्carācaramдвижущимся и недвижным
भाव्यंbhāvyaṁбудет
चcaи
विश्वंviśvaṁвселенная
मैत्रेयmaitreyaо Майтрея
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदम्padamобитель
दिवीवdivīva«как в небе
चक्षुर्cakṣurоко
आततंātataṁпростёртое» —
विततंvitataṁраспростёрта
तन्tanта
महात्मनाम्mahātmanāmдля великих душ
विवेकvivekaразличения
ज्ञानjñānaзнанием
वृद्धंvṛddhaṁвозросшая
चcaи
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदम्padamобитель»
तापनीtāpanīв «Тапани-
श्रुतौśrutauшрути»
चcaи
यत्रyatra«где
नnaне
वायुर्vāyurветер
वातीvātīвеет»
इत्य्ityтак
आदिकंādikaṁи прочее
प्राकृतprākṛtaвещественного
तत्tatтого
तन्tanи того
मात्रmātraлишь
निषेधात्मकंniṣedhātmakaṁотрицание собою имеющее
तत्रापिtatrāpiи там
तत्tatтого
तच्tacи того
छ्रवणात्chravaṇātслышанием
यत्yatчто
तुtuже
मातुःmātuḥ«матери
सपत्न्याsapatnyāсоперницы
वाग्vāgречи
बाणैर्bāṇairстрелами
हृदिhṛdiв сердце
विद्धस्viddhasпронзён
तुtuже
तान्tānих
स्मरन्smaranпомня
नैच्छन्naicchanне желал
मुक्तिmuktiосвобождения
पतेर्paterвладыки
मुक्तिंmuktiṁосвобождения
पश्चात्paścātпосле
तापम्tāpamжар
उपेयिवान्upeyivānобрёл»
इतिitiтак
तथाtathāтак же
अहोaho«о
बतbataувы
ममानात्म्यंmamānātmyaṁмоё бессилие
मन्दmandaскудной
भाग्यस्यbhāgyasyaдоли
पश्यतpaśyataсмотрите
भवbhavaбытие
च्छिदःcchidaḥрассекающего
पादpādaстоп
मूलंmūlaṁподножия
गत्वाgatvāдостигнув
याचेyāceпрошу
यद्yadчто
अन्तवत्antavatконечно»
इतिitiтак
श्रीśrīпрекрасного
ध्रुवस्यापूर्णंdhruvasyāpūrṇaṁДхрувы «неполно»
मन्यताmanyatāсчитание
श्रूयतेśrūyateслышится
तद्tadтой
उच्चuccaвысокой
पदpadaобители
कामनयैवkāmanayaivaжеланием именно
तत्tatтого
प्रार्थितवताprārthitavatāпросившим
तेनtenaим
लब्धlabdhaобретшим
मनोरथातीतmanorathātītaжелание превзошедший
वरेणापिvareṇāpiи дар
स्वsvaсвоё
सङ्कल्पम्saṅkalpamнамерение
एवevaименно
तिरस्कर्तुम्tiraskartumотвергнуть
उक्तम्uktamсказано
इतिitiтак
घटतेghaṭateскладывается
तत्रtatraтам
ह्य्hyведь
एवोक्तंevoktaṁименно сказано
श्रीśrīпрекрасным
विदुरेणvidureṇaВидурой
सुदुर्लभंsudurlabhaṁ«крайне труднодостижима
यत्yatкоторая
परमंparamaṁвысшая
पदंpadaṁобитель
हरेर्harerХари»
इतिitiтак
स्वयंsvayaṁСамим
श्रीśrīпрекрасного
ध्रुवdhruvaДхрувы
प्रियेणpriyeṇaМилым
ततोtato«затем
गन्तासिgantāsiпойдёшь
मत्matв Мою
स्थानंsthānaṁобитель
सर्वsarvaвсеми
लोकlokaмирами
नमस्कृतम्namaskṛtamчтимую
उपरिष्टाद्upariṣṭādвыше
ऋषिभ्यस्ṛṣibhyasриши
त्वंtvaṁты
यतोyatoоткуда
नावर्ततेnāvartateне возвращается
गतःgataḥушедший»
इतिitiтак
श्रीśrīпрекрасными
पार्षदाभ्याम्pārṣadābhyāmдвумя спутниками
अपिapiи
आतिष्ठātiṣṭha«взойди
जगतांjagatāṁмирами
वन्द्यंvandyaṁчтимую
तद्tadту
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшую
पदम्padamобитель»
इतिitiтак
श्रीśrīпрекрасным
सुतेनsutenaСутой
चcaи
ध्रुवस्यdhruvasya«Дхрувы
वैकुण्ठvaikuṇṭhaВайкунтха-
पदाधिरोहणम्padādhirohaṇamобители восхождение»
इतिitiтак
पञ्चमेpañcameв пятой
ज्योतिश्jyotiśсветил
चक्रcakraкруга
वर्णनेvarṇaneпри описании
चcaи
विष्णोर्viṣṇor«Вишну
यत्yatкоторую
परमंparamaṁвысшую
पदंpadaṁобитель
प्रदक्षिणंpradakṣiṇaṁпо правую руку
प्रक्रामन्तिprakrāmantiобходят»
इतिitiтак
यद्yad«которую
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшей
पदम्padamобителью
अभिवदन्तिabhivadantiназывают»
इतिitiтак
चcaи
प्रपञ्चान्तर्गतत्वेऽपिprapañcāntargatatve'piи при вхождении в проявленный мир
तद्tadего
धर्मम्dharmamсвойство
उक्तत्वंuktatvaṁсказанность
विकारावर्तिvikārāvarti«изменению непричастный»
चcaи
तथाtathā«так
हिhiведь
स्थितिम्sthitimпребывание
आहāhaговорит»
इतिitiтак
न्यायेनnyāyenaправилом
अतोऽस्मिन्ato'sminпотому в этом
लोकेlokeмире
प्रापञ्चिकस्यprāpañcikasyaмирской
बहिर्bahirвнешней
अंशस्यैवaṁśasyaivaчасти именно
प्रलयोpralayoуничтожение
ज्ञेयःjñeyaḥдолжно знать
तस्यtasyaу него
तुtuже
तदानीम्tadānīmтогда
अन्तर्धानम्antardhānamсокрытие
एवevaименно
एतद्etadна это
आलम्ब्यैवālambyaivaопершись именно
हिरण्यकशिपुनोक्तम्hiraṇyakaśipunoktamХираньякашипу сказано
किम्kim«что
अन्यैःanyaiḥиными
कालkālaвременем
निर्धूतैःnirdhūtaiḥстряхнутыми
कल्पान्तेkalpānteв конце кальпы
वैष्णवादिभिःvaiṣṇavādibhiḥвайшнавами и прочими»
इतिitiтак
अतोऽद्यापिato'dyāpiпотому и ныне
येyeкоторые
तथाtathāтак
वदन्तिvadantiговорят
तेऽपिte'piи те
तत्tatему
तुल्याtulyāравны
इतिitiтаков
भावःbhāvaḥсмысл
अथathaтеперь
श्रीśrīпрекрасной
महाmahāМаха-
वैकुण्ठस्यvaikuṇṭhasyaВайкунтхи
तादृशत्वंtādṛśatvaṁтаковость
तुtuже
सुतराम्sutarāmтем более
एवevaименно
यथाyathāкак
नानाnānāразных
श्रुतिśrutiшрути
पथोत्थापनेनpathotthāpanenaпутей приведением
पाद्मोत्तरpādmottara«Падмы» последней
खण्डेऽपिkhaṇḍe'piи в части
प्रकृत्य्prakṛtyприроды
अन्तर्गतantargataвнутрь входящих
विभूतिvibhūtiпроявлений
वर्णनान्तरंvarṇanāntaraṁописания после
तादृशत्वम्tādṛśatvamтаковость
अभिव्यञ्जितंabhivyañjitaṁвыражена
श्रीśrīпрекрасным
शिवेनśivenaШивой
एवंevaṁ«так
प्राकृतprākṛtaвещественный
रूपायाrūpāyāоблик имеющего
विभूतेvibhūteпроявления
रूपम्rūpamоблик
उत्तमम्uttamamвысший
त्रिपाद्tripādтрёхчетвертного
विभूतिvibhūtiпроявления
रूपंrūpaṁоблик
तुtuже
शृणुśṛṇuслушай
भूधरbhūdharaГоры
नन्दिनिnandiniдочь
प्रधानpradhānaпрадханы
परमparamaи высшего
व्योम्नोर्vyomnorнеба
अन्तरेantareмежду
विरजाvirajāВираджа
नदीnadīрека
वेदाङ्गvedāṅgaвед членов
स्वेदsvedaпотом
जनितjanitaрождёнными
तोयैःtoyaiḥводами
प्रस्राविताprasrāvitāструящаяся
शुभाśubhāблагая
तस्याःtasyāḥеё
पारेpāreна берегу
परparaвысшее
व्योमvyomaнебо
त्रिपाद्tripādтрёхчетвертное
भुतंbhutaṁсущее
सनातनम्sanātanamвечное
अमृतंamṛtaṁбессмертное
शाश्वतंśāśvataṁпостоянное
नित्यम्nityamвечное
अनन्तंanantaṁбесконечное
परमंparamaṁвысшая
पदम्padamобитель
शुद्धśuddhaчистой
सत्त्वsattvaсаттвы
मयंmayaṁсостоящая из
दिव्यम्divyamдивная
अक्षरंakṣaraṁнетленная
ब्रह्मणःbrahmaṇaḥБрахмана
पदम्padamобитель
अनेकanekaмногих
कोटिkoṭiкрор
सूर्याग्निsūryāgniсолнц и огней
तुल्यtulyaравное
वर्चसम्varcasamсияние имеющая
अव्ययम्avyayamнетленная
सर्वsarvaвсех
वेदvedaвед
मयंmayaṁсостоящая из
शुभ्रंśubhraṁсветлая
सर्वsarvaвсякого
प्रलयpralayaуничтожения
वर्जितम्varjitamлишённая
हिरण्मयंhiraṇmayaṁзлатая
मोक्षmokṣaосвобождения
पदंpadaṁобитель
ब्रह्मानन्दbrahmānandaБрахмана блаженства
सुखाह्वयम्sukhāhvayamсчастьем именуемая
समानाधिक्यsamānādhikyaравного и превосходящего
रहितम्rahitamлишённая
आद्य्ādyначала
अन्तantaи конца
रहितंrahitaṁлишённая
शुभम्śubhamблагая
तेजसात्यद्भुतंtejasātyadbhutaṁсиянием крайне дивная
रम्यंramyaṁотрадная
नित्यम्nityamвечное
आनन्दānandaблаженства
सागरम्sāgaramморе
एवम्evamтак
आदिādiи прочими
गुणोपेतंguṇopetaṁсвойствами наделённая
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदम्padamобитель
नnaне
तद्tadту
भासयतेbhāsayateосвещает
सूर्योsūryoсолнце
नnaне
शशाङ्कोśaśāṅkoлуна
नnaне
पावकःpāvakaḥогонь
यद्yadкуда
गत्वाgatvāпридя
नnaне
निवर्तन्तेnivartanteвозвращаются
तद्tadта
धामdhāmaобитель
परमंparamaṁвысшая
हरेःhareḥХари
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
धामdhāmaобитель
शाश्वतंśāśvataṁпостоянная
नित्यम्nityamвечная
अच्युतम्acyutamнепреходящая
नnaне
हिhiведь
वर्णयितुंvarṇayituṁописать
शक्यंśakyaṁможно
कल्पkalpaкальп
कोटिkoṭiкрор
शतैर्śatairсотнями
अपिapiи
हरेःhareḥХари
पदंpadaṁобитель
वर्णयितुंvarṇayituṁописать
नnaне
शक्यंśakyaṁможно
मयाmayāмною
चcaи
धात्राdhātrāТворцом
चcaи
मुनीन्द्रmunīndraмудрецов владык
वर्यैःvaryaiḥлучшими
यस्मिन्yasminв которой
पदेpadeобители
अच्युतacyutaАчьюта
ईश्वरोīśvaroВладыка
यःyaḥкоторый
सोsoтот
अङ्गaṅgaо
वेदvedaзнает
यदिyadiесли
वाvāили
नnaне
वेदvedaзнает
यद्yadкоторая
अक्षरंakṣaraṁнетленная
वेदvedaведе
गुह्यंguhyaṁтайная
यस्मिन्yasminв которой
देवाdevāбоги
अधिadhiнад
विश्वेviśveвсе
निषेदुःniṣeduḥвоссели
यस्yasкто
तंtaṁеё
नnaне
वेदvedaзнает
किम्kimчто
ऋचाṛcāриком
करिष्यतिkariṣyatiсделает
यyaкоторые
उuже
तद्tadеё
विदुस्vidusзнают
तtaте
इमेimeэти
समासतेsamāsateвосседают
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदंpadaṁобитель
सदाsadāвсегда
पश्यन्तिpaśyantiвидят
सूरयःsūrayaḥмудрые
अक्षरंakṣaraṁнетленная
शाश्वतंśāśvataṁпостоянная
नित्यंnityaṁвечная
दिवीवdivīvaкак в небе
चक्षुर्cakṣurоко
आततम्ātatamпростёртая
आāвовсе
प्रवेष्टुम्praveṣṭumвойти
अशक्यंaśakyaṁневозможно
तद्tadв неё
ब्रह्मbrahmaБрахме
रुद्रादिrudrādiРудре и прочим
दैवतैःdaivataiḥбожествам
ज्ञानेनjñānenaзнанием
शास्त्रśāstraписания
मार्गेणmārgeṇaпутём
वीक्ष्यतेvīkṣyateвидима
योगिyogiйогов
पुङ्गवैःpuṅgavaiḥбыками
अहंahaṁя
ब्रह्माbrahmāБрахма
चcaи
देवाश्devāśбоги
चcaи
नnaне
जानन्तिjānantiзнают
महर्षयःmaharṣayaḥвеликие риши
सर्वोपनिषदाम्sarvopaniṣadāmвсех упанишад
अर्थंarthaṁсмысл
दृष्ट्वाdṛṣṭvāувидев
वक्ष्यामिvakṣyāmiскажу
सुव्रतेsuvrateо благообетная
विष्णोःviṣṇoḥВишну
पदेpadeв обители
परमेparameвысшей
तुtuже
मध्यmadhyaпосреди
उत्सःutsaḥисточник
शुभाह्वयःśubhāhvayaḥблагим именуемый
यत्रyatraгде
गावोgāvoкоровы
भूरिbhūriобильные
शृङ्गाśṛṅgāрога имеющие
आसतेāsateпребывают
स्वsvaсвоим
सुखंsukhaṁсчастьем
प्रजाःprajāḥпотомство
अत्रatraздесь
हिhiведь
तत्tatта
परंparaṁвысшая
धामdhāmaобитель
गीयमानस्यgīyamānasyaвоспеваемого
शार्ङ्गिणःśārṅgiṇaḥШарнгина
तद्tadта
भातिbhātiсияет
परमंparamaṁвысшая
धामdhāmaобитель
गोभिर्gobhirкоровами
गेयैःgeyaiḥвоспеваемыми
शुभाह्वयैःśubhāhvayaiḥблагим именуемыми
आदित्यādityaсолнца
वर्णंvarṇaṁцвет имеющее
तमसःtamasaḥтьмы
परस्तात्parastātвыше
ज्योतिर्jyotirсвет
उत्तमम्uttamamвысший
अथातोathātoа затем
ब्रह्मणोbrahmaṇoБрахмана
लोकःlokaḥмир
शुद्धःśuddhaḥчистый
सsaон
हhaведь
सनातनःsanātanaḥвечен
सामान्यावियुतेsāmānyāviyuteот общего неотделённой
दूरेdūreдалёкой
अन्तेऽस्मिन्ante'sminна краю, в этой
शाश्वतेśāśvateпостоянной
पदेpadeобители
तस्थतुर्tasthaturпребывали
जागरूकेऽस्मिन्jāgarūke'sminбодрствующие, в этой
युवानौyuvānauюные
श्रीśrīпрекрасные
सनातनौsanātanauвечные
यतःyataḥибо
स्वसारौsvasārauдве сестры
युवतीyuvatīюные
भूbhūБху
लीलेlīleи Лила
विष्णुviṣṇuВишну
वल्लभेvallabheмилые
अत्रatraздесь
पूर्वेpūrveпрежние
येyeкоторые
चcaи
साध्याsādhyāсадхьи
विश्वviśvaвишве-
देवाःdevāḥдевы
सनातनाःsanātanāḥвечные
तेteте
हhaведь
नाकंnākaṁнеба
महिमानःmahimānaḥвеличия
सचन्तःsacantaḥдостигающие
शुभśubhaблагой
दर्शनाःdarśanāḥвид имеющие
तत्tatту
पदंpadaṁобитель
ज्ञानिनोjñāninoзнающие
विप्राviprāбрахманы
जागृवांसःjāgṛvāṁsaḥбодрствующие
समिन्धतेsamindhateвозжигают
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदंpadaṁобитель
मोक्षmokṣa«освобождением»
इत्य्ityтак
अभिधीयतेabhidhīyateименуется
तस्मिन्tasminв неё
बन्धbandhaот уз
विनिर्मुक्ताःvinirmuktāḥосвобождённые
प्राप्यन्तेprāpyanteприводимы
स्वsvaсвоего
सुखंsukhaṁсчастья
पदम्padamв обитель
यंyaṁкоторую
प्राप्यprāpyaдостигнув
नnaне
निवर्तन्तेnivartanteвозвращаются
तस्मान्tasmānпотому
मोक्सmoksa«мокша»
उदाहृतःudāhṛtaḥназвана
मोक्षःmokṣaḥ«мокша»
परंparaṁ«высшая
पदंpadaṁобитель»
लिङ्गम्liṅgam«признак»
अमृतंamṛtaṁ«бессмертное»
विष्णुviṣṇu«Вишну
मन्दिरम्mandiramхрам»
अक्षरंakṣaraṁ«нетленное»
परमंparamaṁ«высшая
धामdhāmaобитель»
वैकुण्ठंvaikuṇṭhaṁ«Вайкунтха»
शाश्वतंśāśvataṁ«постоянное»
परम्param«высшее»
नित्यंnityaṁ«вечное»
चcaи
परमparama«высшее
व्योमvyomaнебо»
सर्वोत्कृष्टंsarvotkṛṣṭaṁ«всего превосходнее»
सनातनम्sanātanam«вечное» —
पर्यायparyāyaсинонимы
वाचकान्य्vācakānyназывающие
अस्यasyaэтой
परंparaṁвысшей
धाम्नोऽच्युतस्यdhāmno'cyutasyaобители Ачьюты
हिhiведь
तस्यtasyaтого
त्रिपाद्tripādтрёхчетвертного
विभूतेस्vibhūtesпроявления
तुtuже
रूपंrūpaṁоблик
वक्ष्यामिvakṣyāmiскажу
विस्तरात्vistarātподробно»
इत्य्ityтак
आदिādiи далее
एतद्etadэтого
रीतिकrītikaрода
श्रुतयोśrutayoшрути
वैदिकेषुvaidikeṣuсреди ведических
प्रायःprāyaḥбольшею частью
प्रसिद्धाprasiddhāизвестны
इतिitiтак
नोदाह्रियन्तेnodāhriyanteне приводятся
श्रीśrīв прекрасной
नारदnārada«Нарада-
पञ्चरात्रेpañcarātreпанчаратре»
चcaи
श्रीśrīпрекрасных
ब्रह्मbrahmaБрахмы
नारदnāradaи Нарады
संवादेsaṁvādeв беседе
जितंjitaṁ«победа
तेteТебе»
स्तोत्रेstotreв гимне
चcaи
लोकंlokaṁ«мир
वैकुण्ठvaikuṇṭha«Вайкунтхой»
नामानंnāmānaṁименуемый
दिव्यdivyaдивными
षड्ṣaḍшестью
गुणguṇaсвойствами
संयुतम्saṁyutamнаделённый
अवैष्णवानाम्avaiṣṇavānāmневайшнавам
अप्राप्यंaprāpyaṁнедостижимый
गुणguṇaсвойств
त्रयtrayaтрёх
विवर्जितम्vivarjitamлишённый
नित्यnityaвечно
सिद्धैःsiddhaiḥсовершенными
समाकीर्णंsamākīrṇaṁнаполненный
तन्tanиз него
मयैःmayaiḥсостоящими
पाञ्चpāñcaпяти-
कालिकैःkālikaiḥвременными
सभाsabhāзалами
प्रासादprāsādaи дворцами
संयुक्तंsaṁyuktaṁснабжённый
वनैश्vanaiśлесами
चोपवनैःcopavanaiḥи рощами
शुभम्śubhamблагой
वापीvāpīпрудами
कूपkūpaколодцами
तडागैश्taḍāgaiśводоёмами
चcaи
वृक्षvṛkṣaдеревьев
षण्डैःṣaṇḍaiḥкупами
सुमण्डितम्sumaṇḍitamукрашенный
अप्राकृतंaprākṛtaṁневещественный
सुरैर्surairбогами
वन्द्यम्vandyamчтимый
अयुतार्कayutārkaдесяти тысячам солнц
समsamaравное
प्रभम्prabhamсиянье имеющий»
इतिitiтак
ब्रह्माण्डbrahmāṇḍaв «Брахманда-
पुराणेpurāṇeпуране»
तम्tam«ту
अनन्तanantaбесконечных
गुणावासंguṇāvāsaṁсвойств обитель
महत्mahatвеликое
तेजोtejoсиянье
दुरासदम्durāsadamнеприступное
अप्रत्यक्षंapratyakṣaṁнезримое
निरुपमंnirupamaṁнесравненное
परानन्दम्parānandamвысшее блаженство
अतीन्द्रियम्atīndriyamчувства превзошедшее»
इतिitiтак
इतिहासitihāsaв «Итихаса-
समुच्चयेsamuccayeсамуччае»
मुद्गलोपख्यानेmudgalopakhyāneв сказании о Мудгале
ब्रह्मणःbrahmaṇaḥ«Брахмы
सदनाद्sadanādобители
ऊर्ध्वंūrdhvaṁвыше
तद्tadта
विष्णोःviṣṇoḥВишну
परमंparamaṁвысшая
पदम्padamобитель
शुद्धंśuddhaṁчистый
सनातनंsanātanaṁвечный
ज्योतिःjyotiḥсвет
परंparaṁвысшим
ब्रह्मेतिbrahmetiБрахманом — так
यद्yadкоторый
विदुःviduḥзнают
निर्ममाnirmamā«моего» лишённые
निरहङ्काराnirahaṅkārā«я» лишённые
निर्द्वन्द्वाnirdvandvāдвойственности лишённые
येyeкоторые
जितेन्द्रियाःjitendriyāḥчувства победившие
ध्यानdhyānaсозерцания
योगyogaсопряжению
पराश्parāśпреданные
चैवcaivaи именно
तत्रtatraтуда
गच्छन्तिgacchantiидут
साधवःsādhavaḥправедные
येऽर्चयन्तिye'rcayantiкоторые чтут
हरिंhariṁХари
विष्णुंviṣṇuṁВишну
कृष्णंkṛṣṇaṁКришну
जिष्णुंjiṣṇuṁДжишну
सनातनम्sanātanamвечного
नारायणम्nārāyaṇamНараяну
अजंajaṁнерождённого
देवंdevaṁбога
विष्वक्सेनंviṣvaksenaṁВишваксену
चतुर्भुजम्caturbhujamчетырёхрукого
ध्यायन्तिdhyāyantiсозерцают
पुरुषंpuruṣaṁПурушу
दिव्यम्divyamдивного
अच्युतंacyutaṁАчьюту
चcaи
स्मरन्तिsmarantiпомнят
येyeкоторые
लभन्तेlabhanteобретают
तेऽच्युतte'cyutaте Ачьюты
स्थानंsthānaṁобитель
श्रुतिर्śrutirшрути
एषाeṣāэта
सनातनीsanātanīвечная»
इतिitiтак
स्कान्देskāndeв «Сканде»
श्रीśrīпрекрасных
सनत्sanatСанат-
कुमारkumāraкумары
मार्कण्डेयmārkaṇḍeyaи Маркандеи
संवादेsaṁvādeв беседе
योyo«кто
विष्णुviṣṇuВишну
भक्तोbhaktoпредан
विप्रेन्द्रviprendraо владыка брахманов
शुद्धśuddhaчистыми
चक्रादिcakrādiдиском и прочим
चिह्नितःcihnitaḥотмечен
सsaтот
यातिyātiидёт
विष्णुviṣṇuВишну
लोकंlokaṁв мир
वैvaiведь
दाहdāhaсожжения
प्रलयpralayaи уничтожения
वर्जितम्varjitamлишённый»
इतिitiтак
अत्रatraздесь
पदpada«пада»,
धामादिdhāmādi«дхама» и прочими
शब्देनśabdenaсловом
स्थानsthānaместо
वाचकेनvācakenaназывающим
स्वरूपेsvarūpeк собственному облику
त्व्tvже
अरूढेनarūḍhenaне приложимым
यदिyadiесли
कश्चित्kaścitкто-то
कथञ्चित्kathañcitкак-нибудь
स्वरूपम्svarūpamсобственный облик
एवevaименно
वाचयतिvācayatiзаставляет означать
तर्ह्य्tarhyтогда
अन्यत्रanyatraв другом месте
तत्tatтого
प्रसङ्गेprasaṅgeпри случае
तेऽभिगच्छन्तिte'bhigacchanti«те достигают
मत्matМоей
स्थानंsthānaṁобители
यद्yadкоторую
ब्रह्मbrahmaБрахманом
परमंparamaṁвысшим
विदुःviduḥзнают»
इत्य्ityтак
आदौādauи далее
साक्षाद्sākṣādпрямо
एवevaименно
स्थानsthāna«место»
शब्दśabdaслова
निगदेनnigadenaпроизнесением
तन्tanто
निरसनीयम्nirasanīyamдолжно быть отвергнуто
यदिyadiесли
तत्रापिtatrāpiи там
चca«и»
काराद्य्kārādyслова и прочего
अध्याहारादिadhyāhārādiпривнесения и прочего
दैन्येनdainyenaубожеством
पूर्वpūrvaпрежде
दर्शितेतिहासdarśitetihāsaпоказанной «Итихаса-
समुच्चयस्यsamuccayasyaсамуччаи»
परंparaṁ«высшим
ब्रह्मेतिbrahmetiБрахманом» — так
यद्yad«который
विदुर्vidurзнают»
इतिitiтак
विशेषणviśeṣaṇaопределению
विरुद्धंviruddhaṁпротиворечащее
वाक्यvākyaречения
भेदम्bhedamрасщепление
एवाङ्गीकरोतिevāṅgīkarotiименно принимает
तर्हिtarhiтогда
स्वsvaсвоём
मतेmateво мнении
तत्रtatraтам
तत्रोक्तtatroktaи там сказанное
लोकloka«мир»
शब्दःśabdaḥслово
सहायीsahāyīподмогою
कर्तव्यःkartavyaḥдолжно быть сделано
ततश्tataśпотому
चcaи
पदpada«пада»,
धामdhāma«дхама»,
स्थानsthāna«стхана»,
लोकloka«лока» —
रूपाणांrūpāṇāṁоблик имеющих
तेषांteṣāṁтех
शब्दानांśabdānāṁслов
एकत्रekatraв одной
वस्तुनिvastuniвещи
प्रयोगात्prayogātупотреблением
परस्परम्parasparamвзаимно
अन्यार्थंanyārthaṁиной смысл
दूरीकुर्वन्तस्dūrīkurvantasудаляющие
तेteте
कंkaṁкого
वाvāже
नnaне
बोधयन्तिbodhayantiвразумят
स्वम्svamсвой
अर्थंarthaṁсмысл
यथाyathāкак
भगवान्bhagavān«Бхагаван
हरिर्harirХари
विष्णुर्viṣṇurВишну
अयम्ayamэтот»
इतिitiтак
अथathaтеперь
हन्तhantaувы
तत्रापिtatrāpiи там
चेत्cetесли
स्वरूपsvarūpaсобственный облик
मात्रmātraлишь
वाचकतांvācakatāṁназывание
भिक्षतेbhikṣateвымаливает
तर्हिtarhiтогда
स्फुटम्sphuṭamявно
एवevaименно
पाद्मpādma«Падмы»,
वैष्णवादिvaiṣṇavādi«Вайшнавы» и прочих
वचनैःvacanaiḥречениями
विपक्षोvipakṣoпротивник
ह्रेपणीयःhrepaṇīyaḥдолжен быть посрамлён
कर्माद्य्karmādyделами и прочим
अप्राप्यत्वादिaprāpyatvādiнедостижимость и прочее
प्रतिपादकpratipādakaутверждающие
वाक्यानिvākyāniречения
तुtuже
विशेषतोviśeṣatoособенно
वेत्रvetraжезл
पाणिpāṇiв руке
रूपाणिrūpāṇiдержащим подобны
सन्त्य्santyесть
एवेतिevetiименно — так
वक्तव्यम्vaktavyamдолжно сказать
तस्मात्tasmātпотому
ओंoṁ«ом
नमस्namasпоклон
तेteТебе»
इत्य्ityтак
आदिādiи далее
पद्यम्padyamстрофа
अपिapiи
साध्व्sādhvхорошо
एवevaименно
व्याख्यातम्vyākhyātamистолкована
Литературный перевод

И так же в прозе «Ом, поклон Тебе да будет, о Бхагаван» и далее:

«Ты Сам, чьё переживание собственного счастья обретено в мире Себя, не закрытом, — в сердце, у чьей двери створки тьмы отворены свойством парамахамсы, вполне явным и взращённым высшим самадхи сопряжения с Собою, — парамахамсами-странниками».

«Тьма» — природа или неведение. «В мире Себя» — в мире, что есть собственный облик. По шрути «этот мир Себя — это мир Брахмана» и «в дивном граде Брахмана утверждён этот Высший Дух» и далее.

В ветви Пиппалады: «то тонкое, высшее, познаваемое считают вечной вишнуиской обителью; люди её не знают, а знают её мудрецы, стоящие в йоге, — суть мира».

В иной: «выше неба положено, в тайнике сияет то, куда входят подвижники».

«А это — высшая обитель учителя царя мантр, где нет ни страдания, ни прочего, где не светит солнце, куда не входит смерть, где нет изъяна; она — блаженство, постоянное, умиротворённое, всегда благое, чтимое Брахмою и прочими, созерцаемое йогами; придя куда, йоги не возвращаются. И это высказано риком: „ту высшую обитель Вишну всегда видят мудрые, как простёртое в небе око; ту высшую обитель Вишну возжигают бодрствующие, восхваляющие брахманы“», — так в прекрасной «Нрисимха-тапани».

И её тоже не следует толковать как ведущую речь только о Брахмане: словами «чтимое» и «придя куда» это не принимается.

Ибо и в прекрасной «Вишну-пуране» этот рик приведён с прямым указанием на прекрасный мир Вишну:

«Выше и выше риши, где утверждён Дхрува, — эта дивная обитель Вишну, третья, сияющая в небе. Та высшая обитель, о брахман, — обитель подвижников, обуздавших себя, стряхнувших грязь изъянов, при истощении заслуги и греха. По прекращении заслуги и незаслуги, когда иссякли причины скорби и жажды, придя куда, не скорбят, — та высшая обитель Вишну. Где Дхрува и прочие, свидетели мира, блюдут закон, богатые йогою, рождённою равенством с Ним, — та высшая обитель Вишну. Где вдоль и поперёк проткнуто это — что было с движущимся и недвижным и что будет, вся вселенная, о Майтрея, — та высшая обитель Вишну. „Как простёртое в небе око“ — распростёрта она для великих душ и возросла знанием различения, — та высшая обитель Вишну».

И в «Тапани-шрути» слова «где не веет ветер» и далее суть отрицание лишь того и того вещественного, ибо и там о том и о том слышно.

А что о Шри Дхруве слышно, будто он счёл это неполным — «пронзённый в сердце стрелами речей соперницы матери, он, помня их, не пожелал освобождения у владыки освобождения и после обрёл жар» и «о, смотрите на бессилие моё, скудного долею: придя к подножию стоп Рассекающего бытие, я прошу конечного», — то складывается так: он, просивший того именно по желанию высокой обители и получивший дар, превзошедший его желание, говорит это, чтобы отвергнуть собственное намерение.

Ибо там же сказано Шри Видурой: «крайне труднодостижима высшая обитель Хари». И Самим Милым Шри Дхрувы: «затем ты пойдёшь в Мою обитель, чтимую всеми мирами, что выше риши, откуда ушедший не возвращается». И двумя прекрасными спутниками: «взойди в ту высшую обитель Вишну, чтимую мирами». И Шри Сутой: «восхождение Дхрувы в обитель Вайкунтхи». И в пятой песни, при описании круга светил: «обходят по правую руку ту высшую обитель Вишну» и «которую называют высшею обителью Вишну».

И хотя она входит в проявленный мир, её свойство сказано по правилу «изменению непричастный» и «так ведь он говорит о пребывании». Потому надо знать, что в этом мире уничтожается лишь внешняя, мирская его часть, а сам он тогда лишь скрывается. Опираясь именно на это, сказал и Хираньякашипу: «что мне до иных — вайшнавов и прочих, стряхнутых временем в конце кальпы?» Потому смысл тот, что и ныне говорящие так равны ему.

А таковость прекрасной Маха-Вайкунтхи — тем более. Так и в последней части «Падмы», приведя разные пути шрути, Шри Шива вслед за описанием проявлений, входящих в природу, выразил её таковость:

«Таков высший облик проявления, чей облик вещественен; а облик трёхчетвертного проявления слушай, дочь Горы. Между прадханою и высшим небом — благая река Вираджа, струящаяся водами, рождёнными от пота членов вед. На том её берегу — высшее небо, трёхчетвертное сущее, вечное, бессмертное, постоянное, бесконечное, высшая обитель: дивная, нетленная обитель Брахмана, состоящая из чистой саттвы, чьё сияние равно многим крорам солнц и огней; нетленная, состоящая из всех вед, светлая, лишённая всякого уничтожения, златая, обитель освобождения, именуемая счастьем блаженства Брахмана; лишённая равного и превосходящего, лишённая начала и конца, благая, крайне дивная сиянием, отрадная, вечное море блаженства, — такими и прочими свойствами наделена та высшая обитель Вишну.

Не освещает её ни солнце, ни луна, ни огонь; придя куда, не возвращаются, — та высшая обитель Хари. Та высшая обитель Вишну постоянна, вечна, непреходяща; её не описать и сотнями крор кальп. Обитель Хари не описать ни мне, ни Творцу, ни лучшим из владык мудрецов: в какой обители Ачьюта, Владыка, — о, знает ли Он то или не знает. Нетленная, тайная для веды, в которой воссели все боги: кто её не знает — что сделает он риком? А те, кто её знают, — вот они и восседают. Ту высшую обитель Вишну всегда видят мудрые: нетленную, постоянную, вечную, как простёртое в небе око. Войти в неё вовсе невозможно Брахме, Рудре и прочим божествам; знанием, путём писания видят её быки среди йогов. Ни я, ни Брахма, ни боги, ни великие риши не знают её; увидев смысл всех упанишад, скажу, о благообетная.

В высшей же обители Вишну посреди — источник, именуемый благим, где пребывают коровы с обильными рогами, потомство, со своим счастьем. Здесь ведь та высшая обитель воспеваемого Шарнгина; сияет та высшая обитель коровами, воспеваемыми, именуемыми благими. Цвета солнца, выше тьмы, свет высший; а затем — мир Брахмана, чистый, и он вечен. В этой постоянной обители, далёкой, на краю, не отделённой от общего, бодрствующие, пребывали двое юных, прекрасных, вечных: ибо две сестры-юницы, Бху и Лила, милы Вишну. Здесь и прежние садхьи, и вечные вишведевы: они, достигающие величия неба, благие видом. Ту обитель возжигают знающие бодрствующие брахманы.

Та высшая обитель Вишну именуется „освобождением“: в неё, освобождённые от уз, приводимы они — в обитель своего счастья. Достигнув которой не возвращаются, потому она и названа „мокшей“. „Мокша“, „высшая обитель“, „признак“, „бессмертное“, „храм Вишну“, „нетленное“, „высшая обитель“, „Вайкунтха“, „постоянное“, „высшее“, „вечное“ и „высшее небо“, „всего превосходнее“, „вечное“ — вот синонимы, называющие эту высшую обитель Ачьюты. А облик того трёхчетвертного проявления скажу подробно» и далее.

Шрути такого же рода среди ведических большею частью известны и потому не приводятся.

И в прекрасной «Нарада-панчаратре», в беседе прекрасных Брахмы и Нарады, в гимне «Победа Тебе»:

«Мир, именуемый Вайкунтхой, наделённый шестью дивными свойствами, недостижимый для невайшнавов, лишённый трёх свойств; наполненный вечно совершенными, из него состоящими, пятивременными; снабжённый залами и дворцами, благой лесами и рощами; украшенный прудами, колодцами, водоёмами и купами деревьев; невещественный, чтимый богами, чьё сиянье равно десяти тысячам солнц».

В «Брахманда-пуране»: «ту обитель бесконечных свойств, великое сиянье, неприступное, незримое, несравненное, высшее блаженство, превзошедшее чувства».

В «Итихаса-самуччае», в сказании о Мудгале:

«Выше обители Брахмы — та высшая обитель Вишну, чистый вечный свет, который знают высшим Брахманом. Туда идут праведные — лишённые „моего“, лишённые „я“, лишённые двойственности, победившие чувства и преданные сопряжению созерцания. Те, кто чтит Хари, Вишну, Кришну, Джишну, вечного, Нараяну, нерождённого бога, Вишваксену четырёхрукого, кто созерцает дивного Пурушу и помнит Ачьюту, — те обретают обитель Ачьюты: таково вечное шрути».

В «Сканде», в беседе прекрасных Санаткумары и Маркандеи: «кто предан Вишну, о владыка брахманов, и отмечен чистыми диском и прочим, тот идёт в мир Вишну, лишённый сожжения и уничтожения».

Итак, слова «пада», «дхама» и прочие называют место и к собственному облику неприложимы. Если кто-нибудь как-нибудь заставит их означать именно собственный облик, то в другом месте, при том же случае, это отвергается прямым произнесением слова «место»: «те достигают Моей обители, которую знают высшим Брахманом» и далее.

А если и там он, по убожеству привнесения слова «и» и прочего, примет расщепление речения, противоречащее определению «который знают высшим Брахманом» из показанной выше «Итихаса-самуччаи», — тогда в своём мнении ему придётся брать в подмогу слово «мир», сказанное там и там. А ведь эти слова — «пада», «дхама», «стхана», «лока», — будучи употреблены об одной вещи, взаимно отводят иной смысл: кого же они не вразумят в своём смысле — как «Бхагаван, Хари, Вишну — вот этот»?

И если он, увы, и там вымаливает для них значение одного лишь собственного облика, — тогда противника надо явно посрамить речениями «Падмы», «Вайшнавы» и прочих. А речения, утверждающие недостижимость его делами и прочее, надо признать особенно подобными стражам с жезлом в руке.

Потому и строфа «Ом, поклон Тебе» и далее истолкована хорошо.

Версия

3351a65d3488 · опубликовано 20 сент. 2026 г., 11:13:10 UTC

Доступно наRU

Листайте стихи клавишами